71013: ङेर्यः

Padacheda: ङेः | S | 6 | 1 |

यः | S | 1 | 1 |

Sutrartha

अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशः भवति ।

अकारान्तात् शब्दात् चतुर्थ्येकवचनस्य ङे-प्रत्ययः आगच्छति चेत् तस्य ‘य’ इति आदेशः भवति । अत्र ‘य = य् + अ’ इति अनेकाल् आदेशः अस्तीति स्मर्तव्यम् । अस्मिन् आदेशे कृते स्थानिवदादेशोऽनल्विधौ (1.1.56) इति स्थानिवद्भावेन ‘य’ आदेशस्य अपि सुप्-संज्ञा भवति । तदा अदन्तात् अङ्गात् यकारादि सुप्-प्रत्यये परे सुपि च (7.3.102) इत्यनेन अङ्गस्य दीर्घः अपि विधीयते । यथा - राम + ङे → राम + य [ङेर्यः (7.1.13) इत्यनेन ङे-प्रत्ययस्य यकारादेशः] → रामा + य [स्थानिवद्भावेन य-इत्यस्य सुप्-संज्ञायाम् सत्याम् सुपि च (7.3.102) इत्यनेन अङ्गस्य दीर्घः] → रामाय अत्र ** सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य ** अस्याः परिभाषायाः प्रयोगः न भवति । अस्मिन् विषये <a href=’https://docs.google.com/document/d/e/2PACX-1vR5m-gcjBEyQQ4F51p_jIks7Y3-dWJcPuLA_lsDFzTubk8rhPH7NBEdqzgQaLCWl43G9W9uJcytlLOM/pub’ target=_blank’>अत्र</a> विस्तारेण स्पष्टीकृतमस्ति । ज्ञातव्यम् - ‘अतः’ इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - माला + ङे = मालायै ।

Sutrartha (English)

The ङे प्रत्यय attached to an अदन्त अङ्ग is converted to a यकार.

Vasu English Summary

After a अङ्ग (stem) ending in अ are substituted there is substituted य for the Dative -4th Case ending ए।

Vasu English Translation

After a अङ्ग (stem) ending in अ are substituted there is substituted य for the Dative -4th Case ending ए। Thus वृक्षाय, प्लक्षाय, the अ is lengthended by (7.3.102), in spite of the maxim संनिपातलक्षणो विधि रनिमित्तम् तद्विधातस्य ॥ “That which is taught in a rule the application of which is occasioned by the combination of two things, does not become the cause of the destruction of that combination”. Thus य is substituted here, because the preceding word ends in a short अ, thus this short अ occasioned the existence of य, therefore this य cannot occasion the destruction of अ ॥ But that however it does, for it is on account of this य, that the preceding अ is replaced by आ ॥

The ङेः is the anomalous genitive case of the Dative ending ङे; this affix is exhibited without any vibhakti in (7.1.28). The ङेः should not be taken as the Genitive singular of ङि the affix of the Locative singular.

Bhashya

ङेर्यः किमिदं चतुर्थ्येकवचनस्य ग्रहणमाहोस्वित्सप्तम्येकवचनस्य ग्रहणम् ? ॥ कुतः सन्देहः ? ॥ समानो(1) निर्देशः ॥ चतुर्थ्येकवचनस्य ग्रहणम् ॥ कथं ज्ञायते ? ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ इहापि तर्हि चतुर्थ्येकवचनस्य ग्रहणं स्यात्, - ङेरान्मद्याम्नीभ्यः ॥ एवं तर्हि व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमितीह चतुर्थ्येकवचनस्य ग्रहणं व्याख्यास्यामस्तत्र सप्तम्येकवचनस्येति ॥ ( ङेर्यः) ॥

Kashika

ङेरिति चतुर्थ्येकवचनस्य ग्रहणम्। अकारान्तादङ्गादुत्तरस्या ङे इत्येतस्य य इत्ययमादेशो भवति। वृक्षाय। प्लक्षाय। अत इत्येव — सख्ये। पत्ये। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति॥

Siddhanta Kaumudi

अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । [(परिभाषा - ) संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य] इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे (SK2670) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥

Laghu Siddhanta Kaumudi

अतोऽङ्गात्परस्य ङेर्यादेशः ॥

Balamanorama

ङेर्यः - ङेर्यः ।हे॑रित्येकारान्तात् षष्ठएकवचनम्, नतु ङि इति सप्तम्येकवचनं, व्याख्यानात् । ‘अतो भिस’ इत्यतोऽत इति पञ्चम्यन्तमनुवर्तते । तेन चअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः ।सुपि चे॑ति दीर्घं मत्वा आह — रामायेति । ननु यादेशस्य सुप्त्वाऽभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह — इहेति । नन्वत्र दीर्घो यञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते । सच यञंशेऽलाश्रयः । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः , अनल्विधाविति तन्निषेधादिति चेत्, सत्यम् — इह दीर्घस्य यञादिसुबाश्रयतयाऽऽदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावे सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वा.ञभावात् ।अकृत्सार्वधातुकयोदीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयोर्दीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयो॑रिति पर्युदासबलेन तस्याऽसुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑त्यस्ति परिभाषा । संनिपातः=संश्लेषः, लक्षणं=निमित्तं यस्य सः संनिपातलक्षणः । विधि -कार्यम् । तद्विघातस्य । तं=संनिपातं विहन्तीति तद्विघातः । ‘कर्मण्यण्’ इति कर्मण्युपपदे कर्तर्यण् ।हनस्तोऽचिण्णलो॑रिति तकारः ।हो हन्ते॑रिति कुत्वम् । संनिपातविघातकस्य न निमित्तमित्यर्थः । उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते चाऽदन्तसंबन्धमाश्रित्य प्रवृत्तो यादेशोऽदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्क्य परिहरति — संनिपातलक्षण इत्यादिना । तृतीयाद्विवचनवद्दीर्घं सिद्धवत्कृत्याह-रामाभ्यामिति ।

Tattvabodhini

ङेर्यः - ङेर्यः ।ङे॑रिति चतुर्थ्येकवचनस्य ग्रहणं, न सप्तम्येकवचनस्य, व्याख्यानात् । अतएवङेरा॑मित्यत्रास्याऽग्रहणम्,समानाधिकरणे॒॑स्त्रिया॑मित्यादिनिर्देशाच्च । स्थानिवद्भवेनेति । आदेशालाश्रयविधौ स्थानिवत्त्वनिषेधाऽभावादिति भावः । सुपि चेति दीर्घ इति । न च परत्वात्अकृत्सार्वधातुकयोः — ॑ इति दीर्घोऽस्त्विति शङ्क्यम्, तत्रअयङ्यि क्ङिति॑ इत्यतःक्ङिती॑त्यनुवर्तनात् । अन्यथाउरुये॑त्यत्रापि दीर्घः स्यात् । उरुशब्दात्परस्यटा॑ इत्यस्यसुपां सुलुक् इति यादेशः । एतच्च काशिकायां स्पष्टम् । यद्यपि ङेर्यादेशस्य ङित्त्वमस्तिन ल्यपि॑ इति ज्ञापकेन अनुबन्धकार्येष्वनल्विधावपि स्थानिवत्त्वाभ्युपगमात्, तथापि शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येषु स्थानिवत्त्वानभ्युपगमाद्यादेशे ङित्त्वं नेत्यभ्युपेत्येदं । विरोधाऽभावात्परत्वमत्राकिंचित्करभित्यनादरेण वाअकृत्सार्वधातुकयोः-॑ इति दीर्घेण ज्यायानिति रूपसिद्धेरिति भाष्ये स्थितं, तदिदानीं विरुध्येत,क्ङिती॑त्यनुवृत्तौ तुज्याया॑नित्यत्रअकृत्सार्वे॑ति दीर्घाऽप्रवृत्तेः । तथाचअकृत्-॑ इति सूत्रे क्ङितीति नानुवर्तनीयम्, उरुया धृष्णुयेत्यत्र दीर्घाभावश्छान्दस इत्येवाभ्युपेयमिति चेत्, अत्राहुः,ज्ञाजनोर्जा॑ इत्याकारग्रहणमुक्तपरिभाषालिङ्गम् । अन्यथा जमेव विदध्यात् ।अतो दीर्घो यञि॑ इतिजायते॑जानातीत्यादौ दीर्घसिद्धेरित्यपि भाष्ये स्थितं, तच्च ज्ञापकम्अकृत्-॑ इत्यत्र क्ङितीत्यनुवृत्तावपि सङ्गच्छते । एवं च सतिज्यादात् इत्याकारग्रहणं लिङ्गमिति तु भाष्ये प्रौढवादमात्रमस्तु ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑ति । संनिपातेति । संनिपातः संश्लेषः लक्षणं निमित्तं यस्य स संनिपातलक्षणः । तं संनिपातं विहन्तीति तद्विघातः । कर्मण्यण्, कुत्वतत्वे । उपजीवकविधिः स्वोपजीव्यविघातकविधेर्निमित्तं न भवतीत्यर्थः ।

