71021: अष्टाभ्य औश् =================== **Padacheda:** अष्टाभ्यः | S | 5 | 3 | औश् | S | 1 | 1 | Sutrartha --------- **अष्टन्-शब्दस्य 'अष्टा' इत्येतस्मात् परस्य जस्/शस् प्रत्यययोः औश्-इति आदेशः भवति ।** 'अष्टन्' इति संख्यावाची शब्दः । अस्य शब्दस्य 'अष्टा' इति आदेशे कृते अस्मात् परयोः जस्/शस्-प्रत्यययोः **षड्भ्योः लुक्** (7.1.22) इत्यनेन लुक्-प्राप्ते अपवादत्वेन औश्-इति आदेशः भवति । **अनेकाल्शित्सर्वस्य** (1.1.55) इत्यनेन अयम् सर्वादेशः जायते । परन्तु अष्टन्-शब्दस्य अष्टा इति आदेशः कुत्र भवति? अजादौ विभक्तौ परे अष्टन्-शब्दस्य आकारादेशं कर्तुम् वस्तुतः भिन्नम् सूत्रम् नास्ति, अतः एतत् सूत्रमेव इत्यस्य ज्ञापकं स्वीक्रियते यत् अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति । तथा च, अयमादेशः केवलं विकल्पेन स्वीक्रियते, यतः आचार्येण स्वयम् **अष्टनो दीर्घात्** (6.1.172) अस्मिन् सूत्रे 'दीर्घ-आदेशकृत-अष्टन-शब्दात् परा असर्वनामस्थाना विभक्तिः उदात्ता भवति' इति उक्तमस्ति । एतत् अस्यैव ज्ञापकम् यत् दीर्घग्रहणम् वैकल्पिकम् स्यात्, न हि नित्यम् । अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - जस्/शस् प्रत्यये परे अष्टन् शब्दस्य वैकल्पिकः आकारादेशः भवति, तथा अस्मिन् आकारादेशे कृते प्रत्ययस्यापि औश्-आदेशः भवति । अष्टन् + जस् / शस् → अष्टा + जस् / शस् → अष्टा + औ [**षड्भ्यो लुक्** (7.1.22) इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन **अष्टाभ्य औश्** (7.1.21) इति अङ्गस्य आकारादेशः तथा प्रत्ययस्य औश्-आदेशः] → अष्टौ [**प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्ण-दीर्घे प्राप्ते, **नादिचि** (6.1.104) इत्यनेन तस्य निषेधः भवति । अतः **वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशः औकारः] यदि अष्टन्-शब्दस्य आकारादेशः न भवति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - अष्टन् + जस् / शस् → अष्टन् [**षड्भ्यो लुक्** (7.1.22) इति जस्/शस्-प्रत्यययोः लुक्] → अष्ट [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] यस्य समस्तपदस्य उत्तरपदम् 'अष्टन् ' शब्दः अस्ति तस्यापि विषये अस्य प्रसक्तिः अस्ति । यथा - परमाश्च अष्टौ च = परमाष्टौ, परमाष्ट । Sutrartha (English) ------------------- The जस् and शस् प्रत्ययs following the 'अष्टा' form of the word अष्टन् get the औश् आदेश. Vasu English Summary -------------------- After the अङ्ग (stem) अष्टा (the form assumed by अष्टन् -- अष्टन आ विभक्तौ (7.2.84)), औश् is substituted for the endings of the Nominative 1st-Case and Accusative -2nd case. Vasu English Translation ------------------------ After the अङ्ग (stem) अष्टा (the form assumed by अष्टन् -- अष्टन आ विभक्तौ (7.2.84)), औश् is substituted for the endings of the Nominative 1st-Case and Accusative -2nd case. As अष्टौ तिष्ठन्ति, अष्ठौ पश्य ॥ Why have we taken the form अष्टा and not अष्ट ? Observe अष्ट तिष्ठन्ति, अष्ट पश्य ॥ This peculiar construction of the present *sutra* (अष्टाभ्यः instead of अष्टनः) indicates, that the आ substitution for the न् of अष्टन् is optional. This *sutra* is, moreover, an exception by anticipation, to the following *sutra*, by which the plural Nominative and Accusative endings are elided after the numerals called षष् ॥ The elision of case-endings taught by (2.4.7), is not, however, barred by this rule; the elision taught therein will take place, whether this rule applies or not. Thus अष्टपुत्रः, अष्टभार्यः ॥ The present rule applies even when अष्ट is at the end of a compound, as परमाष्टौ, उत्तमाष्टौ ॥ But in प्रियाष्टानः, औ does not come, as अष्टन् has not assumed the form अष्टा here i.e. it has not lost its न् ॥ Bhashya ------- अष्टाभ्य औश् औशघौ ॥ औशघाविति वक्तव्यम् ॥ किमिदमघाविति? ॥ अनुत्तरपद इति ॥ किं प्रयोजनम्? ॥ इह मा भूत् - अष्टपुत्रः अष्टभार्य इति। अस्तु लुक्तत्र ॥ अस्त्वत्रौश्त्वं,लुग्भविष्यति ॥ षड्भ्योऽप्येवं प्रसज्यते ॥ (षड्भ्योऽप्येवं प्रसज्यते) इहापि तर्हि प्राप्नोति - अष्टौ तिष्ठन्ति अष्टौ पश्येति ॥ अपवादः ॥ अपवादत्वादत्रौश्त्वं लुकं बाधिष्यते ॥ इहापि तर्हि बाधेत - अष्टपुत्रः अष्टभार्यः ॥ यस्य विषये ॥ यस्य लुको विषये औश्त्वं तस्यापवादः ॥ यो वा तस्मादनन्तरः ॥ अथ वाऽनन्तरस्य लुको बाधकं भविष्यति ॥ कुत एतत्? ॥ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥ अथेह कस्मान्न भवत्यौश्त्वम् - अष्ट तिष्ठन्ति अष्ट पश्येति? ॥ आत्वं यत्र तु तत्रौश्त्वम् ॥ यत्रैवात्त्वं तत्रैवौश्त्वेन भवितव्यम् ॥ कुत एतत् ? ॥ तथा ह्यस्य ग्रहः कृतः ॥ तथा ह्यस्यात्वभूतस्य ग्रहणं क्रियते - अष्टाभ्य इति ॥ ननु च नित्यमात्वम् ॥ एतदेव ज्ञापत्याचार्यो विभाषा आत्वमिति यदयमात्वभूतस्य ग्रहणं करोति - अष्टाभ्यइति । इतरथा हि अष्टन इत्येव ब्रूयात् ॥ ॥ औशघावस्तु लुक्तत्र षड्भ्योऽप्येवं प्रसज्यते । अपवादो यस्य विषये यो वा तस्मादनन्तरः ॥1 ॥ ॥ आत्वं यत्र तु तत्रौश्त्वं तथा ह्यस्य ग्रहः कृतः । स्वमोर्लुक् च त्यदादीनां कृते ह्यत्वे न लुग्भवेत् ॥2 ॥ Kashika ------- अष्टाभ्य इति कृताकारोऽष्टन् शब्दो गृह्यते, तस्मादुत्तरयोर्जश्शसोरौशित्ययमादेशो भवति। अष्टौ तिष्ठन्ति। अष्टौ पश्य। कृताकारस्य ग्रहणं किम्? अष्ट तिष्ठन्ति। अष्ट पश्य। एतदेव कृतात्वस्य ग्रहणं ज्ञापकम् **अष्टन आ विभक्तौ**(७.२.८४)इत्यात्वविकल्पस्य। **षड्भ्यो लुक्** (७.१.२२) इत्यस्यायमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते। यस्तु **सुपो धातुप्रातिपदिकयोः** (२.४.७१) इति, तस्मिन् प्राप्ते चाप्राप्ते चेति स न बाध्यते — अष्टपुत्रः, अष्टभार्य इति। तदन्तग्रहणमत्रेष्यते। परमाष्टौ। उत्तमाष्टौ। प्रियाष्टान इत्यत्रात्वस्याभावादौश्त्वं न भवति॥ Siddhanta Kaumudi ----------------- कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । वैकल्पिकं चेदमष्टन आत्वम् । अष्टनो दीर्घात् (SK3718) इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अष्टौ । अष्टौ । परमाष्टौ । परमाष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे । अष्ट । अष्ट । इत्यादि पञ्चवत् । गौणत्वे त्वात्वाऽभावे राजवत् । शसि प्रियाष्ट्नः । इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान्न ष्टुत्वम् । कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा । प्रियाष्टा इत्यादि । जश्शसोरनुमीयमानमात्त्वं प्राधान्य एव न तु गौणतायाम् । तेन प्रियाष्ट्नो हलादावेव वैकल्पिकमात्त्वम् । प्रियाष्टाभ्याम् 3 । प्रियाष्टाभिः । प्रियाष्टाभ्यः 2 । प्रियाष्टासु ॥ प्रियाष्ट्नो राजवत्सर्गं हाहावञ्चापरं हलि । भष्भावः । जशत्वचर्त्वे । भुत् । भुद् । बुधौ । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुद्भ्याम् । भुद्भ्याम् । भुत्सु ॥ Laghu Siddhanta Kaumudi ----------------------- कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥ Balamanorama ------------ **अष्टाभ्य औश्** - अष्टाभ्य औश् । 'जश्शसोः शिः' इत्यतो जश्शसोरित्यनुवर्तते । अष्टाभ्य इति पञ्चमी ।तस्मादित्युत्तरस्ये॑त्युपतिष्ठते । 'अष्टा' इत्याकारान्तशब्दो विवक्षितः । तदाह — कृताकारादित्यादिना । नकारस्याऽऽत्वे कृते सति योऽष्टाशब्दास्तस्मादित्यर्थः । शित्त्वात्सर्वादेशः ।आदेः परस्ये॑ति तु नात्र प्रवर्तते,अनेकाल्शि॑दिति परेण तस्या बाधात् । औशादेशोऽयंषड्भ्यो लु॑गित्यस्यापिबादः । ननु जश्शसोः परतोऽष्टन्शब्दस्यात्वं नास्त्येव, 'अष्टन आ विभक्तौ' इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात् । ततश्च जश्शसोरौइआधौ 'कृताकारादष्टन' इत्यनुपपन्नम् । तत्राह-अष्टभ्य इति वक्तव्य इत्यादि । भ्यसि अष्टभ्यः, अष्टाभ्य इति रूपद्वये सत्यपि औइआधौ लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः । ननु 'अष्टन आ विभक्तौ' इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानादष्टाभ्य इत्येव निर्देष्टव्यं, प्रामाणिकगौरवस्याऽदोषत्वात् । ततश्च औइआधौ 'अष्टाभ्य' इति निर्देशो जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह — वैकल्पिकं चेदमिति । ज्ञापकादिति ।अष्टनो दीर्घा॑दिति सूत्रे दीर्घान्तादष्टन्शब्दात्पराऽसर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः । अष्टाभिविंकर्षयतीत्यत्र भकारादिकार उदात्तः ।अनुदात्तं पदमेकवर्ज॑मिति शिष्टमनुदात्तम् । दीर्घादिति विशेषणादष्टभिरित्यत्र आत्वाऽभावस्थले भिस उदात्तत्वं न भवति, किंतु मध्योदात्तत्वमेव,झल्युपोत्तम॑मित्यस्य प्रवृत्तेः । षट्चतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः । यदि तु अष्टन आत्वं नित्यं स्यात्तर्हि अष्टभिरिति ह्रस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याऽभावात् । आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्त्यस्य सत्त्वाद्दीर्घग्रहणमर्थवत् । अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः । अष्टाविति । अष्टन्शब्दाज्जश्शसोरौश् । शित्त्वात्सर्वादेशः । 'अष्टाभ्य' इति निर्देशान्नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः । परमाष्टाविति ।अष्टाभ्य औ॑शित्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः । अष्टाभिरिति । हलादौ आत्वे सवर्णदीर्घः । अष्टानामिति । आदौ नुटि कृते सति हलादित्वादात्वम् । नच नान्तत्वप्रयुक्तषट्संज्ञकशब्दसन्निपातमुपजीव्य प्रव#ऋत्तस्य नुटस्तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यं, नहि षट्सन्निपातेन जातस्य नुट आत्वेऽपि तद्विघातकत्वं, कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात्शमामष्टानां दीर्घः श्यनी॑त्यादिनिर्देशेनाऽत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणाच्चेति भावः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः । यद्यपिअष्टनो दीर्घा॑दिति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्पं ज्ञापयितुं शक्नोति नतु जसि, तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जास्यप्यात्वविकल्प इति भावः । प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्टनिघ्न एकद्विबहुवचनान्तः । तत्र विशेषमाह — गौणत्वे त्विति । अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः । आत्वाऽभावे इति ।अष्टनो दीर्घा॑दिति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः । राजवदिति ।