71010: बहुलं छन्दसि

Padacheda: बहुलम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the substitution takes place diversely.

Vasu English Translation

In the छन्दस् (Vedas) the substitution takes place diversely. That is ऐस् is substituted for भिस् even after stems which do not end in short अ; as नद्यः; and some times the substitution does not take place even after stems ending in short अ, as, देवेभिः सर्वेभिः प्रोक्तम् ॥ देवो देवोभिरागमत् (Rig Veda I.1.4).

Kashika

छन्दसि विषये बहुलमैसादेशो भवति। अत इत्युक्तमनतोऽपि भवति नद्यैरिति। अतो न भवति — देवेभिः सर्वेभिः प्रोक्तमिति॥

Siddhanta Kaumudi

अग्निर्देवेभिः (अ॒ग्निर्दे॒वेभिः॑) ॥

Nyaas

बहुलग्रहणं विस्पष्टार्थम्। शक्यते हि मण्डूकप्लुतिन्यायेन बहुलग्रहणमनुवर्तयितुम्॥

Prakriyasarvasvam

अतो भिस ऐस् बहुलं स्यात् । देवेभिरिन्द्रः । तेभिश्चष्टे । अनतोऽपि स्यात् । नद्यैः ।