71018: औङ आपः¶
Padacheda: औङः | S | 6 | 1 |
आपः | S | 5 | 1 |
Sutrartha¶
आबन्तात् अङ्गात् परस्य औ/औट्-प्रत्यययोः शी-आदेशः भवति ।
प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् पदानामर्थम् जानीमः - 1. ‘आबन्तः’ इत्युक्ते ‘आप्’ यस्य अन्ते अस्ति सः । आप्-इति स्वयम् कश्चन प्रत्ययः नास्ति, अपितु आप्-इत्यनेन टाप, डाप्, चाप्’ एतेषाम् त्रयाणाम् प्रत्ययाणाम् ग्रहणं क्रियते । एते त्रयः स्त्री-प्रत्ययाः सन्ति । अतः आबन्तशब्दः इत्युक्ते सः शब्दः यस्य अन्ते टाप् / चाप् / डाप् प्रत्ययः अस्ति सः । सर्वे आकारान्तस्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते । 2. ‘औङ्’ इत्युक्ते औ / औट् । प्रथमाद्विवचनस्य द्वितीयाद्विवचनस्य प्रत्ययस्य च अनेन ग्रहणं भवति । अयमपि स्वयंरूपेण प्रत्ययः नास्ति, केवलं द्वयोः प्रत्ययोः निर्देशार्थमस्य निर्देशः कृतः अस्ति । 3. शी - अयमादेशरूपेण प्रोक्तः अस्ति । अनेकाल्त्वात् अत्र अनेकाल् शित्सर्वस्य (1.1.55) इत्यनेन सर्वादेशः भवति । (‘शी’ इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते (1.3.8) इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः औ/औट्-इत्येतयोः स्थाने प्रारम्भे ‘शी’ इति आदेशः भवति, ततः स्थानिवद्भावात् ‘शी’ इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञा लोपश्च विधीयते ) । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - ‘आकारान्तस्त्रीलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-द्विवचनस्य प्रत्यययोः शी-आदेशः भवति’ इति । यथा - माला + औ / औट् → माला + शी [औङः आपः (7.1.18) इति शी-आदेशः] → माला + ई [लशक्वतद्धिते (1.3.8) इति शकारस्य इत्संज्ञा] → माले [आद्गुणः (6.1.87) इति गुण-एकादेशः]
Sutrartha (English)¶
The औ and औट्-प्रत्ययs following a आबन्त अङ्ग get the आदेश ‘शी’.
Vasu English Summary¶
After a अङ्ग (stem) ending in the feminine affix आ , ई is substituted for the dual endings औ of Nominative 1st-Case and Accusative -2nd case.
Vasu English Translation¶
After a अङ्ग (stem) ending in the feminine affix आ , ई is substituted for the dual endings औ of Nominative 1st-Case and Accusative -2nd case. Karika
औकारोयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं नास्ति कोयं प्रकारः । सामान्यार्थस्तस्य चासंजनेस्मिन्ङित्कार्यं ते श्यां प्रसक्तं स दोषः ॥ ङित्त्वे विद्याद्वर्णनिर्द्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ । वर्णश्चायं तेन ङित्त्वेप्यदोषो निर्देशोयं पूर्वसूत्रेण वा स्यात् ॥
Thus खट्वे तिष्ठतः, खट्वे पश्य, बहुराजे (4.1.13), कारीषगन्ध्ये ॥ The ङ् in औङ् is for the purposes of included औट् also. There is, in fact, no such affix as औङ् taught by Panini any where. The following Karika raises this question and certain doubts in the first verse and then answers them in the second.