प्रायेणे॑ति शेषः । प्रियाष्टा प्रियाष्टानौ प्रियाष्टानः । प्रियाष्टानम्, प्रियाष्टानौ । शशि प्रियाष्ट इति । 'अल्लोपोऽनः' इत्यकारलोपः । ननु कृतेऽल्लोपे नकारस्य ष्टुत्वेन णत्वं कुतो न स्यादित्यत आह — इहेति । इहाऽल्लोपस्य स्थानिवद्भावान्न ष्टुत्वमित्यन्वयः । अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति बावः । ननु स्थानिनि सति यत्कार्यं तदेवादेशेऽतिदेश्यते । स्थानिनि सति यत्कार्यं न भवति तदादेशे न भवति इत्येवं कार्याऽभावस्तु नातिदिश्यते । अन्यता 'नायक' इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम् । तस्मादल्लोपस्य स्थानिवत्त्वान्न ष्टुत्वमित्यनुपपन्नम् । 'अचः परस्मिन्' इति सूत्रं तु यद्यपि स्थानिनि सति यत्कार्यं न भवति तदादेशेऽपि न भवतीत्येवं कार्याऽभावस्यातिदेशकं तथापि न तस्यात्र प्रवृत्तिरस्ति । स्थानिभूतादच#ः पूर्वस्यैव विधौ तत्प्रवृत्तेः । इह च स्थानिभूतादचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह — पूर्वस्मादपि विधाविति । स्थानिभूतादचः पूर्वस्मात्परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः । नचपूर्वत्रासिद्धीये न स्थानिव॑दिति निषेधः शङ्क्यः, 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वि॑त्युक्तं । तद्रीत्याप्याह — बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति । अल्लोपोऽङ्गसंज्ञासंज्ञापेक्षत्वाद्बहिरङ्गः । ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम् । तस्मिन् कर्तव्ये बहिरङ्गस्याऽल्लोपस्यासिद्धत्वादकारव्यवहितत्वान्न ष्टुत्वमित्यर्थः । ननु यथोद्देशपक्षेअसिद्धं बहिरङ्ग॑मिति षाष्ठीं परिभाषां प्रति ष्टुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावेन परिभाषा अप्रवृत्तेः कथमिहाऽल्लोपस्याऽसिद्धत्वमित्यत आह — कार्यकालपक्षे इति । लक्ष्यानुरोधादिह यथोद्देशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः । अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह-जश्शसोरिति ।अष्टाभ्य औ॑शिति जश्शसोरौशादेशविधौ कृतात्वनिर्देशाज्ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति, न तूपसर्जनत्वेऽपि, 'अष्टाभ्य' इति बहुवचननिर्देशात् । अन्यथा 'हाह' इति पञ्चम्यन्तवत् 'अष्ट औश्' इति निर्दिशेदिति 'ष्णान्ता षट्' इति सूत्रे भाष्ये स्पष्टम् । ततः किमित्यत आह — तेनेति । अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाऽभावेनेत्यर्थः । हलादावेवेति । 'अष्टन आ विभक्तौ' इत्यत्र 'अष्टन' इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाऽभावादिति भावः ।गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः॑ इत्यपि नात्र प्रवर्तते, तथा सतिअष्टाभ्य औ॑रित्यत्र बहुवचनवैयथ्र्यादिति बोध्यम् । हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरूर्तैवानूद्यते । औङादौ तु हलादित्वाऽभावादेव आत्वस्य न प्रसक्तिः । प्रियाष्टा इति । सौ हलि 'अष्टन आ विभक्तौ' इत्यात्वे रुत्वविसर्गाविति भावः । षड्भ्यो लुक् इति 'षट्चतुभ्र्य' इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम् । तथा च अजादौ सर्वत्र राजवदेव रूपाणि, हलादिषु पक्षे सर्वं रूपम् । हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम् । चकाराद्राजवदपि । तदित्थमत्र रूपाणि-प्रियाष्टाः-प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः । प्रियाष्टानम् । प्रियाष्टानौ । प्रियाष्ट्नः । प्रियाष्ट्नः प्रियाष्टाभ्याम् — प्रियाष्टभ्याम्, प्र#इयाष्टाभ्यः — प्रियाष्टभ्यः । प्रियाष्ट्नः प्रियाष्ट्नोः प्रियाष्ट्नाम् । प्रियाष्ट्नि प्रियाष्टनि, प्रियाष्ट्नोः प्रियाष्टासु — प्रियाष्टसु । वस्तुतस्तु 'ष्णान्त षट्' इति सूत्रे भाष्ये 'अष्टन आ विभक्तौ' इत्यत्रहली॑त्यपकर्षमुक्त्वाप्रियाष्टौ प्रियाष्टा इति न सिध्यति, प्रियष्टानौ प्रियष्टान इत्येव प्राप्नोती॑ति शङ्कितेयथालक्षणमप्रयुक्ते॑ इति समाहितम् ।नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेवान्वाख्यानात् इति कैयटः । एवं च एषामनभिधानमेवोचितम् । अत एवअष्टाभ्य औ॑शिति सूत्रे भाष्येअष्टन आत्वमिह वैकल्पिकं यदयमात्वभूतस्य ग्रहणं करोति-अष्टाभ्य इति । अन्यथा अष्टन इत्येव ब्राऊयात् इत्युक्तम् । प्रियाष्टन्शब्दस्य लोके प्रयोगसत्त्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव । तस्मात्प्रियाष्टन्शब्दप्रयोगविचारः सर्वोऽप्यभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम् । इति नान्ताः । अथ धान्ताः ।बुध अवगमने॑कर्तरि क्विप् । बुध् इति धकारान्तः शब्दः । ततः सुबुत्पत्तिः । सौ विशेषमाह — भष्भाव इति । हल्भ्यादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा, पदान्तत्वाद्वा 'एकाचो बशः' इति बकारस्य भष=भकार इत्यर्थः । झश्त्व चर्त्वे इति । 'वाऽवसाने' इति चर्त्वविकल्प इति भावः । भ्यामादौ 'स्वादिषु' इति पदत्वाद्भष्, जश्त्वम् । भुद्भ्याम् । भुद्भिः । भुद्भ्यः । भुत्सु इति धान्ताः । Tattvabodhini ------------- **अष्टाभ्य औश्** - अष्टाभ्य औश् । शित्त्वात्सर्वादेशः । ननुअनेकाल्शित्सर्वस्ये॑ति सूत्रे शिद्ग्रहणं प्रत्याख्यायानेकाल्त्वादेव सर्वादेश इति सुवचम् । न च शस्येत्संज्ञायामन्काल्त्वं नास्तीति वाच्यं, शकरोच्चारणसामर्थ्यादत्र भूतपूर्वगत्याश्रयणात् । न चैवम्अर्वश्रस्त्रसा॑विति त्रादेसस्यापि सर्वादेशता स्यादिति वाच्यम्, ऋकारस्योगित्कार्यार्थत्वेन तत्र सामर्थ्योपक्षयात् । न चैवमशित्यादौ शकारः श्रवणार्थ एव स्यादिति शङ्क्यम्, अनुशतिकादिषुऐहलौकिक॑मिति निर्देशेन शकारस्येत्संज्ञाभ्युपगमाजितिदिक् । कृताकारादिति । ननुहली॑त्यपकृष्यत इत्युक्तं तत्कथं कृताकारतेत्यत आह — अष्टभ्य इतीति ।अष्टाभ्य॑इति कृतात्वस्येदमनुकारणम्, न तु लक्षणवशसंपन्नमात्वं, तथाहि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थम्अष्टभ्य औ॑शित्येव ब्राऊशित्येव ब्राऊयादिति भावः । इदमिति । श्रुतमनुमितं चेत्यर्थः । अष्टनो दीर्घादिति । दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात् । अष्टभिः । दार्घात्किम्ष्टमिः । मध्योदात्तमिदम् ।षटत्रिचतुर्भ्यो हलादिः॑इति बाधित्वाझल्युपोत्तम॑मित्यस्य प्रवृत्तेः ।षट्त्रिचतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्या॑दिति तदर्थः । ननुप्रियाष्ट्ने॑त्यादौ विभक्तेरुदात्तत्वनिवारणायट दीर्घग्रहणमिहावश्यकमिति कथमस्यात्वविकल्पज्ञापकतेति चेदत्राहुः — ॒अष्टनो दीर्घा॑दित्य त्रान्तोदात्तदित्युवर्त्त्यान्तोदात्तदष्टनः परेत्यादिव्याख्यानादष्टभिरित्यादौ विभ्केतदात्तत्वं सिद्द्यति । घृतादित्वेनाऽष्टनोऽन्तोदात्तत्वात् ।प्रियष्ट्न॑इत्यादिबहुव्रीहौ तु पूर्वपदप्रकृतिस्वराभ्युपगमेनाष्टनोऽन्तोदात्तत्वाऽभावाद्विभक्त्युदात्तत्वं न प्रवर्तते इति दीर्धग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमेवेति । अष्टानामिति ।