71011: नेदमदसोरकोः¶
Padacheda: न | S | 0 | 0 |
इदम्-अदसोः | S | 6 | 2 |
अ-कोः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
This substitution of ऐस् does not take place after 1. इदम् and 2. अदस् except when they end in क।
Vasu English Translation¶
This substitution of ऐस् does not take place after 1. इदम् and 2. अदस् except when they end in क। As एभिः, अमीभिः, but इमकैः, अमुकैः ॥ By (7.2.102), अ is substituted for the final of इदम्, as इद + अ = इद (6.1.97). By (7.2.113), the इद् is elided before भिस्, and the only portion left is अ, which becomes ए according to (7.3.103). For the final of अदस् is similarly by (7.2.102), अ substituted, and अद + अ = अद (6.1.97), and according to our present sutra, the form in Instrumental plural would be अदेभिः, but द् is changed to म् by (8.2.80), and ए to ई by (8.2.81).
The exception made with regard to these forms ending in क, shows the existence of the following maxim : तद्मध्यपतितस्तद्ग्रहणेन गृह्यते “Any term that may be employed in Grammar denotes not merely what is actually denoted by it, but it denotes also whatever word-form may result when something is inserted in that which is actually denoted by it.”
The sutra has not been made as इदमदसोः कात्, for had it been so constructed the rule would have applied to the क ending इदम् and अदस् and to no other क ending pronoun, and we could not get the forms सर्वकैः, विश्वकैः ॥ Moreover such a construction would have made ऐस् applicable to इदम् and अदस् also in their simple states : i. e. we could not have got the forms एभिः or अमीभिः ॥ Therefore the negative construction न अकोः is used in sutra in order to prevent the rule of contrariety.
Bhashya¶
नेदमदसोरकोः इमौ द्वौ प्रतिषेधावुच्येते उभौ शक्याववक्तुम् ॥ कथम् ? ॥ एवं वक्ष्यामि - ःइदमदसोः(2) कादिति; तन्नियमार्थं भविष्यति- इदमदसोः कादेव नान्यत इति ॥ ( नेदमदसोरकोः ) ॥
Kashika¶
इदम् अदस् इत्येतयोरककारयोर्भिस ऐस् न भवति । एभिः। अमीभिः। अकोरिति किम्? इमकैः। अमुकैः। अकोरित्येतदेव प्रतिषेधवचनं ज्ञापकं तन्मध्यपतितस्तद् ग्रहणेन गृह्यते इति । इदमदसोः कादिति नोक्तम् , विपरीतोऽपि नियमः संभाव्येत — इदमदसोरेव कादिति। ततश्चेह न स्यात् — सर्वकैः, विश्वकैः। इह च स्यादेव — एभिः, अमीभिः। प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम् ॥
Siddhanta Kaumudi¶
अककारयोरिमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । अत्वम् । नित्यत्वात् ङेः स्मै पश्चाद्धलि लोपः । अस्मै । आभ्याम् । एभ्यः । अस्मात् । आभ्याम् । एभ्यः । अस्य । अनयोः । एषाम् । अस्मिन् । अनयोः । एषु ॥ ककारयोगे तु अयकम् । इमकौ । इमके । इमकम् । इमकौ । इमकान् । इमकेन । इमकाभ्याम् । इमकैः ॥
Laghu Siddhanta Kaumudi¶
अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥
Tattvabodhini¶
नेदमदसोरकोः - नेदमदसोः । भाष्ये तुइदमदसोः कात् । नियमार्थमिदम् ।इदमदसोः कादेव भिस ऐस् नान्यतः॑इति स्थितम् । नव्यास्तु — ॒इदमदसो का॑दिति सूत्रिते तुकाद्भिस ऐस् इदमसोरेवे॑ति विपरितनियमोऽपि संभाव्येत । तथाचपाचकै॑रित्यादि न सिध्येत् । किं तुइदमदसोः काद्भिस ऐस्॒अतः॑इत्येव सूत्रद्वयं सुवचमित्याहुः । स्मायादेशात्परत्वादनादेशः स्यादित्याशङ्कायामाह — नित्यत्वान्हेः स्मै इति ।
Padamanjari¶
इदमदसोः इति भिसपेक्षया सम्बन्धलक्षणा षष्ठी । एभिरिति । त्यदाद्यत्वम्, हलि लोपः इतीद्भागस्य लोपः । अमीभिरिति । ऐसि प्रतिषिद्धे बहुवचने झल्येत् इत्येत्वम् एत ईद्वहुवचने इतीत्वमत्वे । एअकोरित्येतदनर्थकम्, कथम् विशिष्टरुपाश्रयोऽयं प्रतिषेधः - इदमदसोः इति, तत्राकचि कृते रुपभेदादेव न भविष्यति तत्राह - अकोरित्येतदेवेति । ज्ञापनस्य परयोजनम् - सर्वके इत्यादौ सर्वनामकार्यप्रवृत्तिः । इमौ द्वौ प्रतिषेधावुच्येते, द्वावपि शक्याववक्तुम् । कथम् एवं हि वक्ष्यामि - इदमदसोः कात् इति, तन्नियमार्थं भविष्यति - इदमसोरेव कादिति । ततश्च सर्वकैरित्यादौ न स्यात्, एभिरित्यादौ च स्यादेव - तन्मध्यपरिभाषा च न ज्ञापिता स्यात् । क्वचितु वृतावेव पठ।ल्ते - इदमदसोः कादिति नोक्तम्, विपरीतोऽपि नियमः स्यात् - इदमदसोरेव कादितीति ॥
Nyaas¶
अविद्यमानः ककारो ययोस्तवकौ। एभिः इति। इदमस्त्यदाद्यत्वम्, बहुवचने झल्येत् (7.3.103) इत्येत्त्वम्, हलि लोपः (7.2.113) इतीद्रूपस्य लोपः। अमीभिः इति। अदस एत्त्वे कृते एत ईदवहुवचने (8.2.81) इतीत्त्वम्, दस्य च मत्वम्। इमकैः इति। अव्ययसर्वनाम्नामकच्प्रक्टोः (5.3.71) इत्यकच्, दश्च (7.2.109) इति दकारस्य मत्वम्। अमुकैः इति। `अदसोऽसोर्दादु दो मः (8.2.80) इति मत्वोत्वे। अथ नेदमदसोः इत्येवं कस्मान्नोक्तम्, किमकोरत्यनेन, अकोरित्यनुच्यमाने सककारयोरपि अतिषेधः स्यादिति चेत्? नैतदस्ति; इदमदसोर्हि प्रतिषेध उच्यमानः कः प्रसह्गो या सककारयोः स्यात्? नैव प्राप्नोति शब्दान्तरत्वादित्याह - अकोरित्येत् इत्यादि। ज्ञापकस्य प्रयोजनम् - अकज्वतां सर्वनामसंज्ञा सर्वादीनाम्, स्वरादीनाञ्चाव्ययसंज्ञा। अथ इदमदसोः कात् इति कस्मान्नोक्तम्, तत्र पूवणैव सिद्धे नियमार्थ भविष्यति - इदमदसोः सम्बन्धो यो भिस्? तस्य कादेव परस्यैस्? भवति, इत्येवं विज्ञायमाने नियमे सर्वमभीष्टं नियमे सर्वमभीष्टं सिध्यत्येव, लघु च सूत्रं भविष्यति? सत्यमेतत्; किन्त्वस्मिन्? सूत्रविन्यासे तन्मध्यपतितस्तद्ग्रहणेन गृह्रते (व्या।प।21) इत्येषा न ज्ञापिता स्यात्। विपरीतनियमोऽपि भन्दधीभिराशङ्क्येत - इदमदसोरेव कादिति। तत्रायं नियमार्थः स्यात् - इदमदसोरेव यः ककारस्तस्मात्? परस्य भिस ऐस्भवतीति। ततो विआकैः, सर्वकैरित्यत्र न स्यात्; नियमेन व्यावर्त्तितत्वात्। इह च स्यादेव - एभिः, अमीभिरिति। नियमेनाव्यावर्त्तितत्वात्। तस्माद्यथान्यासमेवास्तु॥
Prakriyasarvasvam¶
अककारयोरिदमदसोर्भिस ऐस् न स्यात् । एत्वम् । एभिः । ङेः स्मैत्वे इदो लोपः । अस्मै । आभ्याम् । एभ्यः । एवम् अस्मात् । अस्य । अनयोः । एषाम् । अस्मिन्, अनयोः, एषु । ककारयोगे तु — इमकेन, इमकाभ्याम्, इमकैरित्यादि । अकचि ‘दश्च’ (७-२-७५) इति मः ॥