Karika:- In this rule about शी, the letter ओ has been enunciated with an indicatory ङ्; but we have no औ with a ङ्, taught any where. What sort of sutra construction is this? If you say, the use of ङ् is to form a coming term for the two affixes औ and औट्, then by so doing, ङित् operations must be performed with regard to this शी of yours, and this is an error. [शी replacing ङित् औङ् will be considered as ङित्, and being ङित्, it will take the augment याट् by (7.3.113): and the form will be खट्वाये and not खट्वे] ॥
Ans:- The ङ् should be considered here as merely indicating the letter औ, and as not an इत्, so that whatever will apply to the letter औ will apply to any form beginning with it, by the maxim यस्मिन् विधि तदादावल् ग्रहणे ॥ Or औङ् may be considered as merely the letter औ and not any particular affix, and ङ् is added only for the sake of facility of pronounciation, like द् in ऋदोरप् औ being merely a letter, will include all affixes having the letter औ as their significant part: and thus the औङ् is not being a ङित् affix the rule (7.3.113), will not apply: and so there is no anomaly. Or the form औङ् may be considered as the affix of the dual, for Nominative and Accusative in the terminology of Ancient Grammarians, and will not produce their effects, because the anubandhas of the Ancients do not produce their effects in this Grammar of Panini: i.e. the rules regarding anubandhas made by Panini refer to the anubandhas made by him and not by older authors.
Bhashya¶
औङ आपः किमर्थो ङकारः ? ॥ सामान्यग्रहणार्थः(5) । औ इत्युच्यमाने प्रथमा द्विवचनस्यैव स्यात् ॥ अथापि औङित्युच्यते एवमपि द्वितीयाद्विर्वचनस्यैव स्यात् ॥ अस्ति प्रयोजनमेतत् ? ॥ किं तर्हीति ॥ ङित्कार्यं तु प्राप्नोति - खट्वे । माले । याडाप इति याट् प्राप्नोति ॥ नैषः दोषः । नैवं विज्ञायते ङकार इदस्य सोऽयं ङित् ङितीति ॥ कथं तर्हि ? ॥ ङ(1) एव इत् ङित् ङितीति ॥ एवं सति वर्णग्रहणमिदं भवति, वर्णग्रहणेषु चैतद्भवति - यस्मिन्विधिस्तदादावल्ग्रहण इति, - न दोषो भवति ॥ अथ वा वर्णग्रहणमिदं भवति न चैतद्वर्णग्रहणेषु भवति अननुबन्धकग्रहणे न सानुबन्धकस्येति ॥ अथ वा पूर्वसूत्रनिर्देशोऽयं, पूर्वसूत्रेषु च येऽनुबन्धा न तैरिहेत्कार्याणि क्रियन्ते ॥ ॥ औकारोऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः ? । सामान्यार्थस्तस्य चासञ्ञ्जने स्मिन्ङित्कार्यं ते श्यां प्रसक्तं स दोषः ॥1 ॥ ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ । वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ॥2 ॥ ॥