नुटः पश्चादेव संनिपातपरिभाषाया अनित्यत्वादात्वं, नतु ततः प्रा॑गिति तु मनोरमायां स्थितम् । अत्र नव्याः — संनिपातपरिभाषयाऽऽत्वाभावेऽप्यत्र न क्षतिः ,॒नोफ्धाया॑इति दीर्घे नलोपेपञ्चनां॒॑सप्ताना॑मितिवद्रूपसिद्धेः । न च॒अष्टनो दीर्घा॑दिति विभक्त्युदात्तत्वमात्वविधेः प्रयोजनमिति वाच्यं,षट्त्रिचतुर्भ्यो हलादि॑रित्यनेनैव तत्सिद्धेरिति । पूर्वस्मादपीति । न चात्रपूर्वत्रासिद्धीये न स्थानिवत्इति निषेधः शङ्क्यः,तस्य दोषः संयोगादिलोपलत्वणत्वेषु॑, इत्युक्तत्वादिति दिक् । प्राधान्य एवेति । औशत्वं हि लुङ्नुटाविब प्राधान्य एव भवति न तु गौणात्वे,अष्टाभ्य॑इति बहुवचननिर्देशात् । अन्यथा हि कृताऽऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत् -॒अष्टा औ॑शितिअष्ट॑इति वा । एतच्चष्णान्ता ष॑डिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तथा चौश्व्तविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वं प्राधान्य एवोचितमिति भावः ।प्रियष्टा॑ -इति प्रथमैकवचनम् । उक्तार्थं सङ्गृह्णाति — — — प्रियाष्ट्नो राजवदिति । इति नान्ताः । भुदिति । बुध्यतेः क्विप् । इति धान्ताः । Padamanjari ----------- कृताकारोऽष्टन्शब्दो गृह्यत इति । कृताकारस्यानुकरणमष्टाशब्दः, न तु विभक्तौ लक्षणवशादात्वं कृतमित्यर्थः । कृताकारस्य ग्रहणं किमिति । आत्ववतोऽनुकरणं किमित्याश्रितमित्यर्थः । यदाऽऽत्वं भवति तदैव यथा स्यादित्युतरम् । अष्टेति । कथं पुनरत्रात्वाभावः, यावता न हि तद्विधौ विकल्पः सन्निहितः इत्यत आह - एतदेवेति । इह अष्टनः इति वक्तव्यम् - यथा अष्टन आ विभक्तौ इत्यत्र, एवं सिद्धे अष्टाभ्यः इति निर्द्देशात्कृतात्वास्यानुकरथणमिति तावन्निश्चितम् तसेय चैतत्प्रयोजनम् - यदात्वं भवति तदैव यथा स्यादिति । यदि च नित्यननु च अष्टनो दीर्घात् इति दीर्घग्रहणेनायमार्थो ज्ञापितः, तद्वा ज्ञापकमिदं वा, को नवत्र विशेषः इहेयतावद्वक्तव्यम् - षड्भ्यो लुक् इत्यस्यायमपवाद इति । अस्यैवेत्यवधारणं द्रष्टव्यम् । कारणमाह - नाप्राप्ते चेति । स हि समास एव प्राप्नोति, न तु वाक्ये । अष्टपुत्र इति । अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनाद्वाक्यावस्थायामेव प्राप्तोऽप्यौश् न क्रियते, औश एव वा स्थानिवद्भा बाल्लुक् । तदन्तग्रहणमत्रेष्यत इति । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । यद्येवम्, यत्राष्टशब्दार्थ उपसर्जनं तत्रापि प्राप्नोति अत आह - प्रिया,टान इत्यत्रेति । यथा पुनरत्रात्वं न भवति, तथा तद्विधावेव एवक्ष्यते ॥ Nyaas ----- `कृताकारोऽष्टन्शब्दो गृह्रते` इति। यत्रात्वं तत्रौश्त्वं यथा स्यादित्यभिप्रायः। `अष्टौ तिष्ठन्ति` इति। आत्वे कृत औश्त्वम्। `अष्ट तिष्ठन्ति` इति। अत्रात्वाभावादौश्त्वं न भवति। कथं पुनरत्रात्वाभावः, यावता न तत्रात्वविधौ विकल्पस्य प्रतिपादकं किञ्चिदन्यतरस्यांग्रहणादिकमसति? इत्याह - `एतदेव` इत्यादि। कृतात्वनिर्देशस्थैतदेव प्रयोजनम् - यत्रात्वं तत्रैवौशत्वं यथा स्यात्, अन्यत्र मा भूदिति। यदि च नित्यमात्वं स्यात्? तदा कृतात्वस्य निर्देशोऽनर्थकः स्यात्; व्यवर्त्त्याभावात्? `अष्टनः` इत्येवं ब्राऊयात्। तदेवं लघुनिर्देशे सम्भवति सति यत्? कृतात्वस्य निर्देशो गरीयान्? क्रियते, तज्ज्ञापयति - विकल्पेनात्वं भवतीति। यद्यपि चायमर्थः **अष्टनो दीर्घात्** (6.1.172) इत्यत्रापि ज्ञापितः, तथापि विस्मरणशीलानामनुग्रहाय पुनरिह ज्ञाप्यते। अथाष्टपुत्रः, अष्टभार्य इत्यत्र कस्मान्न भवति, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति लुका बाधितत्वादिति चेत्? न; इहापि तर्हि न स्यात् - अष्टौ तिष्टन्ति, अष्टौ पश्येति। `षङ्भ्यो लुक्? (7.1.22) इति लुका बाधितत्वात्। अथौश्भावस्य लुगपवादत्वादत्र लुक्रं बाधित्वा स एव भवति। पूर्वत्रापि तर्हि स एव स्तात्, अत एव हेतोः? इत्याह - `षङ्भ्यो लुगित्यस्यापवादोऽयम्` इति। अत्रैवोपपत्तिमाह - `नाप्राप्ते` इत्यादि। `षङ्भ्यो लुक्` (7.1.22) इत्यसमासे प्राप्नोति - अष्टौ तिष्ठन्तीत्यादौ, समासे च - अष्टपुत्र इत्यादौ। तस्मान्नाप्राप्ते अष्टभार्यः - इत्यत्र सुब्लुकैव भवितव्यमित्यौशत्वं न भवति। `तदन्तग्रहणम्` इत्यादि। किं पुनरिष्यमाणमपि लभ्यते? `अङ्गाधिकारे तस्य तदुत्तरपदस्य च` (पु।