Sudha¶
नेदमदसोरकोरिति । अतो भिस ऐस्**(7.1.9) इत्यतो भिस ऐस् इत्यनुवर्तते । अकोरिति षष्ठी । न विद्यते ककारो ययोरिति बहुव्रीहिस्तदाह - अककारयोरित्यादिना । एभिरिति । इदम् + भिस् इति स्थिते **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे कृते इद + भिस् इति स्थिते **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे **अतो भिस ऐस्**(7.1.9) इत्येत्वे प्राप्ते **नेदमदसोरकोः**(7.1.11) इत्यनेन निषिध्य **बहुवचने झल्येत्**(7.3.103) इति एत्त्वे सस्य रुत्वे रस्य विसर्गे च ‘एभिः’ इति रूपम् । अस्मै । इदम् + ङे अत्र **त्यदादीनामः (7.2.102) इति अकारान्तादेशे विहिते **अतो गुणे**(6.1.97) इति पररूपे इद + ङे इति स्थिते इदम् शब्दस्य सर्वनामस्वात् **सर्वनाम्नः स्मै**(7.1.14) इति ङे स्थाने ‘स्मै’ आदेशे **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे ‘अस्मै’ इति रूपम् । एभ्यः । इदम् + भ्यस् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे अ + भ्यस् इति जाते **आद्यन्तवदेकस्मिन्**(1.1.21) इति अकारस्य अदन्तत्वे **बहुवचने झल्येत्**(7.3.103) इति एकारान्तादेशे रुत्वविसर्गयोः ‘एभ्य’ इति रूपम् । अस्मात् । इदम् + ङसि इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे इद + ङसि इति जाते ‘ङसिङ्योः स्मात्स्मिनौ’ इति ‘स्मात्’ आदेशे कृते **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे ‘अस्मात्’ इति रूपम् । अस्य इति । इदम् + ङस् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे **टाङसिङसामिनात्स्याः**(7.1.12) इति ङसः स्थाने स्यादेशे **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे ‘अस्य’ इति रूपम् । अनयोः । इदम् + ओस् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे **अनाप्यकः**(7.2.112) इति इद्भागस्यानादेशे कृते अन + ओस् इति जाते **ओसि च**(7.3.104) इति अनघटकनकारोत्तरवर्तिन अकारस्यैकारे **एचोऽयवायावः**(6.1.78) इति अयादेशे रुत्वे विसर्गे च मिलित्वा ‘अनयोः’ इति रूपम् । एषाम् । इदम् + आम् अत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपे **आमि सर्वनाम्नः सुट्**(7.1.52) इति सुडागमे टित्वादाद्यावयवे उटि गते इद +साम् इति जाते **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे ‘आसाम्’ इति जाते **आद्यन्तवदेकस्मिन्**(1.1.21) इति एकस्मिन् अकारे अदन्तत्वमानीय **बहुवचने झल्येत्**(7.3.103) इति एत्वे **आदेशप्रत्यययोः**(8.3.59) इति षत्वे ‘एषाम्’ इति रूपम् । अस्मिन् । इदम् + ङि इत्यत्र त्यदाद्यत्वे पररूपत्वे च कृते **ङसिङ्योः स्मात्स्मिनौ**(7.1.15) इति ङे: स्थाने स्मिन् आदेशे कृते **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे च ‘अस्मिन्’ इति रूपम् । एषु । इदम् + सुप् अत्र स्यादाद्यत्वे पररूपत्वे च सुपः पकारस्येत्सञ्ज्ञायां लोपे च **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे **बहुवचने झल्येत्**(7.3.103) इति एत्वे **आदेशप्रत्यययोः**(8.3.59) इति षत्वे ‘एषु’ इति रूपम् ।