71030: भ्यसो भ्यम् ================== **Padacheda:** भ्यसः | S | 6 | 1 | भ्यम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- अभ्यम् is substituted for the Dative -4th Case ending भ्यस् after the अङ्ग (stems) युष्मद् and अस्मद्। Vasu English Translation ------------------------ अभ्यम् is substituted for the Dative -4th Case ending भ्यस् after the अङ्ग (stems) युष्मद् and अस्मद्। As युष्मभ्यम् and अस्मभ्यम् ॥ As the *sutra* is constructed (भ्यसो भ्यम्) it is not easy to say whether the substitute is भ्यम् or अभ्यम् ॥ If it is भ्यम्, then we have two cases, (1) eliding the final द् of *yushmad* and *asmad*, by (7.2.90); and adding भ्यम् (2) eliding अद् of *yushmad* and *asmad*¬ by (7.2.90), and adding भ्यम् ॥ It will be shown hereafter that (7.2.90), is capable of two explanations, one by which *yushmad* and *asmad* lose their द् only, and by another अद् ॥ Similarly with अभ्यम् we have also two cases : Thus we have four cases, as (1) *yushma* + *bhyam*, (2) *yushm* + *bhyam*, (3) *yushma* + *abhyam*, (4) *yushm* + *abhyam*. In the case of the first (*yushma* + *bhyam*) we can get the proper form, though it may be objected that *yushma* + *bhyam* should be equal to युष्मेभ्यम् by (7.3.103): this ए substitution will not take place, however, by force of the maxim अङ्गवृत्त पुनर्वृत्तावविधिर्निर्दिष्ठितस्य "when an operation which is taught in the *angadhikara* has taken place, and another operation of the *angadhikara* is subsequently applicable, this latter operation is not allowed to take place." The second case is an impossibility, namely, *yushm* + *bhyam* can give us no form. The third case *yushma* + *abhyam* will give us the proper form युष्म꣡भ्यम् (अ + अ = अ by (6.1.97)). Moreover the accent also will be on the middle युष्मभ्यम् by (6.1.161), the *udatta* अ of *yushma* being elided by the *anudatta* अ of अभ्यम्, the acute will be on the *anudatta* अ ॥ It should not be objected that in (6.1.161), the word अन्त of (6.1.159) is understood, and the accent will be on the final. We have shown in that *sutra*, that the *udatta* will fall on the आदि (beginning) of the *anudatta* term which causes the elision. The fourth alternative *yushm* + *abhyam* is free from all objections. Bhashya ------- भ्यसोभ्यम् किमयं भ्यम्शब्द आहो स्विदभ्यम्शब्दः ? ॥ कुतः सन्देहः ? ॥ ॥॥ समानो(1) निर्देशः ॥ 8 ॥ किं चातः ॥ यदि तावभ्द्यम्शब्दः शेषे लोपश्चान्त्यस्य, - एवं प्राप्नोति । अथाऽभ्यम्शब्दः शेषे लोपश्च टिलोपः, उदात्तनिवृत्तिस्वरः प्राप्नोति ॥ यथेच्छसि तथास्तु ॥ अस्तु तावभ्द्यम्शब्दः शेषे लोपश्चान्त्यस्य ॥ ननु चोक्तमेत्वं प्राप्नोतीति ॥ नैषः दोषः, अङ्गवृत्ते(1) पुनर्वृत्तावविधिर्निष्ठितस्येति न भविष्यति ॥ अथ वा पुनरस्त्वभ्यम्शब्दः शेषे लोपश्च टिलोपः ॥ ननु चोक्तमुदात्तनिवृत्तिस्वरः प्राप्नोतीति ॥ नैषः दोषः - उक्तमेतत् - आदौ(1) सिद्धमिति ॥ Kashika ------- युष्मदस्मद्भ्यामुत्तरस्य भ्यसो भ्यमित्ययमादेशो भवति। युष्मभ्यं दीयते। अस्मभ्यं दीयते। भ्यमादेशे कृते शेषे लोपे (७.२.९०) च **बहुवचने झल्येत्** (७.३.१०३) इत्येत्वं प्राप्नोति। तद् **अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य** इति न भवति। केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति। येषां तु शेषे लोपष्टिलोपस्तेषामभ्यमादेश एव। उदात्तनिवृत्तिस्वरः (६.१.१६१) चादेरेव भवति॥ Siddhanta Kaumudi ----------------- भ्यसो भ्यमभ्यम् वा आदेशः स्यात् । आद्यः शेषे लोपस्यान्त्यलोपत्व एव । तत्राङ्गवृत्तपरिभाषया एत्वं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युष्मभ्यम् । अस्मभ्यम् ॥ Laghu Siddhanta Kaumudi ----------------------- आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥ Balamanorama ------------ **भ्यसः भ्यम्** - भ्यसोभ्यम् । भ्यमभ्यमिति वा छेदः । तदाद-भ्यस इति ।युष्मदस्मद्भ्यां परस्ये॑ति शेषः,युष्मदस्मद्भ्यां ङसोऽश् इत्यतस्तदनुवृत्तेः । ननु ब्यमादेशपक्षे 'शेषे लोपः' इत्यदो लोपे युष्मभ्यमस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह — आद्य इति । लक्ष्यानुरोधादिहाऽन्त्यलोपपक्ष एवाश्रयणीयः । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति 'बहुवचने झल्येत्' इत्येत्त्वं स्यादित्यत आह — तत्राङ्गवृत्तेति ।अङ्गवृत्तेः पुनर्वृत्तावविधि॑रिति परिभाषयेत्यर्थः । अङ्गेवृत्तं वर्तनं यस्य तत्-अङ्गवृत्तं, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः=विदिर्नास्तीत्यर्थः । प्रकृते च शेषलोपे अङ्गकार्ये प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः । अभ्यम् त्विति । अब्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाऽभावात्तस्मिन् परे एत्त्वं न । किन्तु पररूपे सति युष्मभ्यमस्मभ्यम् इति सिध्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वाऽभावादपि एत्त्वं न । Tattvabodhini ------------- **भ्यसः भ्यम्** - पक्षद्वयेऽपि साधुरिति । नन्वन्त्यलोपपक्षे पररूपं बाधित्वा सवर्णगदीर्घः स्यादकारोच्चारणसामर्थ्याजिति चेदत्राहुः, बहुवचने झल्ये॑दित्येत्त्वनिवृत्याऽकारोतच्चारणस्य चरितार्थत्वादिति । यद्यप्यङ्गवृत्तपरिभाषया एत्वं सुपरुहरं, तथापि तस्या अनित्यत्वे इदमप्यकारोच्चारणं ज्ञापकमिति तत्त्वम् । Padamanjari ----------- एत्वं प्राप्नोतीति । सुपि चेति दीर्घस्याप्युपलक्षणमेतत् । अङ्गवृत इत्यादि । अस्यार्थः पूर्वमेव व्याख्यातः । केचित्पुनरित्यादि । येषां शेषेलोपोऽन्त्यस्य लोपः तेषामतो गुणे पररुपत्वमेकादेशः, स्वरश्च । एत्वनिवृत्वार्थमिति । अत्रापि दीर्घस्याप्युपलक्षणम्, एत्वनिवृत्या चाकारोच्चारणस्यार्थवत्वात्सवर्णदीर्घत्वं तेषां न एभवति । येषां त्विति । अन्त्यलोपपक्षे मतभेदः - भयमादेशः, अभ्यमादेश इति । टिलोपपक्षे त्वषश्यमभ्यमादेशः, अन्यथा रुपासिद्धे । नन्वेवं स्वरे दोषः, कथमनुदातस्य च यत्रोदातलोपः इत्यत्र कर्षात्वतो घञोन्त उदातः इत्यन्तोदातग्रहणमनुवर्तते, ततश्च भ्यमोऽन्तोदातत्वं प्राप्नोति अत्यत आह - उदात्त्निवृत्तिस्वरश्चेति । न तत्रान्तग्रहणमनुवर्तते, उच्चारणक्रमे प्रत्यासत्या चादेरेवोदातत्वं भवतीत्यर्थः ॥ Nyaas ----- `युष्मभ्यम्, अस्मभ्यम्` इति। **शेषे लोपः** (7.2.90) इत्यन्तलोपः। यदि भ्यमादेशोऽयम्, एवं सति तत्र विहिते शेषेलोपे च `बहुवचने झल्येत्` (7.3.103) इत्येत्त्वं प्राप्नोति, ततश्चानिष्टरूपमापद्येत? इत्यत आह - `भ्यमादेशे कृते` इत्यादि। वर्तनं वृत्तम्, अङ्गे वृत्तं यस्य तदङ्गवृत्तं कार्यम्, तस्मिन्नङ्गवृत्ते कार्ये पुनरत्तरकालमङ्गवृत्तावपरस्य कार्यस्य प्राप्तौ तस्य कार्यस्यादिधिः;=अविधानम्। निष्ठितस्येत्यनेन यत्समम्बन्धिनः कार्यस्याविधिर्भवति तदङ्गं विशिष्यते। निष्ठितम्=परिसमाप्तम्, प्रयोगार्हमङ्गम्। तत्सम्बन्धिनः कार्यस्याविधिर्भवति, नान्यसम्बन्धिन इत्यर्थः। `केचित्` इत्यादि। तेषामन्त्यलोपे कृते **अतो गुणे** (6.1.97) पररूपत्वं भवति। `येषां तु` इत्यादि। यैः **शेषे लोपः** (7.2.90) इत्यन्तलोपः क्रियते, तेषां मतभेदः - ते हि केचिद्भ्यमादेशमिच्छन्ति, केचिदभ्यमादेशम्। येषां तु शेषेलोपष्टिलोपः तेषां मतेनायमभ्यमादेश एव, न भ्यमादेशः; अन्यथा युष्मब्यमिति न सिध्येवितयभिप्रायः। यदि तर्हि शेषेलोपष्टिलोपः, एवं सति **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इत्यनेनाभ्यम्शब्दस्यान्तोदात्तत्वं स्यात्? इत्यत आह - `उदात्तनिवृत्तिस्वरश्च` इत्यादि। पूर्वपक्षवादिनोदात्तनिवृत्तिस्वरविधौ **कर्षात्वतो घञोऽन्त उदात्तः** (6.1.159) इत्यतोऽन्तग्रहणमनुवर्तत इति मन्यमानेन चोदितन्। उत्तरपक्षवादिना तु `अन्तग्रहणं तत्र निवृत्तमुच्चारणक्रमप्रतयासत्त्या चादेरेवोदात्तत्वेन भवितुं युक्तम्` इति। मन्यमानेन परिह्मतम्॥ Praudhamanorama --------------- **पक्षद्वयेऽपीति।** न चान्त्यलोपपक्षे पररूपं बाधित्वा सवर्णदीर्घः स्यादकारोच्चारणसाममर्थ्यादिति वाच्यम्? एत्वनिवृत्त्याऽकारोच्चारणस्य चरितार्थत्वात्। Prakriyasarvasvam ----------------- आभ्यां परस्य भ्यसोऽभ्यम् स्यात् । 'शेषे लोपः' (७-२-९०) पररूपम् । युष्मभ्यम् । अस्मभ्यम् । भ्यसि कृते 'बहुवचने झल्येत्' (७-३-१०३) इत्येत्त्वं दुस्त्यजमित्यभ्यमुक्तः । Sudha ----- भ्यसो भ्यम् । आन्यामिति । **युष्मदस्मद्भ्यां ङसोऽश्**(7.1.27) इत्यतस्तदनुवृत्तेरिति भावः । युष्मभ्यम्, अस्मभ्यम् । 'युष्मद् भ्यस्' अस्मद् + भ्यस् इत्यत्र **भ्यसो भ्यम्**(7.1.30) इति भ्यसः स्थाने भ्यमादेशे कृते **शेषे लोपः**(7.2.90) इति द् लोपे कृते सति 'युष्मभ्यम्' 'अस्मभ्यम्' इति ।