71017: जसः शी

Padacheda: जसः | S | 6 | 1 |

शी | S | | | 1

Sutrartha

सर्वनामशब्दस्य अदन्तात् अङ्गात् परस्य जस्-प्रत्ययस्य शी-आदेशः भवति ।

सर्वनामसंज्ञकः यः अदन्तः शब्दः, तस्मात् परस्य जस्-प्रत्ययस्य ‘शी’ आदेशः भवति । 1) सर्व + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → सर्व + शी [जसः शी (7.1.17) इति जस्-प्रत्ययस्य शी-आदेशः] → सर्व + ई [लशक्वतद्धिते (1.3.8) इति शकारस्य इत्संज्ञा] → सर्वे [आद्गुणः (6.1.87) इति गुण-एकादेशः] 2) तत् + जस् [प्रथमाबहुवचनस्य प्रत्ययः] → त अ अस् [त्यदादीनामः (7.2.102) इत्यनेन तकारस्य अकारादेशः] → त अस् [अतो गुणे (6.1.97) इति पररूप-एकादेशः] → त शी [जसः शी (7.1.17) इति जस्-प्रत्ययस्य शी-आदेशः] → त ई [लशक्वतद्धिते (1.3.8) इति शकारस्य इत्संज्ञा] → ते [आद्गुणः (6.1.87) इति गुण-एकादेशः] प्रश्नः 1 - जस्-प्रत्ययस्य ‘शी’ इति सर्वादेशः कथं भवति ? उत्तरम् - ‘शी’ इति अनेकाल् आदेशः अस्ति अतः अनेकाल्त्वात् अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन जस्-प्रत्ययस्य ‘शी’ इति सर्वादेशः भवति । प्रतिप्रश्नः - परन्तु ‘शी’ इत्यत्र शकारः लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञकः भवति किल? अतः अत्र सर्वादेशः ‘शित्त्वात्’ भवेत्, न हि ‘अनेकाल्त्वात्’ । उत्तरम् - ‘शी’ इत्यत्र लशक्वतद्धिते (1.3.8) इत्यनेन शकारस्य इत्संज्ञा तदा एव भवितुमर्हति यदा ‘शी’ आदेशः ‘प्रत्ययत्वं’ प्राप्नोति (यतः लशक्वतद्धिते (1.3.8) इत्यनेन प्रत्ययस्यैव आदिस्थस्य शकारस्य लोपः भवति, अन्येषाम् शकारस्य न) । परन्तु शी-आदेशः यावत् जस्-इत्यस्य स्थाने न विधीयते, तावत् तस्य ‘प्रत्यय’संज्ञा अपि न भवितुमर्हति । इत्युक्ते, प्रारम्भे ‘शी’ इति यत्र विधानं क्रियते तत्र शकारस्य इत्संज्ञा नैव भवति । अतः अस्यामवस्थायाम् ‘शी’ इति अनेकाल् एव मन्तव्यः । अयमनेकाल्-आदेशः जस्-इत्यस्य स्थाने यदा सर्वादेशरूपेण विधीयते, तदा स्थानिवद्भावेन शी-इत्यत्र ‘प्रत्यय’ इति संज्ञा भवति । तदनन्तरमेव शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा भवितुमर्हति । अतः प्रारम्भे सर्वादेशविधानम् तु अनेकाल्त्वात् एव भवति, शित्त्वात् न । प्रश्नः 2 - अस्मिन् सूत्रे ‘शी’ इति दीर्घः आदेशः किमर्थम् कृतः अस्ति? ह्रस्वादेशं कुर्मश्चेदपि अयमेव रूपम् सिद्ध्येत् किम्? उत्तरम् - अत्र कृतः दीर्घादेशः अग्रिमसूत्रार्थमस्ति । नपुंसकाच्च (7.1.19) अस्मिन् सूत्रे वर्तमानसूत्रात् ‘शी’ इति अनुवर्तते, तत्र ‘वारिणी’, ‘मधुनी’ एतानि रूपाणि कर्तुम् दीर्घादेशः आवश्यकः अस्ति । अतः अत्र दीर्घादेशविधानं क्रियते । प्रश्नः 3 - स्त्रीलिङ्गवाचिनां शब्दानां विषये अस्य सूत्रस्य प्रसक्तिः किमर्थं न स्यात्? उत्तरम् - अत्र ‘अतः’ इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - सर्वा + जस् = सर्वाः ।

Sutrartha (English)

The जस्-प्रत्यय attached to an अदन्त सर्वनाम get an आदेश शी.

