71009: अतो भिस ऐस्

Padacheda: अतः | S | 5 | 1 |

भिस | S | 6 | 1 |

ऐस् | S | 1 | 1 |

Sutrartha

अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति ।

अकारान्तशब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये परे तस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अयमादेशः अनेकाल् अस्ति, अतः अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन सम्पूर्णस्य भिस्-प्रत्ययस्य स्थाने भवति । यथा - राम + भिस् → राम + ऐस् [अतो भिस ऐस् (7.1.9) इति भिस्-प्रत्ययस्य ऐस्-आदेशः] → रामैस् [वृद्धिरेचि (6.1.88) इति वृद्धि-एकादेशः] → रामैरुँ [ससजुषोः रुँ (8.2.66) इति रुँत्वम्] → रामैः खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] ज्ञातव्यम् - अस्मिन् सूत्रे ‘अतः’ इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + भिस् → मालाभिः ।

Sutrartha (English)

The भिस्-प्रत्यय following an अदन्त अङ्ग is converted to ऐस्.

Vasu English Summary

After a nominal अङ्ग (stem) ending in अ, ऐस् is substituted for the case-ending भिस्।

Vasu English Translation

After a nominal अङ्ग (stem) ending in अ, ऐस् is substituted for the case-ending भिस्। Karika

एत्वं भिसि परत्वाश्चेदत ऐस्क्व भविष्यति । कृतेप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥

As वृक्षैः, प्लक्षैः, अतिजरसैः ॥ Why do we say ending in अ? Observe अग्निभिः, वायुभिः ॥ Why ‘short अ’? Observe खट्वाभिः, मालाभिः ॥ The adhikara of “अतः” (‘after a short अ’), extends up to (7.1.17).

The form अतिजरसैः illustrates some important principles of grammar. अति + जरा = (जरामतिक्रान्तः) अतिजर (अ being shortened by (1.2.48)). The word अतिजर ends in अ, and there fore forms its Instrumental plural by ऐस् ॥ Thus अतिजर + ऐस् ॥ Now we apply (7.2.101), which says for जरा is substituted जरस् before vowel-beginning case-endings. It should not be objected, that the substitution is ordained for जरा and not जर; for the maxim एकदेशविकृतमनन्यवद् भवति (a tail-less dog is still a dog) applies here. Having made this substitution, we get अतिजरसैः ॥ Nor should you object that it was the अ of जर which had given occasion to the existence of ऐस्, and that अ should not be destroyed, on the maxim संनिपातलक्षणो विधिरनिमित्तं तद् विघातस्य, for this maxim is not universal, as Panini himself shows in employing the form कष्टाय (3.1.14), in which ए of the Dative is changed into य by (7.1.13), and then this very य causes the destruction of अ and makes it आ (See (7.1.13) also).

Karika:- If there be substitution of ए for the final अ before the affix भिस् by the subsequent sutra (7.3.103), where will then the present sutra, causing the substitution of ऐस् for भिस् after stems ending in अ, find its scope, (because there will be no stem left ending in अ)? If even after changing अ into ए, you change the भिस् into ऐस्, because the ए was once अ (भौतपूर्व्यात्); then the rule of changing भिस् into ऐस् becomes a nitya rule, because it takes effect even after the application of rule (7.3.103), and being nitya it debars that rule. Thus वृक्ष + भिस् ॥ Here the subsequent rule (7.3.103), requires the अ to be changed into ए ॥ Thus वृक्षे + भिः Now the present rule cannot apply because there is no अदन्त stem. However, is considering that वृक्षे once was अदन्त, we change भिः to ऐस् then the rule becomes a nitya rule. In fact, it is a nitya rule and debars the application of (7.3.103), within its jurisdiction, (7.3.103), finds its scope in वृक्ष + सु = वृक्षेषु ॥

