71016: पूर्वादिभ्यो नवभ्यो वा¶
Padacheda: पूर्वादिभ्यः | S | 5 | 3 |
नवभ्यः | S | 5 | 3 |
वा | S | 0 | 0 |
Sutrartha¶
पूर्वादिभ्यः नवभ्यः सर्वनामशब्देभ्यः परस्य ङसिँ/ङि-प्रत्यययोः क्रमेण स्मात्/स्मिन् आदेशौ विकल्पेन भवतः ।
(गणसूत्रम् 1), (गणसूत्रम् 2) तथा (गणसूत्रम् 3) एतैः सूत्रैः - पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर - एतेषां नवशब्दानाम् विशिष्टेषु अर्थेषु सर्वनामसंज्ञा क्रियते । एतेषां शब्दानाम् एवम् सर्वनामसंज्ञायाम् सत्याम् ङसिङ्योः स्मात्स्मिनौ (7.1.15) इत्यनेन तेभ्यः परस्य ङसिँ-प्रत्ययस्य ङि-प्रत्ययस्य च क्रमेण स्मात् / स्मिन् एतौ आदेशौ प्राप्तयोः सत्योः वर्तमानसूत्रेण तौ आदेशौ केवलं विकल्पेन भवतः नित्यम् न । यथा - 1. पूर्व-शब्दस्य सर्वनामसंज्ञा क्रियते चेत् - 1) पूर्व + ङसिँ [पञ्चम्येवकचनस्य ङसिँ-प्रत्ययः] → पूर्व + स्मात् / आत् [ङसिङ्योः स्मात्स्मिनौ (7.1.15) इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशे प्राप्ते पूर्वादिभ्यो नवभ्यो वा (7.1.16) इति सः विकल्पेन भवति । विकल्पाभावे टाङसिङसामिनात्स्याः (7.1.12) इति आत्-आदेशः] → पूर्वात् / पूर्वस्मात् 2) पूर्व + ङि [सप्तम्येकवचनस्य प्रत्ययः] → पूर्व + स्मिन् / इ [ङसिङ्योः स्मात्स्मिनौ (7.1.15) इत्यनेन ङसिँ-प्रत्ययस्य स्मात्-आदेशे प्राप्ते पूर्वादिभ्यो नवभ्यो वा (7.1.16) इति सः विकल्पेन भवति । विकल्पाभावे ङि-प्रत्ययस्यैव प्रयोगः भवति ] → पूर्वस्मिन् / पूर्वे तथैव अन्येषां शब्दानां विषये अपि एतानि रूपाणि भवन्ति - 2. पर - परात्, परस्मात् । परे , परस्मिन् । 3. अवर - अवरात् , अवरस्मात् । अवरे , अवरस्मिन् । 4. दक्षिण - दक्षिणात्, दक्षिणस्मात् । दक्षिणे, दक्षिणस्मिन् । 5. उत्तर - उत्तरात्, उत्तरस्मात् । उत्तरे , उत्तरस्मिन् । 6. अपर - अपरात् , अपरस्मात् । अपरे , अपरस्मिन् । 7. अधर - अधरात्, अधरस्मात् । अधरे , अधरस्मिन् । 8. स्व - स्वात् स्वस्मात् । स्वे , स्वस्मिन् । 9. अन्तर - अन्तरात्, अन्तरस्मात् । अन्तरे, अन्तरस्मिन् । ज्ञातव्यम् - 1. पूर्वसूत्रेण नित्यं प्राप्ते वर्तमानसूत्रेण विकल्पः विधीयते, अतः इयम् प्राप्तविभाषा । न वेति विभाषा (1.1.44) इत्यत्र अस्मिन् विषये अधिकम् दृश्यताम् । 2. एतेषाम् नव शब्दानाम् सर्वनामसंज्ञा भवति चेदेव वर्तमानसूत्रस्य प्रसक्तिः अस्ति । यस्मिन् अर्थे एतेषाम् सर्वनामसंज्ञा न भवति तस्मिन् अर्थे ङसिङ्योः स्मात्स्मिनौ (7.1.15) इत्यस्यापि प्रसक्तिः नास्ति, अतः अयम् विकल्पः अपि न भवति । यथा, ‘उत्तर’ नाम कश्चन बालकस्य विवक्षा अस्ति चेत् ‘उत्तरात् / उत्तरे’ इत्येव रूपे करणीये ।
Sutrartha (English)¶
For the nine words - पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर - when they are used as a सर्वनाम, the ङसिँ and ङि- प्रत्ययs after them are optionally converted to स्मात् and स्मिन् respectively.
Vasu English Summary¶
स्मात् and स्मिन् are optionally substituted for the Ablative -5th case and Locative -7th case endings after पूर्व and the eight that follow it – पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (1.1.34).
