71003: झोऽन्तः¶
Padacheda: झः | S | 6 | 1 |
अन्तः | S | 1 | 1 |
Sutrartha¶
प्रत्ययस्य झ्-इत्यस्य ‘अन्त्’ इति आदेशः भवति ।
झ्-इति वर्णः तिङ्प्रत्ययेषु दृश्यते - परस्मैपदस्य प्रथमपुरुषवहुवचनस्य ‘झि’ प्रत्ययः तथा आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य ‘झ’ प्रत्ययः । एतयोः उपस्थितस्य झकारस्य अन्त्-आदेशः भवति । उदाहरणे एते - 1) पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - पठ् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → पठ् + झि [तिप्तस्झि.. (3.4.78) इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → पठ् + शप् + झि [कर्तरि शप (3.1.68) इति विकरणप्रत्ययः शप्] → पठ् + अ + अन्ति [झोऽन्तः (7.1.3) इति झ्-इत्यस्य ‘अन्त्’ आदेशः] → पठन्ति [अतो गुणे (6.1.97) इति गुण-एकादेशः अकारः] 2) वन्द्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - वन्द् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → वन्द् + झ [तिप्तस्झि.. (3.4.78) इति आत्मनेपदस्य प्रथमपुरुष-बहुवचनस्य झ-प्रत्ययः] → वन्द् + शप् + झ [कर्तरि शप (3.1.68) इति विकरणप्रत्ययः शप्] → वन्द् + अ + अन्त [झोऽन्तः (7.1.3) इति झ्-इत्यस्य ‘अन्त्’ आदेशः] → वन्द् + अ + अन्ते [टित आत्मनेपदानां टेरे (3.4.79) इति टि-संज्ञकस्य अकारस्य एकारादेशः] → वन्दन्ते [अतो गुणे (6.1.97) इति गुण-एकादेशः अकारः] ज्ञातव्यम् - 1. अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् ‘प्रत्ययादीनाम्’ इत्यस्मात् केवलं ‘प्रत्यय’ इति अनुवर्तते, ‘आदि’ इति न । 2. झकारस्य प्रयोजनाभावात् चुटू (1.3.7) इत्यनेन इत्संज्ञा न भवति । 3. झेर्जुस् (3.4.108) इत्यनेन झि-प्रत्ययस्य लिङ्लकारस्य विषये विहितः जुस्-आदेश, तथा च सिजभ्यस्तविदिभ्यश्च (3.4.109) इत्यनेन अभ्यस्तात् परस्य लिङ्-लकारस्य विषये झि-प्रत्ययस्य विहितः जुस्-आदेशः - उभौ अपि वर्तमानसूत्रस्य अपवादत्वेन आगच्छतः ।
Sutrartha (English)¶
The letter झ् occurring in a प्रत्यय is converted to अन्त्.
Vasu English Summary¶
अन्त् is substituted for झ of an affix.
Vasu English Translation¶
अन्त् is substituted for झ of an affix. The word प्रत्यय is understood here, but not so the word आदिः ॥ Thus झि becomes अन्ति and झ becomes अन्त (3.4.78). As कुर्वन्ति, सुन्वन्ति and चिन्वन्ति, so also शयान्तै, the लेट् of शीङ् ॥ Thus शी + लेट् = शी + शप् + आट् + झ (3.4.54) = शी + शप् + आ + झे (3.4.79) = शी + शप् + आ + झै (3.4.96) = शी + शप् + आ + अन्तै (7.1.3) = शी + आ + अन्तै = शयान्तै (after guna): as अद्य श्वो विजगिष्यमाणाः पतिभिः सह शयान्तै ॥ So also in the Unadi affix झच् (Unadi III.126): as जृ + झच् = जरन्तः, वेशन्तः ॥ This substitution does not take place when झ is not part of an affix: as उञ्झिता, उञ्झितुम्, उञ्झितव्यम् ॥ Here also the accent falls on the substitute, according as it is चित् or otherwise. Thus the substitute अन्त of झ is first-acute by the rule (3.1.3); but the substitute अन्त of झच् is final acute because of the indicatory च (6.1.763) ॥