Bhashya

अतो भिस ऐस् इह वृक्षैः ल्पक्षैरिति परत्वादेत्त्वं प्राप्नोति । (एत्वे कृते(3) विहतनिमित्तत्वादैस्त्वं न भविष्यति । ॥ एत्वं(1) भिसि परत्वाच्चेदतऐस् क्व भविष्यति ? ॥ ) ऐस्भाव इदानीं क्व भविष्यति ? ॥ कृते एत्वे भौतपूर्व्यात् ॥ कृते एत्वे भूतपूर्वमकारान्तमिति ऐस् भविष्यति ॥ ऐस्तु नित्यस्तथा सति ॥ एवं सति नित्य ऐस्भावः, कृतेऽप्येत्वे प्राप्नोत्यकृतेऽपि प्राप्नोति । नित्यत्वादैस्त्वे कृते विहतनिमित्तत्वादेत्वं न भविष्यति ॥ ॥ एत्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति ? कृते एत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥ 7-1-10- बहुलं छन्दसि वेत्तेर्विभाषा ॥ बहुलं छन्दसि ॥ अतो भिस ऐस् ॥ इदं(1) द्विःक्रियते एकं शक्यमकर्त्तुम् ॥ इदं बहुलं छन्दसीति द्विःक्रियते एकं शक्यमकर्तुम् ॥ कथम् ? ॥ यदि तावत्पूर्वं क्रियते परं न करिष्यते, अतो भिस ऐसित्यत्र बहुलं छन्दसीत्येतदनुवर्तिष्यते । अथ परं क्रियते पूर्वं न(2) करिष्यते, बहुलं छन्दसीत्यत्र रुडप्यनुवर्त्तिष्यते ॥ अपर आह - ( ॥ उमे(1) बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्त्तुम् ॥) उभे बहुलग्रहणे एकं छन्दोग्रहणं शक्यमकर्तुम् ॥ कथम् ? ॥ इदमस्ति वेत्तेर्विभाषा । ततः छन्दसि । छन्दसि च विभाषा । ततः (ठअतो भिस(3) ऐस् ।) अतो भिस ऐस् भवति । छन्दसि विभाषेति ॥

Kashika

अकारान्तादङ्गादुत्तरस्य भिस ऐस् इत्ययमादेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैरिति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। एकदेशविकृतमनन्यवद् भवति इति जरशब्दस्य जरसादेशः। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या कष्टाय क्रमणे (३.१.१४) इति निर्देशात् । अत इति किम् ? अग्निभिः वायुभिः। तपरकरणं किम्? खट्वाभिः। मालाभिः।

एत्वं भिसि परत्वाच् चेदत ऐस् क्व भविष्यति ।

कृतेऽप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥

अत इत्यधिकारो जसः शी (७.१.१७) इति यावत् ॥

Siddhanta Kaumudi

अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥

Laghu Siddhanta Kaumudi

अनेकाल्शित्सर्वस्य । रामैः ॥

Balamanorama

अतो भिस ऐस् - अतो भिस ऐस् । ‘अत’ इति पञ्चमी ।अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । ‘अत’ इति च तस्य विशेषणम् । विशेषणत्वाच्च त्तदन्तविधिः । तदाह — अकारान्तादिति । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामर्थ्यादेव तदसम्भवात् । अन्यथा इसमेव विदध्यात् । तथापि एदैतोर्द्विमात्रत्वाऽविशेषात्प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति । अथ चतुर्थीविभक्तिः । तत्र ङे इति ङकारस्य लशक्वेतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्ङितीत्याद्यर्थम् । राम-ए इति स्थिते ।

Tattvabodhini

अतो भिस ऐस् - अतो भिस ऐस् । ननुए॑सित्येवास्तु । न चअतो गुणे॑ इति पररूपापत्तिः । एकारोच्चारणवैयथ्र्यापत्तेः । अन्यता इसमेव विदध्यादिति चेत्सत्यम् । एदैतोर्द्विमात्रत्वाऽविशेषेण गौरवाऽभावात् ।बहुलं छन्दसि॑ इत्यत्रअनतोऽपि भवति नद्यै॑रिति काशिकोदाहृतप्रयोगस्य ऐस्करणं विना अनिर्वाहाच्च । केचिदैस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति व्याचख्युः, तच्चिन्त्यम् । संनिपातपरिभाषया जरसादेशाऽप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात् ।