प।वृ।85) इति वचनात्। अथ वा - अष्टाभ्य इत्यर्थप्रधाननिर्देशोऽयं बहुवचननिर्द्देशादवसीयते। शब्दप्रधाने हि निर्देशे `अष्टनः` ब्राऊयात्। अर्थाच्च शब्दद्वारेणैव जश्शसोः परत्वं विज्ञायत इति केवलाच्चाष्टनो भवति। तदन्ताच्चातदन्तेऽपि हि शब्दद्वेरेणार्थात्? परौ जश्शसौ भवत इति। यदि तदन्तग्रहणमत्रेष्यते, प्रियाष्टन इत्यत्रापि प्राप्नोति? अत आह - `प्रियाष्टनः` इत्यादि। प्रिया अष्टौ येषामिति बहुव्रीहिः। ननु च विकल्पेनात्वम्। तत्र यदात्वं न भवति तदा मा भूदौश्त्वम्; यदात्वं तदा स्यादेव; व्यवस्थितविभाषयात्रात्वं न भविष्यतीत्यदोषः॥ Praudhamanorama --------------- **कृताकारादिति।** ननु हलीत्यपकृष्यत इत्युक्तम्, तत्कथं कृताकारतेत्यत आह- **अष्टभ्य इति।** कृतात्वस्येदमनुकरणं, न तु लक्षणवशसम्पन्नमात्वम्। तथा हि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थमष्टभ्य इत्येव ब्रूयादिति भावः। **इदमिति।** श्रुतमनुमितं चेत्यर्थः। **अष्टनो दीर्घादिति।** दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात्। अष्टाभिः। दीर्घात् किम्? अष्टभिः। मध्योदात्तमिदम्। 'षट्त्रिचतुर्भ्यो हलादि'रिति बाधित्वा 'झल्युपोत्तम'मित्यस्य प्रवृत्तेः। 'षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यादिति तस्यार्थः। एवं स्थिते ह्रस्वव्यावृत्त्यर्थं क्रियमाणमात्वस्य नित्यत्वे व्यर्थं स्यादित्यर्थः। **पूर्वस्मादपीति।** एवञ्च प्रियाष्ट्ण इति हरदत्तेनोदाहृतं ष्टुत्वं न भवतीति भावः। न च 'पूर्वत्रासिद्धीये न स्थानिवत्' इति निषेधः, तस्य दोष इति सापवादत्वात्। ननु ' रषाभ्याम्' इति प्रतिपदोक्तं णत्वं तत्र ग्रहीष्यामः, न तु ष्टुत्वविधिलभ्यमिति चेत्? मैवम्। भाष्यमते तदयोगात्। तथा हि—'रषाभ्याम्' इति सूत्रे 'अपदान्तस्य मूर्धन्यः' इति सूत्रमनुवर्त्य णग्रहणं; 'पदान्तस्य' इति निषेधसूत्रं च भाष्ये प्रत्याख्यातम्। न च मूर्धन्यशब्देन ष्टुत्वशब्देन वा निर्वर्त्यमाने णकारे वैषम्यं सुवचम्; यथोत्तरं मुनीनां प्रामाण्यमिति स्थानिवद्भाव एवोचितः। शब्दकौस्तुभे 'तस्य दोषः' इत्यत्र णत्वग्रहणं मास्त्वति निष्कर्षः कृतस्तद्रीत्याप्याह— **कार्यकाल पक्ष इति।** न च यथोद्देशमाश्रित्य ष्टुत्वमस्त्विति वाच्यम्। फलभेदे प्रत्याख्यानासम्भवेन कार्यकालपक्षस्यैवेह न्याय्यत्वादिति भावः। अत एव पञ्चमीसमासस्य प्रत्याख्यानोपष्टम्भेनापि ष्टुत्वं प्रत्याशा न कार्या। फलैक्याय कार्यकालपक्षस्यैव न्याय्यत्वेनासिद्धत्वस्य दुर्वारत्वात्। 'निष्ठायां सेटि' इति सेड्ग्रहणाज्ज्ञापकात् पूर्वस्माद्विधौ स्थानिवद्भावस्याऽनित्यतया नेह प्रवृत्तिरिति तु अनित्यत्वपुरस्कारोऽनुचित एवेत्यास्तां तावत्। **जश्शसोरिति।