71020: जश्शसोः शिः ================== **Padacheda:** जश्-शसोः | S | 6 | 2 | शिः | S | 1 | 1 | Sutrartha --------- **नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।** नपुंसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य 'जस् / शस्' प्रत्यययोः 'शि' इति आदेशः भवति । अनेकाल्त्वात् **अनेकाल्शित्सर्वस्य** (1.1.55) इत्यनेन अयम् सर्वादेशः भवति । ('शि' इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः **लशक्वतद्धिते** (1.3.8) इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे 'शि' इति आदेशः भवति, ततः स्थानिवद्भावात् 'शि' इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य **लशक्वतद्धिते** (1.3.8) इत्यनेन इत्संज्ञा लोपश्च विधीयते) । अस्मिन सूत्रे प्रोक्तः 'शि' अयमादेशः **शि सर्वनामस्थानम्** (1.1.42) इति 'सर्वनामस्थान' संज्ञकः भवति, अतः नपुंसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि - 1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → फल + शि [**जश्शसोः शिः** (7.1.20) इति शि-आदेशः । **शि सर्वनामस्थानम्** (1.1.42) इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ] → फल + इ [शकारस्य इत्संज्ञा, लोपः ] → फल नुम्+ इ [**नपुंसकस्य झलचः** (7.1.72) इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः] → फल न् + इ [इत्संज्ञालोपः] → फलानि [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] 2. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → पयस् + शि [**जश्शसोः शि** (7.1.20) इति शि-आदेशः । **शि सर्वनामस्थानम्** (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । **नपुंसकस्य झलचः** (7.1.72) इति अङ्गस्य नुमागमः] → पयान्स् + इ [**सान्तमहतः संयोगस्य** (6.4.10) इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः] → पयांसि [**नश्चापदान्तस्य झलि** (8.3.24) इति नकारस्य अनुस्वारः] 3. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः] → जगत् + शि [**जश्शसोः शि** (7.1.20) इति शि-आदेशः । **शि सर्वनामस्थानम्** (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । **नपुंसकस्य झलचः** (7.1.72) इति अङ्गस्य नुमागमः] → जगन्ति 4. वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → वारि + शि [**जश्शसोः शि** (7.1.20) इति शि-आदेशः । **शि सर्वनामस्थानम्** (1.1.42) इति सर्वनामस्थानसंज्ञा ।] → वारि + इ [शकारस्य इत्संज्ञा, लोपः । ] → वारि न् + इ [**नपुंसकस्य झलचः** (7.3.72) इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन **इकोऽचि विभक्तौ** (7.1.73) इति नुमागमः] → वारी + नि [**सर्वनामस्थाने चासम्बुद्धौ** (6.4.8) इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः] → वारीणि [**अट्कुप्वाङ्नुम्वयवायेऽपि** (8.4.2) इति णत्वम्] Sutrartha (English) ------------------- The जस्/शस्-प्रत्ययs that follow a नपुंसकलिङ्ग word get 'शि' आदेश. Vasu English Summary -------------------- After a neutral अङ्ग (stem), इ is substituted for the endings (जस् and शस्) of Nominative 1st-Case and Accusative -2nd case. Vasu English Translation ------------------------ After a neutral अङ्ग (stem), इ is substituted for the endings (जस् and शस्) of Nominative 1st-Case and Accusative -2nd case. Thus कुण्डानि तिष्ठन्ति, कुण्डानि पश्य, दधिनी, मधूनि, त्रपूणि, जतूनि ॥ The augment न् is by (7.1.72). The word शस् in the *sutra* being read along with जस् denotes the Accusative Plural ending शस् and not the *Taddhita* affix शस् (5.4.43); as कुण्डशो ददाति, वनशः प्रविशति ॥ Bhashya ------- जश्शसोः शिः जसः शी ॥ किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ॥ का रूपसिद्धिः - ते ये के ॥ आद्गुणेन सिद्धम् ॥ नैवं शक्यम् - ःइह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ॥ एवं तर्हि शीभाव एवोच्येत(2) ॥ नैवं शक्यम् । इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ॥ ( जसः शी ) ॥ Kashika ------- नपुंसकादङ्गादुत्तरयोर्जश्शसोः शि इत्ययमादेशो भवति। कुण्डानि तिष्ठन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति — कुण्डशो ददाति, वनशः प्रविशन्तीति॥ Siddhanta Kaumudi ----------------- क्लीबादनयोः शिः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- क्लीबादनयोः शिः स्यात्॥ Balamanorama ------------ **जस्शसोः शिः** - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः । Tattvabodhini ------------- **जस्शसोः शिः** - जश्शसोः । जसा साहचर्यादिह सुबेव शस् गृह्रते । तेनेह न -कुण्डशो ददाति । Padamanjari ----------- कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥ Nyaas ----- बहुवचनस्य वस्नसौ। उक्तविधयोरिति। षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः। Prakriyasarvasvam ----------------- क्लीबात् परयोर्जश्शसोः शिः स्यात् । ज्ञान इ ॥ Sarala ------ **जश्शसोः शिः** । जसा साहचर्यात्सुबेव शस् गृह्यते, तेन "कुण्डशो ददाति" इत्यत्र तद्धिते शसि न श्यादेशः ॥ Sudha ----- जश्शसोः शिरिति । **स्वमोर्नपुंसकात्**(7.1.23) इत्यतो नपुंसकादित्यनुवर्तते, तदाह - क्लीबादिति । उक्तसञ्ज्ञमिति । सर्वनामस्थानसञ्ज्ञकमित्यर्थः ।