Bhashya¶
झोऽन्तः ॥ 8 ॥ झादेशे धात्वन्तप्रतिषेधः ॥ झादेशे धात्वन्तस्य प्रतिषेधो वक्तव्यः । उज्झिता । उज्झितुमिति ॥ प्रत्ययाधिकारात्सिद्धम् ॥ (प्रत्ययाधिकारात्सिद्धमेतत्(1) ॥ कथम् ? ॥) प्रत्ययग्रहणं प्रकृतमनुवर्तते ॥ क्व प्रकृतम् ? ॥ आयनेयीनीयियः फढखछघां प्रत्ययादीनामिति ॥ प्रत्ययाधिकारात्सिद्धमिति चेदनादेरादेशवचनम् ॥ प्रत्ययाधिकारात्सिद्धमिति चेदनादेरादेशो वक्तव्यः । अपि नः श्वो (वा(2)) विजनिष्यमाणाः पतिभिः सह शयान्तै ॥ एवं तर्हि प्रत्ययग्रहणमनुवर्तते आदिग्रहणं निवृत्तम् ॥ कथं पुनः समासनिर्दिष्टानामेकदेशोऽनुवर्तते एकदेशो वा निवर्तते ॥ असमासनिर्देशात्सिद्धम् ॥ (असमासनिर्देशात्सिद्धमेतत्(1) ।) असमासनिर्देशः करिष्यते - प्रत्ययस्यादीनामिति ॥ स तर्ह्यसमासनिर्देशः कर्तव्यः ? ॥ न कर्तव्यः । क्रियते न्यास एव ॥ कथम् ? ॥ अविभक्तिको निर्देशः, प्रत्यय आदीनामिति ॥ तत्र शयान्ता इत्यनकारान्तत्वाद्ङ्गस्याद्भावप्रततिषेधः ॥ तत्रैतस्मिन्प्रत्ययग्रहणेऽनुवर्तमाने आदिग्रहणे निवृत्तेशयान्तै इत्यनकारान्तत्वादङ्गस्याऽद्भावः प्राप्नोति तस्य प्रतिषेधो वक्तव्यः ॥ सिद्धमनानन्तर्यादनकारान्तेनाऽद्भावनिवृत्तिः ॥ सिद्धमेतत् ॥ कथम् ? ॥ (ठअनानन्तर्यात्) । अनानन्तर्यादनकारान्तेनाद्भावो न भविष्यति । कथं कृत्वा चोदितं कथं कृत्वा परिभारः ॥ अनकारान्तग्रहणं प्रत्ययविशेषणमिति कृत्वा चोदितम्, झकारविशेषणमिति कृत्वा परिहारः ॥ यद्यनकारान्तग्रहणं झकारविशेषणं, शेरते अत्र न प्राप्नोति ॥ तत्र रुटि सन्नियोगवचनात्सिद्धम् ॥ तत्र रुटि सन्नियोगः करिष्यते ॥ क एष यत्नश्चोद्यते सन्नियोगो नाम ? ॥ चकारः कर्तव्यः, रुट्च ॥ किं च ? ॥ यच्चान्यत्प्राप्नोति ॥ किं चान्यत्प्राप्नोति ? ॥ अद्भावः ॥ स तर्हि चकारः कर्तव्यः ? ॥ न कर्तव्यः । योगविभागः करिष्यते - शीङः । शीङ उत्तरस्य झस्याद्भावो भवति । ततो-रुट् । रुट् च भवति शीङ इति ॥ एवमपि पर्यायः प्रसज्येत ॥ एवं तर्हि अच्शब्दस्य रुटं वक्ष्यामि ॥ तदच्छब्दग्रहणं कर्तव्यम् ? ॥ न कर्तव्यम् । प्रकृतमनुवर्तते ? ॥ क्व प्रकृतम् ? ॥ अदभ्यस्तादिति ॥ तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ! ॥ शीङ इत्येषा पञ्ञ्चमी अदिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति, तस्मादित्युत्तरस्येति ॥
Kashika¶
प्रत्ययग्रहणमनुवर्तते, आदिग्रहणं निवृत्तम्। प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति। कुर्वन्ति। सुन्वन्ति। चिन्वन्ति। अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै (वासि०गृ० १३.२४)। जृविशिभ्यां झच् (प०उ० ३.१२६) — जरन्तः। वेशन्तः। प्रत्ययस्येत्येव — उज्झिता। उज्झितुम्। उज्झितव्यम्। अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्तत्वं भवति। तथा च झचश्चित्करणमर्थवद् भवति॥
Siddhanta Kaumudi¶
प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे (SK191) । भवन्ति । भवसि । भवथः । भवथ ॥
Laghu Siddhanta Kaumudi¶
प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥
Balamanorama¶