Vasu English Translation¶
स्मात् and स्मिन् are optionally substituted for the Ablative -5th case and Locative -7th case endings after पूर्व and the eight that follow it – पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (1.1.34). Thus पूर्वस्मात् or पूर्वात्, पूर्वस्मिन् or पूर्वे, परस्मात् or परात्, परस्मिन् or परे, अवरस्मात्, or अवरात्, अवरस्मिन् or अवरे, दक्षिणस्मात् or दक्षिणात्, दक्षिणस्मिन् or दक्षिणे, उत्तरस्मात्, or उत्तरात्, उत्तरस्मिन्, or उत्तरे, अपरस्मात्, or अपरात्, अपरस्मिन्, or अपरे, अधरस्मात्, or अधरात्, अधरस्मिन्, or अधरे, स्वस्मात्, or स्वात्, स्वस्मिन् or स्वे, अन्तरस्मात् or अन्तरात्, अन्तरस्मिन् or अन्तरे ॥ नवभ्य इति किम्, त्यस्मात्, त्यस्मिन् ॥
Why do we say ‘nine only’? Observe त्यस्मात् and त्यस्मिन्, no option is allowed here.
Kashika¶
पूर्वादिभ्यो नवभ्यः सर्वनामभ्य उत्तरयोर्ङसिङ्योः स्मात् स्मिन् इत्येतावादेशौ वा भवतः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। परस्मात्, परात्। परस्मिन्, परे। अवरस्मात्, अवरात्। अवरस्मिन्, अवरे। दक्षिणस्मात्, दक्षिणात्। दक्षिणस्मिन्, दक्षिणे। उत्तरस्मात्, उत्तरात्। उत्तरस्मिन्, उत्तरे। अपरस्मात्, अपरात्। अपरस्मिन्, अपरे। अधरस्मात्, अधरात्। अधरस्मिन्, अधरे। स्वस्मात्, स्वात्। स्वस्मिन्, स्वे। अन्तरस्मात्, अन्तरात्। अन्तरस्मिन्, अन्तरे। नवभ्य इति किम्? त्यस्मात्। त्यस्मिन्॥
Siddhanta Kaumudi¶
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । एवं परादीनामपि । शेषं सर्ववत् । एकशब्दः सङ्ख्यायां नित्यैकवचनान्तः ॥
Laghu Siddhanta Kaumudi¶
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥
Balamanorama¶
पूर्वादिभ्यो नवभ्यो वा - पूर्वादिभ्यो ।ङसिङ्योः स्मात्स्मिना॑वित्यनुवर्तते इत्याह — एभ्य इति । पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टाः पूर्वादय इति विवक्षिताः । त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते । एकशब्दः सङ्ख्यायामिति । अर्थान्तरे तु द्विवचने बहुवचने अपि स्तः ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे सङ्क्यायां च प्रयुज्यते । इति कोशः । स्यादेतत् — ॒त्वत्कपितृकः॒॑मत्कपितृकः॑ इति बहुव्रीहिः । त्वकं पिता यस्य, अहकं पिता यस्येति लोकिकविग्रहवाक्यम् । लौकिकत्वं — प्रयोगार्हत्वम् । युष्मदस्मदोरज्ञाताद्यर्थेअव्ययसर्वनाम्ना॑मित्यकचि — युष्मकद् स् इति स्थिते, ‘ङे प्रथमयोः’ इत्यमि,त्वाहौ सौ॑ इति त्वादेशेऽहादेशे च सति, ‘शेषे लोपः’ इति लोपे, ‘अतो गुणे’ अमि पूर्वे च त्वकम्, अहकमिति रूपम् । युष्मद् स्, पितृ स्, अस्मद्स्, पितृ स् — इत्यलौकिकं विग्रहवाक्यम् । प्रयोगानर्हत्वम् — अलौकिकत्वमिति स्थितिः । तत्र त्वत्कपितृको मत्कपितृक इति बहुव्रीहिदशायां कप्रत्ययो न संभवति, युष्मदस्मदोः सर्वनामत्वेनाऽकच्प्रसङ्गात् ।
Tattvabodhini¶
पूर्वादिभ्यो नवभ्यो वा - एकशब्दस्याष्टावर्था उक्तास्तत्र विशेषमाह — सङ्ख्यायामिति । अन्येषु तु सप्तस्वर्थेषु वचनान्तरमपि स्यादेव,एके॑एकोषा॑मिति यथेति भावः ।
Padamanjari¶
