71012: टाङसिङसामिनात्स्याः

Padacheda: टा-ङसि-ङसाम् | S | 6 | 3 |

इन-आत्-स्याः | S | 1 | 3 |

Sutrartha

अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्ययानाम् क्रमेण इन, आत्, स्य - एते आदेशाः भवन्ति ।

अनेन सूत्रेण अदन्तात् अङ्गात् परस्य त्रयाणाम् प्रत्ययानाम् त्रयः आदेशाः प्रोक्ताः सन्ति । यथासङ्ख्यमनुदेशः समानाम् (1.3.10) इत्यनेन एते आदेशाः क्रमेण भवन्ति । इत्युक्ते - टा-प्रत्ययस्य इन-आदेशः, ङसिँ-प्रत्ययस्य आत्-आदेशः, ङस्-प्रत्ययस्य स्य-आदेशः । एते सर्वे आदेशाः अनेकाल् सन्ति, अतः अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन एते सर्वादेशरूपेण विधीयन्ते । यथा - 1. राम + टा → राम + इन [टाङसिङसामिनात्स्याः (7.1.12) इति टा-प्रत्ययस्य इन-आदेशः] → रामेन [आद्गुणः (6.1.87) इति गुण-एकादेशः] → रामेण [अट्कुप्वाङ्नुम्व्यवायेऽपि (8.4.2) इति णत्वम्] 2. राम + ङसिँ → राम + आत् [टाङसिङसामिनात्स्याः (7.1.12) इति ङसिँ-प्रत्ययस्य आत्-आदेशः] → रामात् [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] → रामाद् [झलां जशोऽन्ते (8.2.39) इति जश्त्वम्] → रामात्, रामाद् [वाऽवसाने (8.4.56) इति वैकल्पिकं चर्त्वम्] 3. राम + ङस् → राम + स्य [टाङसिङसामिनात्स्याः (7.1.12) इति ङस्-प्रत्ययस्य स्य-आदेशः] → रामस्य ज्ञातव्यम् - अस्मिन् सूत्रे ‘अतः’ इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + टा → मालया ।

Sutrartha (English)

The टा, ङसिँ, and ङस् प्रत्ययाः attached to an अदन्त अङ्ग are converted respectively to इन, आत् and स्य.

Vasu English Summary

After a अङ्ग (stem) ending in अ are substituted इन् for the Instrumental -3rd case ending; आ (आत्) for the Ablative -5th case ending अस् and स्य for the Genitive 6th-Case ending अस्।

Vasu English Translation

After a अङ्ग (stem) ending in अ are substituted इन् for the Instrumental -3rd case ending; आ (आत्) for the Ablative -5th case ending अस् and स्य for the Genitive 6th-Case ending अस्। Thus वृक्षेण and प्लक्षेण; वृक्षात् and प्लक्षात्; and वृक्षस्य and प्लक्षस्य ॥ After stems not ending in अ we have the original ending, as पत्या, सख्या ॥ Some would have the forms अतिजरसिन and अतिजरसात् from अतिजर ॥ This is on the analogy of अतिजरसैः [See Sutra 9 ante]. Thus अति + जरा = अतिजर (1.2.48). Then by (7.2.101), जरस् is substituted for जर before the vowel-affixes. These forms are not supported however by Patanjali. According to him the forms will be either अतिजरेण, अतिजरात्, or अतिजरसा and अतिजरसः but never अतिजरसिन and अतिजरसात् ॥

