71004: अदभ्यस्तात्

Padacheda: अत् | S | 1 | 1 |

अभ्यस्तात् | S | 5 | 1 |

Sutrartha

अभ्यस्तात् परस्य प्रत्ययस्य झकारस्य अत्-आदेशः भवति ।

किम् नाम अभ्यस्तम्? सूत्रपाठे द्वयोः सूत्रयोः अभ्यस्तसंज्ञा दीयते - 1. यत्र अङ्गस्य द्वित्वम् भवति तत्र उभयोः शब्दयोः (इत्युक्ते, यस्य द्वित्वं कृतमस्ति सः शब्दः तथा द्वित्वेन निर्मितः शब्दः - एतयोः द्वयोः अपि) उभे अभ्यस्तम् (6.1.5) इत्यनेन अभ्यस्त-संज्ञा भवति । 2. जक्षित्यादयः षट् (6.1.6) इत्यनेन अदादिगणस्य सप्त-धातूनामपि अभ्यस्तसंज्ञा भवति -जक्षँ, जागृ, दरिद्रा, चकासृ, शासु, दीधीङ्, वेवीङ् । अस्मात् अभ्यस्तसंज्ञकात् परस्य प्रत्ययस्य झकारस्य झोऽन्तः (7.1.3) इत्यनेन ‘अन्त्’ आदेशे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन अत्-आदेशः भवति । उदाहरणाानि एतानि - 1) जुहोत्यादिगणस्य डुदाञ् (दाने) इत्यस्य लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् दा + लट् [वर्तमाने लट् (3.2.123) इति लट्] → दा + झि [तिप्तस्झि.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् ‘झि’ प्रत्यय’] → दा + शप् + झि [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → दा दा + झि [जुहोत्यादिभ्यः श्लुः (2.4.75) इत्यनेन शप्-इत्यस्य ‘श्लुः’ (इत्युक्ते लोपः) । श्लौ (6.1.10) इति द्वित्वम्] → द दा + झि [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → द दा + अति [अदभ्यस्तात् (7.1.4) इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य ‘अत्’ आदेशः] → दद् अति [श्नाऽभ्यस्तयोरातः (6.4.112) इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → ददति । 2) जुहोत्यादिगणस्य माङ् (माने) इत्यस्य आत्मनेपदस्य लोट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - मा + लोट् [लोट् च (3.3.162) इति लोट्] → मा + झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् ‘झ’ प्रत्यय’] → मा + शप् + झ [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → मा मा + झ [जुहोत्यादिभ्यः श्लुः (2.4.75) इत्यनेन शप्-इत्यस्य ‘श्लुः’ (इत्युक्ते लोपः) । श्लौ (6.1.10) इति द्वित्वम्] → म मा झ [भृञामित् (7.4.76) इति श्लु-परे अभ्यासस्य इकारादेशः] → मि मा अत [अदभ्यस्तात् (7.1.4) इति अभ्यस्तात् परस्य झ्-प्रत्ययस्य ‘अत्’ आदेशः] → मि मा अते [टित आत्मनेपदानां टेरे (3.4.79) इति टित्-संज्ञक-अकारस्य एकारः] → मि मा अताम् [आमेतः (3.4.90) इति एकारस्य आम्-आदेशः] → मिमताम् [श्नाऽभ्यस्तयोरातः (6.4.112) इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → मिमताम् 3) अदादिगणस्य ‘दरिद्रा’ धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - दरिद्रा + लोट् [लोट् च (3.3.162) इति लोट्] → दरिद्रा + झि [तिप्तस्झि.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् ‘झि’ प्रत्यय’] → दरिद्रा + शप् +झि [कर्तरि शप् (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः लुक्] → दरिद्रा + अति [जक्षित्यादयः षट् (6.1.6) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य अदभ्यस्तात् (7.1.4) इति ‘अत्’ आदेशः] → दरिद्रा + अतु [एरुः (3.4.86) इति इकारस्य उकारः] → दरिद्र् + अतु [श्नाऽभ्यस्तयोरातः (6.4.112) इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → दरिद्रतु

Sutrartha (English)

झकार of the प्रत्यय that follows an अभ्यस्त is converted to अत्.