झोऽन्तः - झः अन्त इति च्छेदः । ‘झ’ इति षष्ठन्तम् । आदेशे तकारादकार उच्चारणार्थः ।आयनेयी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते, न त्वादिग्रहणमपि, अस्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमवयवषष्ठन्तमाश्रीयते । तदाह — प्रत्ययावयवस्येति । झस्य । झकारस्येत्यर्थः । अन्तादेशः स्यादिति । ‘अन्त्’ इत्ययमादेशः स्यादित्यर्थः । प्रत्ययावयवस्येति किम् । उज्झिता । अत्र धात्ववयवस्य झकारस्य न भवति । आदिग्रहणानुवृत्तौ तु ‘शयान्तै’ इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाऽभावादिति भाष्ये स्पष्टम् । एवं च ‘भव-झी’ त्यत्र झकारस्य अन्त् इत्यादेशे, भव-अन्तीति स्थिते, ‘अतो गुण’ इति द्वयोरकारयोः सवर्णदीर्गापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाऽकारोच्चारणं तु लुगविकरणे द्विषन्तीत्यादौ अकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणेऽवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणेऽवादेशे रुत्वविसर्गयोश्च रूपम् । ‘न विभक्तौ तुस्मा’ इति सस्य नेत्त्वम् । भवथेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेशे रूपम् ।
Tattvabodhini¶
झोऽन्तः - तकारादकार उच्चारणार्थः ।आयनेयीनी॑ति सूत्रात्प्रत्ययग्रहणमनुवर्तते न त्वादिग्रहम्, एकदेशे स्वरितत्वप्रतिज्ञानात् । तस्याप्यनुवृत्तौ तुशयान्तै॑ इति न सिध्येत् । शीङोलेटोऽरडाटौ॑ इत्यन्तरङ्गत्वादन्तादेशात्प्रागाटि कृते झस्यादित्वाऽभावात् । तदेतदाह — प्रत्ययावयवस्येति । प्राचा तु प्रत्ययादेर्झस्येत्युक्तं, तदनेन प्रत्युक्तम् । इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तं, तदापाततः, अन्यत्राऽप्रवृत्तस्यादिग्रहणस्य निवृत्तत्वाऽयोगात् ।निवृत्त॑मित्यस्याननुवृत्तमित्यर्थ इति वा कथंचिद्व्याख्येयम् । यत्तु प्रत्ययादेरिति ग्रन्थसमर्थनाय व्याचक्षते — आडागमे कृते तत्सहितोऽपि प्रत्ययोऽस्तु नाम, न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति । तन्न । अवयवविनिर्मुकत्स्यावयवित्वाऽयोगात् । अन्यथा भूयास्तामित्यादौ तामादीनामिडागमापत्तेः । नन्वह्गात्परस्य प्रत्ययस्येट्, यासुडन्तं तु नाङ्गमिति चेत् ।आगमविनिर्मुक्तस्यापि प्रत्ययत्व॑मिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणबलेन यासुडन्तस्याप्यङ्गताया दुर्वारत्वात् । किं च लविषीयेत्यत्र विशेषविहितत्वात्सीयुटि कृते लिङः स्थाने इट्, तस्यागमेनाऽऽदित्वविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्वोतीत्याशङ्क्य प्रत्ययस्वरे कर्तव्ये आगमा अविद्यमानवदित्यतिदेशः#आद्युदात्तश्चे॑ति सूत्रे भाष्यादौ स्वीकृतः । न चैतत्कैवलस्यापि प्रत्ययत्वे युज्यते । न च तन्मते आगमसहितस्यापि प्रत्ययत्वादिकारस्याप्युदात्तः स्यात्,तद्वारणायप्रत्ययस्वरे कर्तव्ये॑ इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाऽऽकरग्रन्थविरोध इति वाच्यम्,आगमा अनुदात्ताः॑ इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते आद्युदात्तत्वस्य तत्राऽप्रवृत्तेरिति दिक् । झस्येति । झकारादकार उच्चारणार्थः । अतो गुणे इति ।अतो दीर्घो यञी॑ति तु न प्रवर्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः ।
Padamanjari¶
