71013: ङेर्यः ============= **Padacheda:** ङेः | S | 6 | 1 | यः | S | 1 | 1 | Sutrartha --------- **अदन्तात् अङ्गात् परस्य ङे-प्रत्ययस्य यकारादेशः भवति ।** अकारान्तात् शब्दात् चतुर्थ्येकवचनस्य ङे-प्रत्ययः आगच्छति चेत् तस्य 'य' इति आदेशः भवति । अत्र 'य = य् + अ' इति अनेकाल् आदेशः अस्तीति स्मर्तव्यम् । अस्मिन् आदेशे कृते **स्थानिवदादेशोऽनल्विधौ** (1.1.56) इति स्थानिवद्भावेन 'य' आदेशस्य अपि सुप्-संज्ञा भवति । तदा अदन्तात् अङ्गात् यकारादि सुप्-प्रत्यये परे **सुपि च** (7.3.102) इत्यनेन अङ्गस्य दीर्घः अपि विधीयते । यथा - राम + ङे → राम + य [**ङेर्यः** (7.1.13) इत्यनेन ङे-प्रत्ययस्य यकारादेशः] → रामा + य [स्थानिवद्भावेन य-इत्यस्य सुप्-संज्ञायाम् सत्याम् **सुपि च** (7.3.102) इत्यनेन अङ्गस्य दीर्घः] → रामाय अत्र ** सन्निपातलक्षणविधिः अनिमित्तकः तद्विघातस्य ** अस्याः परिभाषायाः प्रयोगः न भवति । अस्मिन् विषये अत्र विस्तारेण स्पष्टीकृतमस्ति । ज्ञातव्यम् - 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्त-स्त्रीलिङ्गशब्दानाम् विषये अयमादेशः न भवति । यथा - माला + ङे = मालायै । Sutrartha (English) ------------------- The ङे प्रत्यय attached to an अदन्त अङ्ग is converted to a यकार. Vasu English Summary -------------------- After a अङ्ग (stem) ending in अ are substituted there is substituted य for the Dative -4th Case ending ए। Vasu English Translation ------------------------ After a अङ्ग (stem) ending in अ are substituted there is substituted य for the Dative -4th Case ending ए। Thus वृक्षाय, प्लक्षाय, the अ is lengthended by (7.3.102), in spite of the maxim संनिपातलक्षणो विधि रनिमित्तम् तद्विधातस्य ॥ "That which is taught in a rule the application of which is occasioned by the combination of two things, does not become the cause of the destruction of that combination". Thus य is substituted here, because the preceding word ends in a short अ, thus this short अ occasioned the existence of य, therefore this य cannot occasion the destruction of अ ॥ But that however it does, for it is on account of this य, that the preceding अ is replaced by आ ॥ The ङेः is the anomalous genitive case of the Dative ending ङे; this affix is exhibited without any *vibhakti* in (7.1.28). The ङेः should not be taken as the Genitive singular of ङि the affix of the Locative singular. Bhashya ------- ङेर्यः किमिदं चतुर्थ्येकवचनस्य ग्रहणमाहोस्वित्सप्तम्येकवचनस्य ग्रहणम् ? ॥ कुतः सन्देहः ? ॥ समानो(1) निर्देशः ॥ चतुर्थ्येकवचनस्य ग्रहणम् ॥ कथं ज्ञायते ? ॥ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति ॥ इहापि तर्हि चतुर्थ्येकवचनस्य ग्रहणं स्यात्, - ङेरान्मद्याम्नीभ्यः ॥ एवं तर्हि व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमितीह चतुर्थ्येकवचनस्य ग्रहणं व्याख्यास्यामस्तत्र सप्तम्येकवचनस्येति ॥ ( ङेर्यः) ॥ Kashika ------- ङेरिति चतुर्थ्येकवचनस्य ग्रहणम्। अकारान्तादङ्गादुत्तरस्या ङे इत्येतस्य य इत्ययमादेशो भवति। वृक्षाय। प्लक्षाय। अत इत्येव — सख्ये। पत्ये। **संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य** इति परिभाषेयमनित्या, तेन दीर्घो भवति॥ Siddhanta Kaumudi ----------------- अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात् । रामाय । इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः । [(परिभाषा - ) संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य] इति परिभाषा तु नेह प्रवर्तते । कष्टाय क्रमणे (SK2670) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । रामाभ्याम् ॥ Laghu Siddhanta Kaumudi ----------------------- अतोऽङ्गात्परस्य ङेर्यादेशः ॥ Balamanorama ------------ **ङेर्यः** - ङेर्यः ।हे॑रित्येकारान्तात् षष्ठएकवचनम्, नतु ङि इति सप्तम्येकवचनं, व्याख्यानात् । 'अतो भिस' इत्यतोऽत इति पञ्चम्यन्तमनुवर्तते । तेन चअङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः ।सुपि चे॑ति दीर्घं मत्वा आह — रामायेति । ननु यादेशस्य सुप्त्वाऽभावात्तस्मिन् परतः कथं सुपि चेति दीर्घ इत्यत आह — इहेति । नन्वत्र दीर्घो यञादित्वेन सुप्त्वेन च यादेशं परनिमित्तीकृत्य प्रवर्तते । सच यञंशेऽलाश्रयः । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भावः , अनल्विधाविति तन्निषेधादिति चेत्, सत्यम् — इह दीर्घस्य यञादिसुबाश्रयतयाऽऽदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावे सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वा.ञभावात् ।अकृत्सार्वधातुकयोदीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयोर्दीर्घ॑ इति तु परमप्यत्र नोपन्यस्तम्,अकृत्सार्वधातुकयो॑रिति पर्युदासबलेन तस्याऽसुप्येव प्रवृत्तेरित्याहुः । स्यादेतत् ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑त्यस्ति परिभाषा । संनिपातः=संश्लेषः, लक्षणं=निमित्तं यस्य सः संनिपातलक्षणः । विधि -कार्यम् । तद्विघातस्य । तं=संनिपातं विहन्तीति तद्विघातः । 'कर्मण्यण्' इति कर्मण्युपपदे कर्तर्यण् ।हनस्तोऽचिण्णलो॑रिति तकारः ।हो हन्ते॑रिति कुत्वम् । संनिपातविघातकस्य न निमित्तमित्यर्थः । उपजीवकमुपजीव्यस्य विघातकं न भवतीति यावत् । प्रकृते चाऽदन्तसंबन्धमाश्रित्य प्रवृत्तो यादेशोऽदन्तसम्बन्धविघातकस्य दीर्घस्य कथं निमित्तं स्यादित्याशङ्क्य परिहरति — संनिपातलक्षण इत्यादिना । तृतीयाद्विवचनवद्दीर्घं सिद्धवत्कृत्याह-रामाभ्यामिति । Tattvabodhini ------------- **ङेर्यः** - ङेर्यः ।ङे॑रिति चतुर्थ्येकवचनस्य ग्रहणं, न सप्तम्येकवचनस्य, व्याख्यानात् । अतएवङेरा॑मित्यत्रास्याऽग्रहणम्,समानाधिकरणे॒॑स्त्रिया॑मित्यादिनिर्देशाच्च । स्थानिवद्भवेनेति । आदेशालाश्रयविधौ स्थानिवत्त्वनिषेधाऽभावादिति भावः । सुपि चेति दीर्घ इति । न च परत्वात्अकृत्सार्वधातुकयोः — ॑ इति दीर्घोऽस्त्विति शङ्क्यम्, तत्रअयङ्यि क्ङिति॑ इत्यतःक्ङिती॑त्यनुवर्तनात् । अन्यथाउरुये॑त्यत्रापि दीर्घः स्यात् । उरुशब्दात्परस्यटा॑ इत्यस्यसुपां सुलुक् इति यादेशः । एतच्च काशिकायां स्पष्टम् । यद्यपि ङेर्यादेशस्य ङित्त्वमस्तिन ल्यपि॑ इति ज्ञापकेन अनुबन्धकार्येष्वनल्विधावपि स्थानिवत्त्वाभ्युपगमात्, तथापि शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येषु स्थानिवत्त्वानभ्युपगमाद्यादेशे ङित्त्वं नेत्यभ्युपेत्येदं । विरोधाऽभावात्परत्वमत्राकिंचित्करभित्यनादरेण वाअकृत्सार्वधातुकयोः-॑ इति दीर्घेण ज्यायानिति रूपसिद्धेरिति भाष्ये स्थितं, तदिदानीं विरुध्येत,क्ङिती॑त्यनुवृत्तौ तुज्याया॑नित्यत्रअकृत्सार्वे॑ति दीर्घाऽप्रवृत्तेः । तथाचअकृत्-॑ इति सूत्रे क्ङितीति नानुवर्तनीयम्, उरुया धृष्णुयेत्यत्र दीर्घाभावश्छान्दस इत्येवाभ्युपेयमिति चेत्, अत्राहुः,ज्ञाजनोर्जा॑ इत्याकारग्रहणमुक्तपरिभाषालिङ्गम् । अन्यथा जमेव विदध्यात् ।अतो दीर्घो यञि॑ इतिजायते॑जानातीत्यादौ दीर्घसिद्धेरित्यपि भाष्ये स्थितं, तच्च ज्ञापकम्अकृत्-॑ इत्यत्र क्ङितीत्यनुवृत्तावपि सङ्गच्छते । एवं च सतिज्यादात् इत्याकारग्रहणं लिङ्गमिति तु भाष्ये प्रौढवादमात्रमस्तु ।संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्ये॑ति । संनिपातेति । संनिपातः संश्लेषः लक्षणं निमित्तं यस्य स संनिपातलक्षणः । तं संनिपातं विहन्तीति तद्विघातः । कर्मण्यण्, कुत्वतत्वे । उपजीवकविधिः स्वोपजीव्यविघातकविधेर्निमित्तं न भवतीत्यर्थः । Padamanjari ----------- णेó इति चतुर्थ्यकवचनस्य ग्रहणमिति । तस्य हि णेó इति रुपं प्रतिपदोक्तं सप्तम्येकवचनस्य घेर्ङितीति गुणे लाक्षणिकम् । यद्यपि णेóः इति विभक्त्यन्तमुपातम्, तच्चोभयोरपि लाक्षणिकम्, थथापि प्रत्ययात्पूर्वस्य भागस्य लाक्षणिकत्वप्रतिपदोक्तत्वापेक्षेया परिभाषाप्रवृत्तिः । यद्येवम्, णेóराम्नद्याम्नीभ्यः इत्यत्राप्येवमेव प्रसङ्गः तस्माव्द्याख्यानमेवात्र शरणम् । लिङ्गं च - तस्मै प्रभवति, तदस्मै दीयते, तस्मै हितम्, तदस्यé प्रहरणमिति क्रीडायां णः इत्यादि । वृक्षायेति । सुपि चेति दीर्घः । कथं पुनरकारसन्निपातकृतो यशबद्स्तद्विधातनिमितं भवति अत आह - सन्निपातलक्षण इति । अनित्यत्वं तस्याः कष्टाय क्रमणे इति निर्द्देशादवसीयते ॥ Nyaas ----- `ङेः` इति। चतुथ्र्यकवचनस्येदं ग्रहणम्। कस्मान्न भवति सप्तम्येकवचनस्य ग्रहणम्? यदि हि तस्य ग्रहणं स्यात्, तदा - अत्यन्तसंयोगे, भावे अपवर्गे, कारकमध्ये - इत्येवमादि न सिद्ध्यति। तस्मादेतेभ्यो निर्देशेभ्यो नेदमिह सप्तम्येकवचनस्य ग्रहणम्। अतः परिशेष्याच्चतुर्थ्येकवचनस्य ग्रहणं न निश्चीयत इति। **तस्मै हितम्** (5.1.5) इति निर्देशाच्च लिङ्गादत्तरत्राप्येतदेवानुवर्तते। `वृक्षाय` इति। `सुपि च` (7.3.102) इति दीर्घः।ननु `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इति परिभाषया उपस्थाने सति सन्निपातलक्षणो यविधिरकारविधातं प्रति निमित्तं नोपपद्यते, कुतो दीर्घत्वम्? इत्याह - `सन्निपातलक्षणः` इत्यादि। अनित्यत्वं त्वस्याः प्रागेव प्रतिपादितम्। अथ ङकारोच्चारणं किमर्थम्? एकारमात्रस्य ग्रहणं मा भूदिति। यदि स्यात्, पचे, यजे - इत्येवमादावपि स्यात्। ननु च **अतो गुणे** (6.1.97) इति पररूपत्वे कृते निमित्ताभावान्न भविष्यति? नैतदस्ति; नाप्राप्ते ह्रतो गुणे पररूपत्वेऽयमादेश उच्यते; स यथा वृक्षाय इत्यत्र **अतो गुणे** (6.1.97) पररूपत्वं बाधते तथा पचे, यजे - इत्यत्रापि बाधेत प्रतिपदोक्तस्येकारस्य ग्रहणादिह न भविष्यतीति चेत्? न; अस्याप्येकारस्य प्रतिपदोक्तत्वात्। **टित आत्मनेपदानां टेरे** (3.4.79) इति निर्द्देशादेकारः प्रतिपदोक्तो भवति। तस्माद्विशेषणार्थो ङकार कर्तव्यः॥ Prakriyasarvasvam ----------------- अदन्तात् परस्य ङेशब्दस्य यः स्यात् 'सुपि च' (७-३-१०२) इति दीर्घः । कृष्णाय कृष्णाभ्याम् । कृष्णेभ्यः ॥ Sarala ------ **ङे** - षष्ठ्यन्तं, **यः** - प्रथमान्तम् ॥ Sudha ----- **ङेर्य इति ।** ङेरियेत्कारान्तात् पष्ठ्येकवचनम्, न तु ङि इति सप्तम्येकवचनात् ; व्याख्यानात् । **अतो भिस ऐस्**(7.1.9) इत्यतः अत इति पञ्चम्यन्तमनुवर्तते । तेन च **अङ्गस्य**(6.4.1) इत्यधिकृतं पञ्चम्या विपरिणतं विशेष्यते तदाह - **अतोऽङ्गादिति ।** अदन्तादङ्गादित्यर्थः । **रामायेति ।** रामशब्दात् चतुर्थ्येकवचनविवक्षायां ङे विहिते 'राम ङे' इति जाते तत्र **ङेर्यः**(7.1.13) इत्यनेन ङेइत्यस्य स्थाने यकारादेशे कृते "राम य" इति । अत्र यकारे **स्थानिवदादेशोऽनल्विधौ**(1.1.56) इति स्थानिवद्भावेन सुप्त्वमानीय **सुपि च**(7.3.102) इत्यनेनादन्ताङ्गस्य दीर्घे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यनेन अन्त्यस्यालो जाते "रामाय" इति रूपं सिद्धम् । **रामाभ्यामिति ।** रामशब्दात् चतुर्थ्याः द्विवचनविवक्षायां भ्यामि "राम भ्याम्" अत्र **सुपि च**(7.3.102) इति दीर्घे तृतीयाद्विवचनवत् "रामाभ्याम्" इति रूपम् ।