Kashika¶
आबन्तादङ्गादुत्तरस्यौङः शीत्ययमादेशो भवति। खट्वे तिष्ठतः। खट्वे पश्य। बहुराजे। कारीषगन्ध्ये। ङकारः सामान्यग्रहणार्थः, औटोऽपि ग्रहणं यथा स्यात्।
औकारोऽयं शीविधौ ङिद् गृहीतो ङिच्चास्माकं नास्ति कोऽयं प्रकारः।
सामान्यार्थस्तस्य चासञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं स दोषः॥ १॥
ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच्च विद्यात् तदादौ।
वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात्॥ २॥
Siddhanta Kaumudi¶
आबन्तादङ्गात्परस्यौङः शी स्यात् । औङित्यौकारविभक्तेः संज्ञा । रमे । रमाः ॥
Laghu Siddhanta Kaumudi¶
आबन्तादङ्गात्परस्यौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥
Balamanorama¶
औङ आपः - अथ रमा औ इति स्थिते — ओङ आपः ।आप इति पञ्चमी । प्रत्ययग्रहणपरिभाषया आबन्तं विवक्षितम् ।अङ्गस्ये॑त्यदिकृतं पञ्चम्या विपरिणम्यते । ‘औङः’ इति षष्ठी ।जसः शी॑त्यतःशीत्यनुवर्तते । तदाह — आबन्तादिति । औङ्शब्दस्याऽप्रसिद्धार्थत्वादाह — औङितीति । संज्ञेति ।प्राचां शास्त्रे स्थिते॑ति शेषः । रमे इति । ‘रमा औ’ इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रत्ययत्वा॒ल्लशक्वतद्धिते॑ इति शस्येत्संज्ञायां लोपे ‘आद्गुणः’ इति एकारः ।यस्येति चे॑ति लोपस्तु न, अभत्वात् । जसि (अकः सवर्णे) इति सवर्णदीर्घं मत्वाह — रमा इति । पूर्वसवर्णदीर्घस्तु न, न भवति,दीर्घाज्जसि चे॑ति निषेधात् । हे रमा स् इति स्थिते ।
Tattvabodhini¶
औङ आपः - अथाऽडजन्ताःस स्त्रीलिङ्गाः । रमेति । रमते इति रमा ।रमु क्रीदायाम्इत्यस्मात्पचाद्यति टाप् । लिङ्गविशिष्टपरभाषया सावदयः । हल्ङ्यादिलोपःष न चात्राबन्तत्वादेव स्वाद्युत्पत्तिरेस्तु, प्रत्ययान्तस्याऽप्रातिपदिकत्वेऽपि ङ्योपोः पृथग्ग्रहणादिति वाच्यं, ङ्याब्ग्रहणस्यान्यार्थतायाः प्रागेवोक्तत्वात्प्रत्याख्यातत्वाच्च तद्भहणस्यष शी स्यादिति ।जसः शी॑त्यतःशी॑त्यनुवर्तत इति भावः ।
Padamanjari¶