आदिग्रहणं निवृतमिति । तदनुवृतौ हि शयान्तै इत्यत्र शीङे लेटि लेटोऽडाटौ इति लावस्थायामेव प्राप्ते आटि सति झकारस्यानादित्वान्न स्यात् । कथं पुनः समासनिर्द्दिष्टानामेकदेशोऽनवर्तते नैष दोषः, अनाश्रितार्थकं शब्दमात्रं स्वरितत्ववशादनुवर्तते - इति पक्षे यस्यैव स्वरितत्वं प्रतिज्ञातं तस्यैवानुवृत्तिः । अर्थाधिकारपक्षे तु समासार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा, न वा । यद्वा - प्रत्ययग्रहणं पूर्वसूत्रे पृथक् पदं लुप्तविभक्तिकम्, तेन तस्यैवानुवृत्तिर्भविष्यति । आदेशे त्वकार उच्चारणार्थः तेन पचन्तीत्यादौ श्रवणं न भवति ॥
Nyaas¶
प्रत्ययग्रहणमनुवर्तते इति। अनन्तरसूत्रात्। यद्येवम्, एकयोगनिर्दिष्टत्वादादिग्रहणमप्यनुवर्तेत, ततश्च शयान्तै - इत्यत्र न स्यात्, चकारस्यादित्वाभावात्? इत्यत आह - आदिग्रहणं निवृत्तम् इति। एवं मन्यते - स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः, तच्च स्वरितत्वं प्रतिज्ञाधर्मः - प्रतिज्ञास्वरिताः पाणिनीयाः इति - यत्रैव तैः स्वरितत्वं प्रतिज्ञायते तत्रैव भवति, नान्यत्रेति। तेनैकयोगनिर्द्दिष्टानामप्येकतरस्यानुवृत्तिर्न विरुध्यते। इह च प्रत्ययस्यैव स्वरितत्वं प्रतिज्ञायते, नादिग्रहणस्य। तेन सत्यप्येकयोगनिर्द्दिष्टत्वे प्रत्ययग्रहणमनुवर्तते। आदिग्रहणं निवृत्तम् इति। अन्त इत्ययमादेशो भवति इति। अकारसहित एवादेशः करणीयः। अकारः - तकारेत्संज्ञा मा भूदित्येवमर्थः। स च जरन्तः, वेशन्त इत्यत्र। कुर्वन्तीत्यादौ न विभक्तौ तुस्माः (1.3.4) इति प्रतिषेधादेवेत्संज्ञा न भवति। अथ तु उणादयो बहुलम् (3.3.1) इति वचनाज्जरन्तः, वेशन्त इत्यादौ न भवति? तथा च सत्यकार उच्चारणार्थः। न विभक्तौ तुस्माः (1.3.4) इत्यस्यानित्यत्वज्ञापकार्थं वाऽकारोच्चारणम्। तेन किमोऽत् (5.3.12) इत्यादीनां तकारेत्संज्ञा भवति। कुर्वन्ति इति। अत उत्सार्वधातुके (6.4.110) इत्युत्त्वम्। शयान्तै इति। शीङः लिङर्थे लेट् (3.4.7) , लेटोऽडाटौ (3.4.94) इत्याट्, टेरेत्त्वम्, एत ऐ (3.4.93) इत्यनुवर्तमाने वैतोऽयन्त्र (3.4.96) इत्यैत्त्वम्। उज्झिता इति। उज्झ उत्सर्गे (धातुपाठः-1304) तृच्। ऋदुशनस् (7.1.94) इत्यादिनानङ्, नोपधायाः (6.4.7) सर्वनामस्थाने च (6.4.8) इति दीर्घः। उज्झितुम् इति। तुमुन्। उज्झितव्यम् इति। तव्यः। अस्मिन्नपि इत्यादि। ननु चान्तरङ्गत्वात्? प्रत्ययाद्युदात्तत्वेन प्राग्भवितव्यम्, पश्चादादेशेन? नैवम्; अन्तादेशस्याप्यन्तरङ्गत्वात्। अन्तरङ्गत्वं तु तस्यायन्नादिवद्वेदितव्यम्। उभयोरन्तरङ्गत्वात्? पूर्वमन्तादेशः, पश्चात्? प्रत्ययाद्युदात्तत्वम्। अत्रैव ज्ञापकमाह - तथा च इत्यादि। एतच्च **घच्छौ च** (4.4.117) इति घचश्चित्करणमनर्थवद्भवति - इत्येतद्वाख्यानेन व्याख्यातमिति। प्रत्ययाद्युदात्तत्वात्? पूर्वमन्तादेशस्य भावे सति द्विषन्तीत्यत्र मध्योदात्तत्वम्; अन्यथाऽन्तोदात्तता स्यात्। सा चानिष्टेति पूर्वमन्तादेशः क्रियते॥
Prakriyasarvasvam¶
प्रत्ययांशस्य झस्यान्तः स्यात् । अन्त्योऽकार उक्त्यर्थः । भ् अन्ति शब्गुणौ । भव अन्ति । ‘अतो गुणे’ । भवन्ति । मध्यमपुरुषे तु सिप्-भवसि । थस्-भवथः । थ-भवथ । उत्तमपुरुषे मिप्-भव मि ।