Vasu English Summary

After a Pronominal अङ्ग (stem) ending in अ , ई is substituted for the Nominative 1st-Case plural अस्।

Vasu English Translation

After a Pronominal अङ्ग (stem) ending in अ , ई is substituted for the Nominative 1st-Case plural अस्। Thus सर्वे (सर्व + ई), विश्वे, ये, के, ते ॥ Though सर्व + इ would have also given सर्वे, the long ई is taken for the sake of subsequent sutras, in forming त्रपुणी, जतुनी ॥

Bhashya

जसः शी जश्शसोः शिः किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ॥ का रूपसिद्धिः - ते ये के ॥ आद्गुणेन सिद्धम् ॥ नैवं शक्यम् - ःइह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ॥ एवं तर्हि शीभाव एवोच्येत(2) ॥ नैवं शक्यम् । इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ॥ ( जसः शी ) ॥

Kashika

अकारान्तात् सर्वनाम्न उत्तरस्य जसः शीत्ययमादेशो भवति। सर्वे। विश्वे। ये। के। ते। दीर्घोच्चारणमुत्तरार्थम् (७.१.१९)। त्रपुणी। जतुनी॥

Siddhanta Kaumudi

अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात् । अनेकाल्त्वात्सर्वादेशः । नचाऽर्वणस्तृ इत्यादाविव [(परिभाषा - )नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम्] । सर्वादेशत्वात्प्रागित्संज्ञायां एवाऽभावात् । सर्वे ॥

Laghu Siddhanta Kaumudi

अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥

Balamanorama

जसः शी - युष्मदस्मदोः षष्ठी । षष्ठआदिविशिष्योरिति । षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः । षष्ठआदिविशिष्टयोरिति यावत् । षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति,पदस्ये॑त्यधिकारविरोधात् । पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति । भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते ।

Tattvabodhini

जसः शी - जसः शी । दीर्घोच्चारणमुत्तरार्थं-वारिणी मधुनी । अनेकाल्त्वादिति । न तु शित्त्वादिति भावः । इत्संज्ञाया एवाभावादिति ।तृ॑इत्यत्रोपदेशकाल एव ऋकारस्येत्संज्ञा, शीभावस्य तु सर्वादेशत्वानन्तरं स्थानिवत्त्वेन प्रत्ययत्वे लब्धेलशक्वतद्धिते॑ इति प्रत्ययादेःशस्येत्संज्ञेति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः ।

Padamanjari

दीर्घोच्चारणमुतरार्थमिति । खथैह त्वत इत्यधिकाराद् गुणेन भवितव्यमिति, ह्रस्वेऽपि सिद्धम् । न च सर्वे च्छत्रिण इत्यत्र षत्वतुकोरसिद्धः इत्येकादेशस्यासिद्धत्वाद् ह्रस्वाश्रयस्य नित्यस्य तुकः प्रसङ्गः, तत्र हि पदान्तपदाद्योर्य एकादेशस्तस्यैवासिद्धत्वम् ॥

Nyaas

युष्मदस्मदोः षष्ठी। षष्ठआदिविशिष्योरिति। षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः। षष्ठआदिविशिष्टयोरिति यावत्। षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति, `पदस्ये`त्यधिकारविरोधात्। पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम्। न हि षष्ठआदिविभक्तिषु परतः पत्वमस्ति। भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात्। स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते।

Praudhamanorama

अनेकाल्त्वादिति। न तु शित्त्वादिति भावः।

Prakriyasarvasvam

अदन्तात् सर्वनाम्नः परस्य जसः शी स्यात् । गुणः । सर्वे । सर्व ङे ।।

Sarala

अतो भिस ऐस् (७.१.९) इत्यतो “अतः” इति, सर्वनाम्नः स्मै (७.१.१४) इत्यतः “सर्वनाम्नः” इति पदद्वयमनुवर्तते, विशेषणेन च तदन्तविधिरित्यत आह - अदन्तादित्यादि

Sudha

जसः शीति । अतो भिस ऐस्**(7.1.9) इत्यस्मादत इत्यनुवर्तते । **सर्वनाम्नः स्मै**(7.1.14) इत्यतः सर्वनाम्न् इत्यनुवर्तते । तदाह - **अदन्तादित्यादिना । सर्वे इति । अत्र प्रथमाया एकवचनद्विवचने रामशब्दवत् “सर्वः, सर्वौ” इति ज्ञेयम् । सर्वशब्दात् प्रथमाबहुवचनविवक्षायां जसि समागते **सर्वादीनि सर्वनामानि**(1.1.27) इति सर्वशब्दस्य सर्वनामसंज्ञायाम् **जसः शी**(7.1.17) इति जसः स्थाने, **अनेकाल्शित्सर्वस्य**(1.1.55) इत्यनेकाल्त्वात्सर्वादेशे “सर्व शी” इति जाते **लशक्वतद्धिते**(1.3.8) इतीत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे “सर्वे” इति रूपम् । द्वितीयायाम् – रामवत् ‘सर्वम्, सर्वौ, सर्वान्’ इति । तृतीयायाम् - रामवत् ‘सर्वेण सर्वाभ्यां सर्वैः’ इति ।