औङ्ः इति निर्द्देशं क्रियमाणमनुवादपूर्वमाक्षिपति । औकारोऽयमिति । कोऽयं प्रकारः, कृत्सितोऽयं सूत्रप्रणयनप्रकारः, सिद्धस्य ह्यनुवाद उपपद्यते, यथा - णेóर्यः इति, अयं तु न क्वापि सिद्ध इति परिहरति - कामान्यार्थ इति । औतः इत्युच्यमाने प्रथमाद्विवचनस्यैव स्यान्रिनुबन्धकत्वात्, न सानुबन्धकस्यौटः । यद्यपि टकारः प्रत्याहारार्थत्वात्समुदायानुबन्धः, तथापि प्रत्ययानुबन्धत्वमपि तस्याविरुद्धम् । व्द्यर्था अपि हेतवो भवन्ति, तद्यथा - आम्राश्च सिक्ताः पितरश्च प्रीणिताः इति, औट इत्युच्यमाने प्रथमाद्विवचनस्य न स्यात् । तस्माद् द्वयोरपि सामान्यग्रहणार्थो ङ्कारानुबन्धनिर्द्देशः । नन्वसतोऽवुवादोऽनुपपन्न इत्याक्षेपः, तत्र प्रयोजनाभिधानमसङ्गतम् नैष दोषः, ओदौटोरौणिंति वधिवाक्यमस्मादेवानुवादादनुमास्यते, तस्यैव प्रयोजनाभिधानम् । पुनश्चोदयति - तस्य चेति । तस्य ङ्कारानुबन्धस्यासञ्जनेऽस्मिन्नेवं विज्ञायमाने ङ्त्कायिं याडापः इत्येतते एवंवादिनस्तव, श्यां शीशब्दे परतः, प्रसक्तम् । प्रसजतु नाम तत्राह - स दोष इति । दोष इत्यनेन सामानाधिकरण्यात्स इति पुंल्लिङ्गनिर्द्देशः । परिहरति - ङ्त्वि इति । वर्णमात्रनिर्द्देशः इति ववक्षितम्, वृतभङ्गभयात्वस्थाने माक्षशब्दः प्रयुक्तः । याडापः इत्यत्र ङ्तीइति यदनुवृतं न स बहुव्रीहिः ङ् इद्यस्येति किं तर्हि कर्मधारयः - ङ्श्चासविच्चेति, ततः किम् इत्यत आह वर्णे यत्स्यादिति । यस्मिन्विधिस्तदादावल्ग्रहणे । अयं तावन्ङ्त्विमभ्युपेत्य परिहार उक्तः, ङ्त्विमेव तु नास्तीत्याह - वर्णश्चायमिति । चशब्दो वार्थे पठितः । वर्णो वायमित्येव वा पाठः । औङिति वर्णो वायमुपातो न प्रत्ययः । ङ्कारस्तु मुखसुखार्थः, यथा - ऋदोरप् इत्यत्र दकारः । अङ्गाक्षिप्तस्य प्रत्ययस्य तेन विशेषणादौकारान्तस्य प्रत्ययस्येत्यर्थः । वर्णरुपतया चौकारग्रहणे सति द्वयोरप्यौकारयोर्ग्रहणं भवति प्रत्ययविषयत्वादननुबन्धकपरिभाषायाः । ङ्त्वेऽप्यिदोष इति । ङ्त्वे सिति यो दोषः सोऽपि न भवति, ङ्त्विस्यैवाभावादित्यर्थः, पूर्वेण वा परिहारेणास्यान्वयः । परिहारान्तरमाह - निर्देशोऽयमिति । पूर्वाचार्याणां हि सूत्रे द्वे अप्येते द्विवचने औङिति पठ।लेते, तदाश्रयेणायं निर्देशः, तेन द्वयोरपि ग्रहणं भवति । न च ङित्कार्यप्रसङ्गः, न हि पूर्वाचार्यानुबन्धैरिह कार्याणि क्नियन्ते ॥
Nyaas¶
वृद्धिरेचि (6.1.88) इति वृद्धौ प्राप्तायामयमारम्भः। औङः इति प्रथमाद्वितीयाद्विवचनयोः सामान्येन ग्रहणम्। आपः इति टाड्डाप्चापाम्। खट्वे इति। अजाद्यतष्टाप् (4.1.4) तिष्ठतः, पश्येति यथाक्रममनुप्रयोगयोरुपन्यासः प्रथमान्ततां द्वितीयान्तताञ्च प्रतिपादयितुम्च अन्यथा खट्वे इत्युभयत्र रूपस्य तुल्यत्वात्? प्रथमान्ततादौ विशेषे सन्देहः स्यात्। बहुराजे इति। करीषस्येव गन्धोऽस्येति बहुव्रीहिः, उपमानाच्च (5.4.137) इतीच्। करीषगन्धेरपत्यमित्यण्, तस्य अणिञोः (4.1.78) इत्यादिना ष्यङादेशः। यङश्चाप् (4.1.74) इति