Padamanjari

णेó इति चतुर्थ्यकवचनस्य ग्रहणमिति । तस्य हि णेó इति रुपं प्रतिपदोक्तं सप्तम्येकवचनस्य घेर्ङितीति गुणे लाक्षणिकम् । यद्यपि णेóः इति विभक्त्यन्तमुपातम्, तच्चोभयोरपि लाक्षणिकम्, थथापि प्रत्ययात्पूर्वस्य भागस्य लाक्षणिकत्वप्रतिपदोक्तत्वापेक्षेया परिभाषाप्रवृत्तिः । यद्येवम्, णेóराम्नद्याम्नीभ्यः इत्यत्राप्येवमेव प्रसङ्गः तस्माव्द्याख्यानमेवात्र शरणम् । लिङ्गं च - तस्मै प्रभवति, तदस्मै दीयते, तस्मै हितम्, तदस्यé प्रहरणमिति क्रीडायां णः इत्यादि । वृक्षायेति । सुपि चेति दीर्घः । कथं पुनरकारसन्निपातकृतो यशबद्स्तद्विधातनिमितं भवति अत आह - सन्निपातलक्षण इति । अनित्यत्वं तस्याः कष्टाय क्रमणे इति निर्द्देशादवसीयते ॥

Nyaas

ङेः इति। चतुथ्र्यकवचनस्येदं ग्रहणम्। कस्मान्न भवति सप्तम्येकवचनस्य ग्रहणम्? यदि हि तस्य ग्रहणं स्यात्, तदा - अत्यन्तसंयोगे, भावे अपवर्गे, कारकमध्ये - इत्येवमादि न सिद्ध्यति। तस्मादेतेभ्यो निर्देशेभ्यो नेदमिह सप्तम्येकवचनस्य ग्रहणम्। अतः परिशेष्याच्चतुर्थ्येकवचनस्य ग्रहणं न निश्चीयत इति। तस्मै हितम् (5.1.5) इति निर्देशाच्च लिङ्गादत्तरत्राप्येतदेवानुवर्तते। वृक्षाय इति। सुपि च (7.3.102) इति दीर्घः।ननु सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य (व्या।प।12) इति परिभाषया उपस्थाने सति सन्निपातलक्षणो यविधिरकारविधातं प्रति निमित्तं नोपपद्यते, कुतो दीर्घत्वम्? इत्याह - सन्निपातलक्षणः इत्यादि। अनित्यत्वं त्वस्याः प्रागेव प्रतिपादितम्। अथ ङकारोच्चारणं किमर्थम्? एकारमात्रस्य ग्रहणं मा भूदिति। यदि स्यात्, पचे, यजे - इत्येवमादावपि स्यात्। ननु च अतो गुणे (6.1.97) इति पररूपत्वे कृते निमित्ताभावान्न भविष्यति? नैतदस्ति; नाप्राप्ते ह्रतो गुणे पररूपत्वेऽयमादेश उच्यते; स यथा वृक्षाय इत्यत्र अतो गुणे (6.1.97) पररूपत्वं बाधते तथा पचे, यजे - इत्यत्रापि बाधेत प्रतिपदोक्तस्येकारस्य ग्रहणादिह न भविष्यतीति चेत्? न; अस्याप्येकारस्य प्रतिपदोक्तत्वात्। टित आत्मनेपदानां टेरे (3.4.79) इति निर्द्देशादेकारः प्रतिपदोक्तो भवति। तस्माद्विशेषणार्थो ङकार कर्तव्यः॥

Prakriyasarvasvam

अदन्तात् परस्य ङेशब्दस्य यः स्यात् ‘सुपि च’ (७-३-१०२) इति दीर्घः । कृष्णाय कृष्णाभ्याम् । कृष्णेभ्यः ॥

Sarala

ङे - षष्ठ्यन्तं, यः - प्रथमान्तम् ॥

Sudha

ङेर्य इति । ङेरियेत्कारान्तात् पष्ठ्येकवचनम्, न तु ङि इति सप्तम्येकवचनात् ; व्याख्यानात् । अतो भिस ऐस्**(7.1.9) इत्यतः अत इति पञ्चम्यन्तमनुवर्तते । तेन च **अङ्गस्य**(6.4.1) इत्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते तदाह - **अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । रामायेति । रामशब्दात् चतुर्थ्येकवचनविवक्षायां ङे विहिते ‘राम ङे’ इति जाते तत्र ङेर्यः**(7.1.13) इत्यनेन ङेइत्यस्य स्थाने यकारादेशे कृते “राम य” इति । अत्र यकारे **स्थानिवदादेशोऽनल्विधौ**(1.1.56) इति स्थानिवद्भावेन सुप्त्वमानीय **सुपि च**(7.3.102) इत्यनेनादन्ताङ्गस्य दीर्घे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यनेन अन्त्यस्यालो जाते “रामाय” इति रूपं सिद्धम् । **रामाभ्यामिति । रामशब्दात् चतुर्थ्याः द्विवचनविवक्षायां भ्यामि “राम भ्याम्” अत्र **सुपि च**(7.3.102) इति दीर्घे तृतीयाद्विवचनवत् “रामाभ्याम्” इति रूपम् ।