** औश्त्वं हि लुग्नुटाविव गौणत्वे न भवति। अष्टाभ्य इति बहुवचननिर्देशात्। अन्यथा हि कृताऽऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत्- अष्टा औशिति, अष्ट इति वा। एतच्च 'ष्णान्ता षट्' इति सूत्रे भाष्यकैयटयोः स्पष्टम्। तथा च औश्त्वविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वमपि प्राधान्ये एवोचितम्। तथा च जसि प्रियाष्टान इत्येव स्यान्न तु प्रियाष्टा इत्याशङ्क्योक्तं भाष्ये 'यथालक्षणमप्रयुक्ते' इति। न भवत्येवात्रात्वमित्यर्थ इति कैयटः। वामनोऽपि 'अष्टाभ्य औश्' इति सूत्रे तदन्तग्रहणात्परमाष्टावित्युक्त्वा प्रियाष्टान इत्यत्राऽऽत्वस्याभावादौश्त्वं न भवतीत्याह। हरदत्तस्तु—तत्रैव 'प्रियाष्टान इत्यत्र' इति वृत्तिग्रन्थमुपादाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यत इति प्रतिज्ञाय 'अष्टन आ विभक्तौ' इति सूत्रे एकवचननिर्देशादुपसर्जनेऽप्यात्वम्, भविषये आतो लोपः प्रियाष्टः पश्येत्यादि वदन् पूर्वप्रतिज्ञातार्थविपरीतं भाष्यवृत्त्यादिविरुद्धं कथमभिहितवानिति स एव प्रष्टव्यः। **हलादावेवेति।** यद्यपि हलीत्यस्यापकर्षणमकृत्वाऽपि व्याख्यानं भाष्ये प्रतीयते। तथाऽपि तस्याऽपरितोषग्रस्तत्वं प्रपञ्चितमन्यत्रेति भावः। प्रियाष्टा इति प्रथमैकवचनम्। उक्तं संगृह्णाति प्रियाष्ट्न इति॥ नान्ताः ॥ **भुदिति।** बुध्यतेः क्विप्॥ धान्ताः ॥ Prakriyasarvasvam ----------------- कृताकारादष्टनः परयोर्जश्शसोरौश् स्यात् । अष्टौ । अष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । षट्त्वान्नुट् । अष्टानाम् । अष्टासु । आत्वं वेष्टम् । तेन अष्ट, अष्ट, इति पञ्चवत् । उपसर्जनत्वे प्रियपञ्चवत् । तत्रात्वं वेति रामहरौ । प्रियाष्टाः । प्रियाष्टौ । जश्शसोरौश्त्वात् प्रियाष्टौ । उपसर्जनत्वादामि न नुट् । प्रियाष्टाम् । शेषं हाहावत् । भान्तः अतिककुप्, अतिककुभावित्यादि । धान्तः । बुधेः क्विप् । बुध् स् । सुलोपः । भष्भावजश्त्वचर्त्वानि । भुत्, भुद् । बुधौ । बुधः । बुधा । भुद्भ्याम् । भुत्सु । युज् स् । 'युजेरसमासे' (७-१-७१) इति नुम् । सुलोपे संयोगान्तलोपे च 'क्विन्प्रत्ययस्य कुः' (८-२-६२) इति नस्य कुत्वम् । युङ् । अनुस्वारपरसवर्णौ । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युजा । युग्भ्याम् । युक्षु । समासे तु न नुम् । कृष्णयुज् क्विबन्तः । क्विन्प्रत्ययवतो धातोरन्यत्रापि पदत्वे कुत्वोक्तेः कुः । चत्त्वम् । कृष्णयुक् । कृष्णयुजौ । समाध्यर्थ- युजेर्नुंन्नेष्टः । युक् समाधिमान् । युजौ । युजः । विश्वसृज् । स्रगिति सृजेः क्विन्प्रत्ययवत्त्वाद् कुत्वम् । विश्वसृक् । कुत्वं नेति च वृत्तौ । व्रश्चादिषः । जश्त्वचर्त्त्वे । विश्वसृट् विश्वसृजौ । विश्वसृग्भ्याम् । विश्वसृड्भ्याम् । व्रश्चादिषत्वे राट् । राजौ । राड्भ्याम् । द्वौ भ्राजती, तत्र राजत्यनन्तरपठितस्यैव व्रश्चादिषः । अन्यस्य चोः कुः । विभ्राट्, विभ्राक् । विभ्राड्भ्यां, विभ्राग्भ्याम् । 'परौ व्रजेः षः पदान्ते' इत्यादिसूत्रात्, क्विब्दीर्घौ, पदान्तेषु षत्वं च । परिव्राट् । परिव्राजौ । परिव्राड्भ्याम् । ऊर्ज् । Sudha ----- अष्टाभ्य औशिति । अत्र **जश्शसोः शिः**(7.1.20) इत्यतो जश्शसोरित्यनुवर्तते । अष्टभ्य इति वक्तव्ये इति । भ्यसि अष्टभ्यः, अष्टाभ्यः इति रूपद्वये सत्यपि औशविधौ लाघवात् अष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः। अष्टौ । अष्टन् + जस् इत्यत्र **अष्टन आ विभक्तौ**(7.2.84) इत्यनेनाकारान्तादेशे विहिते 'अष्ट आ जस्' इति जाते **अकः सवर्णे दीर्घः**(6.1.101) इति दीर्घत्वे **अष्टाभ्य औश्**(7.1.21) इति जस औशि विहिते शस्येत्सञ्ज्ञायां लोपे च विहिते **वृद्धिरेचि**(6.1.88) इति वृद्धौ 'अष्टौ' इति रूपम् । एवमेव शसि अष्टो । अष्टाभिः । अष्टन् + भिस् अत्र **अष्टन आ विभक्तौ**(7.2.84) इति आत्वे सवर्णदीर्घत्वे च कृते 'अष्टाभिः' इति । अष्टाभ्यः । हलादौ आत्वे सवर्णदीर्घः । अष्टानाम् । आदौ नुटि कृते सति हलादित्वादात्वम् । पञ्चवदिति । अष्ट । अष्ट । अष्टभिः । अष्टभ्यः । अष्टानाम् । अष्टसु ।