चाप्। औकारोऽयम् इत्यादि। शीविधौ=शीविधाने। औकारोऽयं स्थानी ङिद्गृहीतो ङकारानुवन्ध उपात्त इत्यर्थः। ङकार इद्यस्य स ङित्। ङिच्चास्माकं वैयाकरणानां मतेन शास्त्र औकारो नास्ति। ततः कोऽयं प्रकारः, किंशब्द कुत्सायां वर्तते। कुत्सितोऽयं सूत्रप्रणयनप्रकार इत्यर्थः। कुत्सितत्वं त्वसत एवोपादनात्। ङकारासञ्जनप्रयोजनप्रदर्शनद्वारेण कुत्सितत्वं सूत्रप्रणयनस्य निरकर्त्तुमाह - सामान्यार्थः इति। यदि ह्रौकारोऽनुबन्धरहितः स्थानित्वेनोपादीयेत, ततः निरनुबन्धकग्रहणे न सानुबन्धकस्य (व्या।प।53) इति द्वितीयाद्विवचनं न गृह्रेत। अथ त्सय टकारोऽनुबन्ध उपादीयेत, एवमपि प्रथमाद्विवचनं न गृह्रेत। तस्मात्? सामान्येन द्वयोरपि ग्रहणं यथा स्यादित्येवमर्थं ङकार आसज्यते। ननु च द्वितीयाद्विवचने यष्टकारो नासौतस्यानुबन्धः, कस्य तर्हि? समुदायस्य। प्रत्याहरार्था हि येऽनुबन्धास्ते समुदायानुबन्धा एव विज्ञायन्ते, यथा - महिङो ङकारः, सुपश्च पकारः। तस्मान्निरनुबन्धकग्रहणे द्वयोरप्नुबन्धकत्वात्? सामान्येन ग्रहणं भविष्यति, तत्? कि ङकारेण? नैतदस्ति; समुदायानुबन्धकत्वेषऽवयवानुबन्धकत्वमपि ह्रेषां प्रतिज्ञायते। न हि समुदायानुबन्धकत्वे प्रत्ययानुबन्धकत्वं विरुध्यते। हत्संज्ञको ह्रनुबन्ध उच्यते, हलश्चान्त्यस्येत्संज्ञा निधीयते। औटश्च टकारो यथा समुदायं प्रतयन्तस्तथा प्रत्ययं प्रत्यपि। तस्मात्? तस्य हलन्त्यम् (1.3.3) इतीत्संज्ञायां विहितायां यथासौ समुदायं प्रत्यनुबन्धस्तथा प्रत्ययमपि। प्रयोजनाभावात्? प्रत्ययानुबन्धकत्वमनुपपन्नमिति चेत्? न; इहास्ति प्रयोजनम् - द्वितीयाद्विवचनस्य सानुबन्धकत्वं यथा स्यात्। यदि तर्हि प्रत्ययानुबन्धस्तदा सत्यपि ङकारासञ्जने तदनुबन्धकग्रहणे नातदनुबन्धकस्य (व्या।प।54) इति एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य (व्या।प।52) इति च प्रथमाद्विवचनस्यैव ग्रहणं स्यात्, तस्य हि ङकार एवैकोऽनुबन्धः; द्वितीयाद्विवचनसय तु स चान्योऽपि टकारः? नैष दोषः, ङकारोच्चारणसामर्थ्याद्द्वितीयाद्विवचनमपि ग्रहीष्यते। अन्तरेणैव ङकारं प्रथमाद्विवचनस्यैव ग्रहणे सिद्धे ङकार उपदिश्यते सामान्यार्थः। यदि च सत्यपि ङकारे प्रथमाद्विवचनमेव गृह्रते ङकारोऽनर्थकः स्यात्। कथं पुनरस्य ङ्कारस्येत्संज्ञा, यावतोपदेशे योऽन्त्यो हल्? तस्येत्संज्ञा विहिता, न चायमुपदेशेऽन्त्यः? भवतु वा तस्येत्संज्ञा, टकारस्य औटस्तर्हि न स्यात्; कथं ह्रेकस्मिन्नुपदेशे द्वावन्त्यौ स्याताम्? नैष दोषः, औङिति वचनात्। द्वयोरप्यौकारयोरौङित्ययमादेशो विज्ञायते, तस्य चोपदेशोऽस्ति यथा चक्षिङः ख्याञ् (2.4.54) इति ञकार उपदेशेऽन्त्य इति, यथा