Bhashya

टाङसिङसामिनात्स्याः किमर्थमिनादेश उच्यते न नादेश एवोच्येत ? ॥ का रूपसिद्धिः - वृक्षेण प्लक्षेण ? ॥ एत्वे योगविभागः करिष्यते ॥ कथम् ? ॥ इदमस्ति बहुवचने झल्येत् । ओसि च । ततः - आङि च । आङि च परतोऽत एत्वं भवति - वृक्षेण प्लक्षेण । तत आपः संबुद्धौ च । आपः (सम्बुद्धौ(3) च - ) आङि च ओसि चेति ॥ नैवं शक्यम् - ःइह हि अनेनेति इद्रूपलोपः प्रसज्येत ॥ झलि लोपः करिष्यते ॥ न शक्यो झलि लोपः कर्तुम् - ःइह हि दोषः स्यात् - अया विष्ठेति ॥ एवं तर्हि अन् लोपापवादो विज्ञास्यते ॥ कथम् ? एवं वक्ष्यामि- अन् ने च आपि चेति । तन्नकारग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् । क्रियते न्यास एव-लुप्तनिर्दिष्टो नकारः ॥ यद्येवं नोपधाया इति दीर्घत्वं प्राप्नोति ॥ सौत्रौ निर्देशः ॥ अथ वा नपुंसकनिर्देशः करिष्यते ॥ अथ किमर्थमादत्युच्यते, न अदेवोच्येत ॥ का रूपसिद्धिः-वृक्षात्प्लक्षात् ? ॥ सवर्णदीर्घत्वेन सिद्धम् ॥ न सिध्यति । अतो गुणे पररूपमिति पररूपत्वं प्राप्नोति ॥ अकारोच्चारणसार्मथ्यान्न भविष्यति ॥ यदि प्राप्नुवन्विधिरुच्चारणसार्मथ्याद्वाध्यते सवर्णदीर्घत्वमपि न प्राप्नोति ॥ नैषः दोषः(1) । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते यस्य तु विधेर्निमित्तमेव नासौ बाध्यते । पररूपं प्रत्यकारोच्चारणमनर्थकं, सवर्णदीर्घस्य पुनर्निमित्तमेव ॥

Kashika

अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् इन आत् स्य इत्येत आदेशा भवन्ति यथासंख्यम्। टा इत्येतस्येनादेशो भवति — वृक्षेण। प्लक्षेण। ङसीत्येतस्य आत् — वृक्षात्। प्लक्षात्। ङसित्येतस्य स्यादेशो भवति — वृक्षस्य। प्लक्षस्य। अत इति किम्? सख्या। पत्या। अतिजरसिन अतिजरसादिति केचिदिच्छन्ति। यथा तु भाष्ये (३.३०९) तथा नैतदिष्यत इति लक्ष्यते॥

Siddhanta Kaumudi

अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशाः स्युः । णत्वम् । रामेण ॥

Laghu Siddhanta Kaumudi

अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥

Balamanorama

टाङसिङसामिनात्स्याः - टाङसिङसाम् ।अङ्गस्ये॑त्यधिकृतं पञ्चम्या, विपरिणम्यते । ‘अतो भिस’ इत्यस्मात् ‘अत’ इति पञ्चम्यन्तमनुवृत्तमङ्गस्य विशेषणम् । तदन्तविधिः । तदाह — अकारान्तादङ्गादिति ।परेषा॑मिति शेषः ।क्रमा॑दिति यथासङ्ख्यसूत्रलब्धम् । टादीनामिति । टा-ङसि-ङसामित्यर्थः । इनादय इति । ‘इन-आत्-स्य’ एते इत्यर्थः । राम-इनेति स्थिते आद्गुणः । णत्वमिति ।अटकुप्वा॑ङिति नकारस्य णकार इत्यर्थः । राम-भ्याम् इति स्थितेन विभक्ता॑विति मस्य नेत्त्वम् ।

Tattvabodhini

टाङसिङसामिनात्स्याः - टाङसि ।अतो भिस ऐ॑सित्यस्मादनुवृत्तेनअत॑ इत्यनेन सामानाधिकरण्येन विशेषणात्अङ्गस्ये॑त्याधिकृतं षष्टन्तमपि पञ्चम्या विपरिणम्यते, विशेषणेन तदन्तविधिस्तदाह — अकारान्तादङ्गादिति ।

