71042: ध्वमो ध्वात्

Padacheda: ध्वमः | S | 6 | 1 |

ध्वात् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) ध्वात् is substituted for the personal ending ध्वम्।

Vasu English Translation

In the छन्दस् (Vedas) ध्वात् is substituted for the personal ending ध्वम्। As अन्तरेवोष्माणं वारयध्वात् for वारयध्वम् ॥ Aitareya Brahmana II.6.14.

Kashika

छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति। अन्त॑रेवो॑ष्मा॑णं वारयध्वात् (काठ०सं०१६.२१)। वारयध्वमिति प्राप्ते ॥

Siddhanta Kaumudi

अन्तरेवोष्माणं वारय ध्वात् । वारयध्वमिति प्राप्ते ॥

Nyaas

वारयध्वात् इति। वृञो वृङो वा हेतुमण्णिजन्तात्? वृञ्? आवरणे (धातुपाठः-1813) इत्यस्माद्वा चुरादिणायन्ताल्लोट्, तस्य ध्वम्, तस्य ध्वात्। वारयध्वम् इति। टेरेत्त्वे कृते सवाभ्यां वामौ (3.4.91) इत्यमादेशः॥

Prakriyasarvasvam

अन्तरेवोष्माणं वारयध्वात् ।