71041: लोपस्त आत्मनेपदेषु¶
Padacheda: लोपः | S | 1 | 1 |
तः | S | 6 | 1 |
आत्मनेपदेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) the त of the आत्मनेपद personal ending is elided.
Vasu English Translation¶
In the छन्दस् (Vedas) the त of the आत्मनेपद personal ending is elided. As देवा अदुह्र and गन्धर्वा अप्सरसो अदुह्र for अदुहत् (see (7.1.8)); दुहाम् (for दुग्धाम्) अश्विभ्यां पयो अघ्न्येयम् ॥ Rig I.164.27. दक्षिणतः शये for शेते ॥ Owing to the anuvritti of अपि from (7.1.38), this substitution sometimes does not take place; as: आत्मानमनृतंकुरुते ॥ Why in the Atmanepada ? Observe वत्सं दुहन्ति कलशं चतुर्बिलम् ॥
Kashika¶
आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति। दे॒वा॑ अ॒दुह्र॒ (मै०सं०४.२.१३)। गन्धर्वाप्स॒र॑सो॒ अदुह्र (मै०सं०४.२.१३)। अदुहतेति प्राप्ते। दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयम् (ऋ०१.१६४.२७)। दुग्धामिति प्राप्ते। दक्षिणतः पुमान् स्त्रियमुपशये (काठ०सं० २०.६)। शेत इति प्राप्ते। अपीत्यधिकाराद् न भवति — तत्र आत्मानमनृतं कुरुते। आत्मनेपदेष्विति किम्? उत्सं॑ दुहन्ति क॒लशं॒ चतु॑र्बिलम् (तै०ब्रा०३.७.४.१६)॥
Siddhanta Kaumudi¶
छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ॥
Padamanjari¶
अदुह्रएति । दुरेर्लङ् आत्मनेपदेष्वनतः इति झस्यादादेशः, बहुलं च्छन्दसि इति रुट्, तकारस्य लोपे द्वयोरकारयोः अतो गुणे पररुपत्वम् । शये इति । शेते इत्यत्र तलोपे कृते अयादेशः । दुहामिति । लोट्, टेरेत्वम्, आमेतः, तलोपः । अपीत्यधिकारादिति । एवं च आत्मनेपदेषु इति वचनं तस्यैव प्रपञ्चः ॥
Nyaas¶
अदुह्य इति। दुहेर्लङ, अदादित्वाच्छपो लुक्, आत्मनेपदेष्वनतः (7.1.5) इत्यादेशः, बहुलं छन्दसि (7.4.78) इति रुट्, तकारलोपे कृते द्वयोरकारयोः अतो गुणे (6.1.97) परूपत्वम्। दुह्याम्` इति। लोट्, बहुवचनं झः, टेरेत्वम्, आमादेशः, झादेशस्याते रुडागमः, पूर्वच्छपो लुक्, तकारलोपे कृते अकः सवर्णे दीर्घः, (6.1.10) । `शये इति। लट्, एकवचनान्तः, शीङः सार्वधातुके गुणः (7.4.21) , शपो लुक्। दुहाम् इति। लोट्? एकवचनान्तः, टेरेत्त्वम्, आमेतः (3.4.90) इत्याम्। दुग्धाम् इति। दादेर्धातोर्धः (8.2.32) , **झषस्तथोर्धोऽधः** (8.2.40) इति धत्वम्, **झलां जश् झशि** (8.4.53) इति धकारस्या गकारः। `अपीत्यधिकरात् इत्यादि। क्त्वादि छन्दसि (7.1.38) इत्यतोऽपीत्यनुवर्तते, तत्रैवमभिसम्बन्धः क्रियते - लोपो भवति श्रवणमपीति; तेन कुरुत इत्यत्र न भवति। करोतेर्गुणे कृते अत उत्सार्वधातुके (6.4.110) इत्युत्त्वम्। यदि अपिशब्दानुवृत्तेः क्वचिच्छ्रवणमिप भवति, अत एव हेतोः परस्मैपदेषु न भवतीति किमात्मनेपदग्रहणेन? एवं तर्हि विस्पष्टार्थमात्मनेपदग्रहणम्॥
Prakriyasarvasvam¶
तशब्दस्य तकारलोपः स्यात् । दुग्धमित्यर्थे दुहामश्विभ्यां पयः । एतदस्या अन्ः शये । शेते इत्यर्थः ।