Padamanjari

अतिजरसैरिति । अत्रैव चैकारस्य श्रवणार्थमैसादेशः कृतः । वृक्षैरित्यादावेसादेशेऽपि वृद्ध्या रुपं सिद्धम् । अतो गुणे इति पररुपं तु न भवति यदि स्यात, इसमेव विदध्यात् । परत्वादिति । एत्वस्यावकाशः - वृक्षेषु, ऐसोऽवकाशः कृत एत्वे, प्रागेत्वादुभयप्रसङ्गे परत्वादेत्वप्रसङ्ग इति चेन्मन्यसे, अत एस क्व भविष्यति एत्वे कृते मुख्यमकारान्त न भवतीति प्रश्नः कृत एत्वे भौतपूर्व्यादिति । भूतपूर्वस्य भावो भौतपूर्व्यम्, साम्प्रतिकाभावाद्भूतपूर्वगतिराश्रीयत इति भावः । एस् तु नित्यस्तथा सतीति । एवं हि सत्यैस्भावो नित्यः, कृताकृतप्रसङ्गित्वात् । एत्वं त्वैसि कृते न प्राप्नोति अझलादित्वात् । न च तत्र भूतपूर्वगतिः मुख्यस्यैव सम्भावात् । एतच्चोद्यपरिहारमुत्सर्गापवादभावमनाश्रित्य कृतं द्रष्टव्यम्, तदाश्रयणे हि नाप्राप्त एत्व आरम्भादैसपवाद इत्ययुक्तो विप्रतिषेधः स्यात् ॥

Praudhamanorama

नन्वेस् इत्येवास्तु। न च ‘अतो गुणे’ इति पररूपापत्तिः। एकारोच्चारणवैयर्थ्यापत्तेः। अन्यथा इसमेव विदध्यदिति चेत्? सत्यम्, एदैतोर्द्विमात्रत्वाविशेषेण गौरवाभावादैस् कृतः। एवं च पररूपशङ्कैव नास्तीति महल्लाघवम्। यत्त्वाहुः—ऐस्करणं निर्जरसैरित्यैकारश्रवणार्थमिति। तद्भाष्यविरुद्धम्। सन्निपातपरिभाषया जरसादेशाप्रवृत्तेर्निर्जरैरित्येव भाष्ये सिद्धान्तितत्वात्।

Prakriyasarvasvam

वृद्धिः । कृष्णैः । कृष्ण ङे । ङलोपः ॥

Sarala

(अकारान्तादङ्गाद्भिस ऐस् स्यात्) । अतः - पञ्चम्यन्तं, भिसः - षष्ठ्यन्तम्, ऐस् - प्रथमान्तम् । “ऐस्” इत्यत्र सौत्रत्वान्न रुत्वविसर्गौ । अत्र “एस्” तु न कृतः, अतो गुणे (६.१.९७) इति पररूपापत्तेः । यदि तु एकारोच्चारणसामर्थ्यान्न पररूपम्, अन्यथा इसमेव विदध्यात्, गुणेनोक्तरूपसिद्धेरित्युच्यते तर्हि नद्यैरित्यादौ वेदे तदावश्यकमिति गृहाण ॥

Sudha

अतो मिस इति । अत इति पञ्चमी । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । अत इति तस्य विशेषणम् । विशेषणत्वात्तदन्त- विधिस्तेनाकारान्ताङ्गाद्भिस ऐस् इत्यर्थः। रामैरिति । रामशब्दात् तृतीयाबहुवचनविवक्षायां भिसि प्रत्यये “राम भिस्” इति जाते अत्र **अतो भिस ऐस्**(7.1.9) इति भिस ऐसादेशे प्राप्ते क्व स्यादिति जिज्ञासायाम् **अनेकाल्शित्सर्वस्य**(1.1.55) इति परिभाषया अनेकाल्त्वात्सर्वादेशे “राम ऐस्” इति भूते अत्र **वृद्धिरेचि**(6.1.88) इति वृद्धौ सस्य रुत्वे विसर्गे च “रामैः” इति ।