द्वये पूर्वादयः - सूत्रपठिताः, गणपाठपठिताश्च, सर्वनाम्नः इति चेहानुवर्तते तत्रासति नवग्रहणे ङसिङ्योर्येन सर्वनामसंज्ञा स गणपाठ एव गृह्यत इति नवग्रहणम् । इह जसिङसिङीनां शीस्मात्स्मिनः पूर्वादिभ्यो नवभ्यो वा, औङ् आपः, शी नपुंसकाच्चेति सूत्रन्यासः कर्तव्यः, एवं जसि विभाषार्थानि त्रीथणि सूत्राणि न कर्तव्यानि भवन्ति तथा तु न कृतमित्येव ॥
Nyaas¶
पूर्वेण नित्यं प्राप्तयोः स्मात्स्मिनोर्विकल्पार्थ वचनम्। ननु च पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (1.1.34) , स्वमज्ञातिधनाख्यायाम् (1.1.35) , अन्तरं बहिर्योगोपसंव्यानयोः (1.1.36) इति नवैव सूत्रे पूर्वादीनि पठन्ते, तदपार्थकं नवग्रहणम्, नैतदस्ति; न हीह सूत्रपरिपठितानि पूर्वादीनि गृह्यन्ते, किं तर्हि? गणपठितानि। कुत एतत्? जसि हि सूत्रपरिपठितानां तेषां सर्वनामसंज्ञा, न ङसिङ्योः। सर्वनाम्नः (7.1.14) चेतीहानुवर्तते, किं प्रयोजनम्? विद्यमाने स्वे यजते, स्वाद्? बिभेतीत्यत्र मा भूत्। तस्मात्? गणपरिपठितान्येव पूर्वादीनि गृह्यन्ते; तत्रासति नवग्रहणे त्यदादिभ्योऽपि स्यात्। तस्मान्नवग्रहणं कर्तव्यम्॥
Praudhamanorama¶
अत्रेदमवधेयम्। एतत्सूत्रं ‘जसः शी’ इत्यत्रानुवर्त्य वाक्यभेदेन व्याख्येयम् ‘वा च्छन्दसि’ इत्येतत् ‘अमि पूर्वः’ इत्यत्र यथा । एवं चाष्टाध्याय्यां ‘पूर्वपर—‘इत्यादित्रिसूत्री गतार्थेति महल्लाघवम्। एकशब्दस्याष्टावर्था उक्तास्तत्र विशेषमाह— संख्यायामिति। अन्येषु सप्तसु तु वचनान्तरमपि स्यादेव, एके, एकेषामिति यथेति भावः।
Prakriyasarvasvam¶
एभ्यः परयोः ङसिङ्योः स्मात्स्मिनौ वा स्तः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । एवं परादेरपि । शिष्टं सर्ववत् ।
Sarala¶
एभ्यः = पूर्वोक्तेभ्यो नवभ्यः पूर्वपराऽवरदक्षिणोत्तराऽपराऽधरस्वाऽन्तरशदेभ्यः । परादीनां - “शब्दानां रूपाणि बोध्यानी”ति शेषः ॥
Sudha¶
पूर्वादिभ्य इति । ङसिङ्योः स्मात्स्मिनौ**(7.1.15) वित्यनुवर्तते इत्याह - **एभ्य इति । पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टाः पूर्वादय इह विवक्षिताः। पूर्वस्मादिति । पूर्वशब्दात्पञ्चम्येकवचनविवक्षायां ङसौ समागते पूर्वादिभ्यो नवभ्यो वा**(7.1.16) इति वैकल्पिकेन ङसेः स्थाने स्मादित्यादेशे “पूर्वस्मात्” इति, पक्षे पूर्वात् इति । **पूर्वस्मिन् ; पूर्वे इति । पूर्वशब्दात्, सप्तम्येकवचनविवक्षायां ङौ समागते तस्य स्थाने पूर्वादिभ्यो नवभ्यो वा**(7.1.16) इति स्मिन्नादेशे कृते “पूर्वस्मिन्” इति, पक्षे - “पूर्वे” इति । **एवं परादीनामिति । तथाहि - ‘परस्मात्, परात्, परस्मिन्, परे । अवरस्मात्, अवरात्, अवरस्मिन्, अवरे । दक्षिणस्मात्, दक्षिणात्, दक्षिण स्मन्, दक्षिणे । उत्तरस्मात्, उत्तरात्, उत्तरस्मिन्, उत्तरे । अपरस्मात्, अपरात्, अपरस्मिन्, अपरे । अधरस्मात्, अधरात्, अधरस्मिन्, अधरे । स्वस्मात्, स्वात्, स्वस्मिन्, स्वे । अन्तरस्मात्, अन्तरात्, अन्तरस्मिन्, अन्तरे’ इति । शेषं सर्ववदिति । एषां पूर्वादीनां नवानां सर्वादिगणपठित्वात् जसि, ङयि, आमि च सर्वनामकार्यत्वमिति विशेषः ।
Sutra Prayogas¶
पूर्वे (कुमारसम्भवम्): पूर्वादिभ्यो नवभ्यो वा इति स्मिन्नादेशविकल्पः।
परात् (किरातार्जुनीयम्): पूर्वादिभ्यो नवभ्यो वा इति विकल्पान्न स्मादादेशः।