71043: यजध्वैनमिति च ==================== **Padacheda:** यजध्वैनम् | S | 1 | 1 | इति | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- यजध्वैनम् is irregularly formed in the छन्दस् (Vedas) for यजध्वनमेनम्। Vasu English Translation ------------------------ यजध्वैनम् is irregularly formed in the छन्दस् (Vedas) for यजध्वनमेनम्। The word यजध्वम् followed by एनम् loses its final म् in the *Veda*. As यजध्वैनं प्रियमेधाः (*Rig* VIII.2.37). The *Kasika* adds "that व is also irregularly changed into य" : the form would then be यजध्यैनम् ॥ This is, however, a mistake as pointed out by *Bhattoji* *Dikshit*. Kashika ------- यजध्वमित्येतस्य एनमित्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये। यज॑ध्वैनं प्रियमेधाः॒ (ऋ०८.२.३७)। यजध्वमेनमिति प्राप्ते ॥ Siddhanta Kaumudi ----------------- एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ॥ Prakriyasarvasvam ----------------- यजध्यैनं प्रियमेधाः इति क्वचिच्छाखायाम् । यजध्वमेनमित्यर्थः । बह्वृच- मतेन तु यजध्वैनमिति चेति सूत्रपाठे मलोपमात्रनिपातनं चेति रामः ।