Vasu English Summary

अत् is the substitute of झ after a reduplicated verbal अङ्ग (stem).

Vasu English Translation

अत् is the substitute of झ after a reduplicated verbal अङ्ग (stem). As द꣡दति, ददतु, दधति, दधतु; जक्षति, जक्षतुः जाग्रति, जाग्रतु ॥ This अत् is replaced by जुस्, as अददुः, अदधुः ॥ Here also the accent will be on the first syllable of the substitute. Thus अ꣡ति, अ꣡त, अ꣡ते, अ꣡तु, अ꣡ताम् in the subsequent sutras. The accent of the reduplicates, however, is governed by (6.1.189), (अभ्यस्तानामादिः) ॥

Kashika

अभ्यस्तादङ्गादुत्तरस्य झकारस्य अदित्ययमादेशो भवति। ददति। ददतु। दधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते। अददुः। अजगारुः। अत्राप्यदादेशे कृत प्रत्ययाद्युदात्तत्वं भवति॥

Siddhanta Kaumudi

झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-(SK2226) इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥ ।{$ {!1072 जागृ!} निद्राक्षते$} । जागर्ति । जागृतः । जाग्रति । उषविद-(SK2341) इत्याम्वा । जागरांचकार । जजागार ॥

Laghu Siddhanta Kaumudi

झस्यात्स्यात्। हुश्नुवोरिति यण्। जुह्वति॥

Balamanorama

अदभ्यस्तात् - अदभ्यस्तात् । झस्येति । ‘झोऽन्त’ इत्यतस्तदनुवृत्तेरिति भावः । जक्षतीति । ‘जक्षित्यादयः ष’ डित्यभ्यस्तसंज्ञेति भावः । लङस्तिपि ईडटोः — अजक्षीत् अजक्षदिति सिद्धवत्कृत्य आह — सिजभ्यस्तेति । अदादेशापवादो जुस् । अन्तः स्थादिरिति । तालव्याऽन्तः स्थादिरित्यर्थः । बभ्रामेति ।जक्षन्क्रीडन् रममाणः॑ इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृ धातुरृकारान्तः । सेट् । जागर्तीति । तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जागृत इति । ङित्त्वान्न गुणः । जाग्रतीति ।जक्षित्यादयः ष॑डित्यभ्यस्तसंज्ञायाम्अदभ्यस्ता॑दिति जेरदादेशः । ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि जागृथः जागृथ । जागर्मि जागृवः जागृमः । लिटिकास्यनेका॑जिति नित्यमामि प्राप्ते आह — उषविदेत्याम् वेति । जागरामिति । आमि ऋकारस्य गुणो रपरत्वं चेति भावः । आमभावे आह — जगागारेति । अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते -

Tattvabodhini

अदभ्यस्तात् - अन्तापवाद इति ।झोऽन्तः॑ इत्यस्य अदादेशोऽपवादः । अस्य त्वपवादो जुसिति ज्ञेयम् । बभ्रामेति ।जक्षन् क्रीडन् रममाण॑ इत्युपनिषदि जशादित्वस्य निर्विवादत्वात् ।नाभ्यस्ताच्छतु॑रिति निषेधेनजक्ष॑न्निति नुमश्छान्दसत्वेऽपि जशादित्वस्य तत्कल्पनाया अन्याय्यत्वात् । धातुवृत्त्यादौ जशादिपाठाच्च ।

Padamanjari

ददतीत्यादि । जक्षतीत्यादौ यत्रोपदेशानन्तरमभ्यस्तसंज्ञा, तत्राप्यवश्यं विकरणाभावः प्रतीक्ष्यः, अन्यथा नित्यत्वाच्छपि कृते तेन व्यवधानान्न स्यात्, ततश्च ददतीत्यादावपि शपः श्लावभ्यस्तसंज्ञायामदादेशो भवति । जुसादेशेन तु बाध्यत इति । तस्यानवकाशत्वात् । अत्राप्यादेशे कृते प्रत्ययाद्यौदातत्वं भवतीति । उतरत्रेति भावः । इह तु अभ्यस्तानामादिः इति स्वरो भवति ॥