Padamanjari

अतिजरसिनेत्यादि । समासे ह्रस्वत्वे कृते इनादेशः, ततः सन्निपात्परिभाषाया अनित्यत्वाज्जरसादेशः । एएवमतिजरसादित्यत्राप्यादादेशे कृते जरसादेशः । ननु च टाङ्स्योरेवाजादित्वात्प्रागिनादादेशाभ्यां जरसादेशः एप्राप्नोति, स हि नित्यः परश्च, तत्र कृतेऽनदन्तत्वादेवेनादादेशयोरभावे अतिजरसा, अतिजरस इति भवितव्यम् । नैष दोषः, एवं हि इनादेशस्य, अदादेशस्य च विधानमनर्थकम्, नादेशोऽदेशश्च विधेयः स्यात्, का रुपसिद्धः एइह तावद् वृक्षेणेति एत्वे योगविभागः करिष्यते - बहुवचने झल्येत्, ओसि च, ततः आङ् चि - आङ् चि परतोऽत एत्वम्- वृक्षेण । नैवं शक्यम्, थैह ह्यनेनेति हलि लोपः इति इद्रपलोपे सति एनेति प्राप्नोति हलि लोपः इत्यपनीय झलि लोपः इति सूत्रे करिष्येत, तत्र नकारस्याझल्त्वाल्लोपाभावः । न स शक्यो झलि लोपो वक्तुम्, इह हि न स्यात्, - अयाविष्ट, अजनयत्, अयेति इदमश्चतुर्थ्यकवचनस्य सुपां सुलुक इत्यादिना यादेशः, सुपि चेति दीर्घाभावः छान्दसः, तत्रास्याझलादित्वादिद्रूपलोपो न स्यात् । तस्माद्धलि लोप एव कर्तव्यः, ततश्चानेनेति न सिध्यति एवं तर्हि अनाप्यकः इति द्विनकारकोऽयं निर्द्देशः, तत्रादेशसम्बन्धी पदान्तत्वाल्लुप्तः नश्च आप् च नाप्, तत्र परत इदोऽनादेश इति सूत्रार्थाश्रयणादिद्रूपलोपापवोदो नशब्दे परतो नादेश एव भविष्यति । यद्यवम्, आदेशेन लोपस्यासिद्धत्वाद्राजेत्यादाविव सूत्रे दीर्घप्रसङ्गः - अनाप्यकः इति नैष दोषः, सुपां सुलुक् इति लुकि कृते न लुमताङ्गस्य इति प्रतिषेधः । वृक्षादित्यत्रापि सवर्णत्वेनैव सिद्धम्, अकारोच्चारणसामर्थ्यादतो गुणे पररुपं न भविष्यति । तदेवमिनादेशस्यादादेशस्य च विधानसमर्थ्यात्पूर्वमिनादादेशौ, पश्चाज्जरसादेश इत्यषामभिप्रायः । यथा त्वित्यादि । भाष्ये हि पूर्वोक्तप्रक्रियाश्रयणेन नाधेशोऽदादेशश्च व्यवस्थापितः । यदि चैतद्रूपद्वयमिष्ट्ंअ स्यात्, तयोरादेशयोः प्रत्याख्यानमनुपपन्नं स्यात् । तत्र सन्निपातपरिभाषया जरसादेशाभावादतिजरेण, अतिजरादिति भाष्यकारस्याभिप्रेतिमिति केचित् । प्रागेव जरसादेशे - अतिजरसा, अतिजरस इत्यभिप्रेतमित्यन्ये ॥