तस्येत्संज्ञा तथा ङकारस्यापि। टकारस्य तु पूर्वमेव क्रमेणेत्संज्ञा लोपश्च क्रियत इति नास्ति द#ओषः। यश्चासावादेश औकारः स एव शोभाषस्य स्थानित्वेननोपात्त इति वेदितव्यम्। तस्य च इत्यादिना - ङकारासञ्जने यो दोषः प्राप्नोति तं दर्शयति। अनुबन्धभूतसय ङकारस्योपादानमासञ्जनम्। ङिति यत्? कार्यं तत्? ङित्कार्यम् - सप्तमी (2.1.39) इति योगविभागात्समासः। तत्पनः कार्यं याडापः (7.3.113) इति आट्। यदि सामान्यार्थोऽयं ङकार आसज्यते, एवं सति ङकारस्यासञ्जने ङिति यत्कार्यं तत्? ते=तव सूत्रकारस्य मतेन श्यां प्रसक्तं प्राप्तम्, स दोषः। याडापः (7.3.113) इति याडागमे सति खट्वे - इति रूपं न सिध्येत्। अत श्यामिति कथमामाटौ स्याताम्? कथञ्च न स्याताम्? अनदीत्वात्; अनदीत्वं च तस्यास्त्र्याख्यत्वात्? नैतदस्ति; यथैव हि खट्वादयः स्त्रियां वर्तन्ते तथा शीशब्दोऽपि। तथा चाह लिङ्गकारिकाकारः - ईदूदन्तं यच्चैकाच्? शरद्दरद्दृषत्प्रावृषश्च इति। तस्मात्? स्त्र्याख्यत्यादयमपि नदीसंज्ञक एव; श्रुतितामानाधिकरण्यात्। श्रुतौ वर्तमानः शीशब्दो नदोसंज्ञां प्रतिपद्यते। श्रुतिः स्वरूपमेव। ङित्त्वे इत्यादि। याडापः (7.3.113) इत्यत्र धेर्ङिति (7.3.111) इत्यतो ङिद्ग्रहणमनुवर्तते। तत्र ङिदिति नायं बहुव्रीहिः - ङकार इद्? यस्य स ङिदिति, किं तर्हि? तत्पुरुषः - ङकार एव इद्? ङित्। तस्मादौकारो यो ङित्? तस्मिन्नभ्युपेते सति ङितीत्यस्मिन्निर्देशे ङकारस्येत्संज्ञकस्य वर्णमात्रसक्य निर्देशं विद्यादवगच्छेत्? प्राज्ञः। मात्रशब्दस्ततोऽन्यव्यवच्छेदाय। यदि ङितीत्यत्र ङकारस्य वर्णमात्रस्य निर्द्देशो न ङकारानुबन्धस्य प्रत्ययस्य तत्? किमिति श्यां ङित्कार्यं न भवति? इत्याह - वर्णे इत्यादि। वर्णे परभूते यत्? कार्यं विधीयते तत्? यस्मिन्? विधिस्तदादावल्ग्रहणे (व्या।प।127) इति परिभाषया तदादौ वर्णादौ विद्यात्। ततश्च यत्र ङकार आदावित्संज्ञकस्तत्रैव भवितव्यं याटा, न श्याम्। न ह्यत्रादौ ङकारः, क्व तर्हि? अन्ते। एवमयं ङित्त्वमभ्युपेत्य परीहार उक्तः। इदानीं ङित्त्वमनभ्युपेत्य परोहारान्तरमाह - वर्णश्चायम् इत्यादि। वार्थे चशब्दः। वर्णो वायमिति यावत्। औङित्यौवर्णौऽयमुपत्तः प्रत्यविशेषणार्थः, न तु प्रत्ययः। अह्गाधिकारादादन्तात्? परो यः सामर्थ्यप्राप्तः प्रत्ययः स औकारेण विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीति। तेनायमर्थो जायते - औकारान्तेऽस्य प्रत्ययस्येति। औकारान्तत्वं व्यपदेशिवद्भावात्। ङकारश्चायं नानुबन्धः, मुखसुखार्थस्त्वयम्, यथा - ऋदोरप् (3.3.57) इत्यत्र दकारः। वर्णरूपतया च तथौकारस्य ग्रहणे सति द्वयोरप्यौकारयोः शीभावः सिद्धौ भवति। प्रत्ययग्रहणे हि निरनुबन्धक (व्या।