Nyaas

अनात्मनेपदार्थं आरम्भः; आत्मनेपदेषूत्तरसूत्रेणैव सिद्धत्वात्। ददति इति। श्नाब्यास्तयोरातः (6.4.112) इत्याकारलोपः। ददतु इति। लोट्, एरुः (3.4.86) इत्युत्वम्। जक्षति, जाग्रतीत्यत्र जक्षित्यादयः षट् (6.1.6) इत्यभ्यस्तसंज्ञः। युक्तं जक्षित्यादिकमुदाहरणम्, ददतीत्याद्ययुक्तम्; अत्र झकारस्यात्मलाभकालसमनन्तरमेव ताददन्तरङ्गत्वादन्तादेशेन भवितव्यम्, ततः शपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, ततोऽभ्यस्तसंज्ञा तदा झकारस्य स्थानिनोऽभावादद्भादो न प्राप्नोति। न च शक्यते वक्तुम् - स्थानिवद्भावाद्भविष्यति। न ह्यत्र स्थानिवद्भावोऽस्ति; अल्विधित्वात्। नापि बहिरङ्गोऽनवकाशत्वादन्तादेशं बाधित्वाऽदादेशो भविष्यतीति युक्तं परिकल्पयितुम्। जक्षित्यादिषूपदेशावस्थायामेव लब्धाभ्यस्तसंज्ञकेषु तस्य सावकाशत्वादिति चोद्यमपाकर्तुमाह - `अन्तादेशापवादोऽयम् इति। अन्तादेशस्य सामान्येन सर्वत्र प्रसक्तस्यायमद्भावोऽपवाद आरभ्यते। न चापवादविषयमुत्सर्गोऽवगाहते। तथा चोक्तम् - पूर्वमपवादाः प्रवर्तन्ते पश्चादुत्सर्गाः, परिह्मत्यापवादविषयमुत्सर्गः प्रवर्तते (पु।प।56) इति। अत एव तर्हि जुस्भावो न स्यात्। यथैव ह्रन्तादेशस्य सामान्येन प्रवृत्तस्य विशेषोऽद्भाव आरभ्यमाणोऽपवादः, तथा जुत्भावस्यापीत्याह - जुसादेशेन तु बाध्यते इति। जुसादेशस्यानवकाशत्वादित्यदादेशो बाध्यते। `अददुः इति। लङ्, सिजभ्यस्तविधिभ्यश्च (3.4.109) इति झेर्जुस्। अजागरुः इति। जागर्तेर्या गुणप्राप्तिस्तस्याः अविचिण्णल्ङित्सु (7.3.85) इति प्रतिषेधल्लक्षणान्तरेण, जुसिच (7.3.83) इत्यनेन गुणः। अत्राप्यादेशे कृते प्रत्ययाद्युदात्तत्वं भवति इति। तेन पुनत इत्यादिकं पदं मध्योदत्तं भवतीति भावः। यदि तु विपर्ययः स्यात्, अन्तरङ्गत्वात्प्रत्ययाद्युदात्तत्वे कृते व्यञ्जनमात्रस्याद्भावो विधीयमानोऽनियतस्वरः प्रसज्येत। तत्र यदासावनुदात्तः स्यात्, तदा पुनत इत्यादेः पदस्यान्तोदात्तता प्रसज्येत; यदा स्वरितस्तदा मध्यस्वरितता, मध्योदात्तता चेष्यते। ननु च प्रत्ययाद्युदात्तत्वं प्रत्ययमात्रापेक्षयाऽन्तरङ्गम्, आदेशस्तुप्रकृतिप्रत्ययापेक्षत्वाद्बहिरङ्गः। अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलीयः (व्या।प।94) इति प्रत्ययाद्युदात्तत्वेनैव पूर्वं भवितुं युक्तम्, पश्चादादेशेनेति, तत्कथमुच्यते - अदादेशे कृते प्रत्ययाद्युदात्तत्वं भवतीति? नैतदस्ति उक्तं हि उपदेशिवद्वचनं कर्तव्यम् इति। किञ्च - आदेशो नित्यः, कृताकृतप्रसङ्गित्वात्। स हि कृते प्रत्ययाद्युदात्तत्वं पुनरनित्यम्, शब्दान्तरप्राप्त्या। तथा ह्रकृतेऽदादेशे झेरिकारस्य प्राप्नोति, कृते स्वदादेशाकारस्य शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति (व्या।प।106)। नित्यानित्ययोर्नित्यं बलीयः (व्या।प।93) इति बलीयस्त्वमस्य। तदेतन्नित्यत्वादनयोर्बलपीयसोः परत्वाददादेशेन पूर्वं भवितव्यम्, ततः प्रत्यायाद्युदात्तत्वेन। तस्मात्? सुष्ठूक्तम् - आदेसे कृते प्रत्ययाद्युदात्तत्वं भवतीति॥