Nyaas

अतिजरसिना इत्यादि। पूर्ववत्? समासे कृते ह्रस्वत्वे च जरसादेशः। केचित् इति। सूत्रकारमतानुसारिणः। यदि ह्रतिजरसिनेत्येतत्? सूत्रकारस्य साधुत्वेनाभिमतं न स्यात्, टेत्येतस्य नादेशमेव कुर्यात्। तत्राप्येत्वे कृते वृक्षेणेत्यादि सिध्यति। कथमेतत्वमिति चेत्? एवमेत्त्वविधौ योगविभागः करिष्यते। इदमस्ति - बहुवचने झल्येत् (7.3.103) , ततः ओसि च (7.3.104) , ततः आङि चापः (7.3.105) इति; तत्राङीति योगविभागः कर्तव्यः - आङि परतोऽत एत्वं भवति - वृक्षेण, प्लक्षेण; ततः आपः, सम्बुद्धौ च (7.3.106) इति। ननु च नादेशे सतीदम इद्रूपस्य हलि लोपः प्रसज्येत, ततश्चानेनेति न सिध्यति? नैष दोषः; हलि लोपः (7.2.113) इत्यत्र जराया जरसन्यतरस्याम् (7.2.101) इत्यतोऽन्यतरस्यांग्रहणमनुवर्तते, सा च व्यवस्तितविभाषा विज्ञायते तेन नादेशे कृते सतीद्रूपस्य लोपो न भवति। तदेवं नादेशेनैव वृक्षेणेत्यादि। सिध्यति। ततः स एव कर्तव्यः, नेनादेशः; कृतश्चासौ, अतोऽवगम्यते - नूनं सूतद्रकारस्याति जरसिनेत्येतत्साधुत्वेनाभिमतम्, यस्य सिद्ध्यर्थमिनादेशं कृतवानितिति। तथा यद्यतिजरसादित्यस्य साधुत्वमभीष्टं न स्यात्? ङसेरद्भावं विदध्यात्। तत्रापि अकः सवर्णे दीर्घत्वेन (6.1.97) वृक्षादित्येवमादि सिद्ध्यत्येव। ननु चाकः सवर्णावपवादः अतो गुणे (6.1.97) पररूपत्वं प्राप्नोति, तत्? कथं सिद्ध्यति? नैतदस्ति; अकारोच्चारणसामर्थ्यान्न भविष्यति पररूपम्, अन्यथा तकारमेव विदध्यात्। अत्र हि आदेः परस्य (1.1.54) इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। अत्र हि आदेः परस्य (1.1.54) इत्यकारस्य तकारे विहिते संयोगान्तलोपे वृक्षादित्येवमादि सिध्यत्येव। तस्मादकारोच्चरणसामर्थ्यात्? पररूपत्वं न भविष्यतीत्यद्भावो विधेयः, किमाद्भावेनेति? विहितश्चाद्भावः, ततोऽवसीयते - नूनमतिजरसादित्यस्य साधुत्वं सूत्रकारस्याभिमतं यत्सिद्ध्यर्थमाद्भावं विहितवानिति। एवं सूत्रकारस्य मतमनुसरन्तः केचिदतिजरसिना, अतिजरसादित्यस्य साधुत्वमिच्छन्ति। यथा तु इत्यादि। भाष्ये हि - अथ किमर्थमिनादेश उच्यते, न नादेश एवोच्येत इत्येवं ग्रन्थसन्दर्भेणेनादेशं प्रत्यख्याय नादेश एव व्यवस्थापितः। अथ किमर्थमादिप्युच्यते, न अदेवोच्येत इत्येवमादिना ग्रन्थसन्दर्भेण आदादेशं प्रत्याख्याय अदादेश एव व्यवस्थापितः। यदि चातिजरसिना, अतिजरसादित्यस्य साधुत्वमिष्टं स्यादिनादेशमाद्भावं च भाष्यकृन्न प्रत्याचक्षीत। न हि प्रयोजने सति प्रत्याख्यानं युक्तम्, कृतञ्च तयोः प्रत्याख्यानम्, ततोऽवगम्यते - नैतदिव्यते इति॥

Prakriyasarvasvam

अदन्तादङ्गात् परेषामेषामिन आत् स्य इति स्युः । कृष्ण इन । ‘आद् गुणः’ (६–१–८७) । कृष्णेन । कृष्ण भ्याम् ॥

Sarala

अतो भिस ऐस् (७.१.९) इत्यतः “अतः” इत्यनुवर्तते, अङ्गस्य (६.४.१) इत्यधिक्रियते । विशेषणेन च तदन्तविधिरित्याह - अदन्तादिति

Sudha

टाङसीति । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणतम् । अतो भिस ऐस्**(7.1.9) इत्यतोऽत इति पञ्चम्यन्तमनुवृत्तम् अङ्गस्य विशेषणम्, तदन्तविधिः । **अदन्तादिति । अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् - इन आत् स्य इत्येते आदेशा भवन्ति यथासंख्यमिति सूत्रार्थः । रामेणेति । रामशब्दात् तृतीयैकवचनविवक्षायाम् टासमागते “राम टा” अत्र **टाङसिङसामिनात्स्याः**(7.1.12) इति टास्थाने इनादेशे कृते **आद्गुणः**(6.1.87) इति गुणे च विहिते <<अट्कुप्वाङ्नुम्व्यवायेऽपिः इति नस्य णत्वे “रामेण” इति ।