प।53) परिभाषोपतिष्ठते, न चेह प्रत्ययग्रहणम्। किं तर्हि? वर्णमात्रस्य। ननु च द्वावप्येतौ प्रत्ययौ, तत्किमिति नोपतिष्टते? सत्यम्; यद्यपि तौ प्रत्यौ, तथधापि नात्र शास्त्रे प्रत्यरूपेणौकार उपात्तः? किं तर्हि? वर्णरूपेणेति, अतस्तस्या नेहोपस्थानम्। ङित्त्वमनभ्युपेत्य परीहारान्तरमाह - निर्द्देशोऽयम् इत्यादि। नेह व्याकरण औकारसय ङकारोऽनुवग्ध उपादीयते। पूर्वाचार्याणां तु सूत्रे द्वे अप्येते द्विवचने ङिती पठएते। तथा हि आबौटावौङ् इति तत्र सूत्रपाठः। अतस्तत्सत्रानुरोधेनायं निर्द्देशः, तस्येह ग्रहणं यथा स्यात्। तस्मान्ङित्त्वाभावान्नास्ति ङित्कार्यस्य प्रसङ्गः। न हि पूर्वाचार्यसूत्रानुरोधेनेहानुबन्धकार्याणि क्रियन्ते। तेन ङित्त्वेऽप्यदोषः इति। किं पुनर्यत्र नास्त्येव ङित्त्वमित्यपि शब्दस्यार्थः। तदेतदुक्तं भवति - ङित्त्वेऽब्युपेते सति ङित्त्वे विद्याद्वर्णनिर्देशमात्रम्। वर्णे यत्स्यात्? तच्च विद्यात्तदादौ इत्येवं ङित्कारयप्रसङ्गनिरासाय यस्मातद्? परीहार उक्तः। यस्माद्वर्णश्चायमित्यनेन, निर्देशोऽयं पूर्वसूत्रेण वा स्यात् इत्यनेन चौकारयोङित्त्वभावः प्रतिपादितः। तेन हेतुना सत्यपि ङित्त्वेऽप्यदोषः। किं पुनर्नास्त्येव यत्र ङित्त्वमिति॥
Praudhamanorama¶
रमेति। लिङ्गविशिष्टपरिभाषया प्रातिपदिकत्वात् स्वादयः। यत्तु आबन्तादिति। यच्च व्याचख्युः- प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपि पृथङ् ङ्यापोर्ग्रहणात् इत्यर्थ इति तन्न, ङ्याब्ग्रहणस्यान्यार्थतायाः प्रागेवोक्तत्वात्।
Prakriyasarvasvam¶
औऔटोरौङिति संज्ञा । आबन्तात् परस्यौङः शी स्यात् । ‘आद्गुणः’ (६-१-८७) रमे । रमाः ॥
Sudha¶
औङ आप इति । आपः इति पञ्चमी । प्रत्ययग्रहणपरिभाषया आवन्तं विवक्षितम् । अङ्गस्य**(6.4.1) इत्यधिकृतं पञ्चम्या विपरिणम्यते । औङः इति षष्ठी । **जसः शी**(7.1.17) इत्यतः शीत्यनुवर्तते, तदाह - **आवन्तादित्यादिना । औङ्शब्दस्याप्रसिद्धार्थत्वादाह - औङितीति । संज्ञेति । प्राचां शास्त्रे स्थितेति शेषः । रमे इति । ‘रमा + औ’ इति स्थिते औकारस्य स्थाने औङ आपः**(7.1.18) इति ‘शी’ आदेशे कृते **लशक्वतद्धिते**(1.3.8) इति शकारस्येत्सञ्ज्ञायां लोपे च ‘रमा + ई’ इति जाते **आद्गुणः**(6.1.87) इति पूर्वपरयोः स्थाने गुणादेशे च विहिते ‘रमे’ इति रूपम् । **रमाः इति । रमाशब्दाज्जसि समागते **चुटू**(1.3.7) इति जकारस्येत्संज्ञायां लोपे च **प्रथमयोः पूर्वसवर्णः**(6.1.102) इति पूर्वसवर्णदीर्घादेशे सस्य रुत्वे विसर्गे च विहिते ‘रमाः’ इति रूपम् ।