Prakriyasarvasvam

अभ्यस्तात् परस्य झस्य अत् स्यात् । दरिद्रति । दरिद्रासि । दरिद्रिथ । दरिद्रामि । दरिद्रिवः । भावे यकि दरिद्रातेरार्धधातुकोक्त आल्लोपः । दरिद्र्यते । लिङि यासुटो ङित्त्वादित्त्वम् । दरिद्रियात् । दरिद्रियाताम् । दरिद्रियुः । लोटि दरिद्रातु, दरिद्रितात् । दरिद्रिताम् । दरिद्रतु । दरिद्रिहि* । आटः पित्त्वादङित्त्वम् । दरिद्राणि । दरिद्राव । लङि अदरिद्रात् । अदरिद्रिताम् । सिजभ्यस्त-’ इति जुस् । अजादित्वादाल्लोपः । अदरिद्रुः । अदरिद्राः । अदरिद्रितम् । अदरिद्राम् । अदरिद्रिव । अस्य ‘लुङ्याल्लोपो वा वाच्यः’ । लोपपक्ष इडौरौ । आदन्तत्वे ‘यमरम—’ इति सगपि । अदरिद्रत् । अदरिद्रिष्टाम्, अदरिद्रासीत् । अदरिद्रा- सिष्टाम् । चिण्यप्येवमाल्लोपविकल्पात् अदरिद्रि, अदरिद्रायि । ‘लृटि दरिद्रातेराम् वेष्यते’ । आमि दरिद्रान्चकारेत्यादि । आमभावे तु आल्लोपे भूतपूर्वत्वेनादन्तत्वाण्णल औत्वम् । ददरिद्रौ । ददरिद्रतुः । अस्य सेट्त्वात् थलि ददरिद्रिथ । ददरिद्र । ददरिद्रौ । ददरिद्रिव । भावे दरिद्राञ्चक्रे, ददरिद्रे । आशिषि आर्धधातुकत्वादाल्लोपः । दरिद्र्यात् । भावे दरिद्रिषीष्ट । दरिद्रिता । दरिद्रिष्यति । अदर्दिद्रिष्यत् । शासु अनुशिष्टौ । शास्ति । ‘शास इत्—’ । ‘शासिवसि’ इति षः । शिष्टः । अभ्यस्तत्वात् । शासति । शास्सि । शिष्ठः । शिष्ठ । शास्मि । शिष्वः । शिष्मः । कर्मणि शिष्यते । लिङि शिष्यात् । शिष्याताम् । लोटि शास्तु, शिष्टात् । शिष्टाम् । शासतु ।

Sutra Prayogas

  • चकासति (किरातार्जुनीयम्): अदभ्यस्तात् इति झेरदादेशः।

  • उस्रंसिषता (भट्टिकाव्यम्): हलवृद्धेः नेटि इति प्रतिषेधः।