71002: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्

Padacheda: आयन्-एय्-ईन्-ईय्-इयः | S | 1 | 3 |

फ-ढ-ख-छ-घाम् | S | 6 | 3 |

प्रत्ययादीनाम् | S | 6 | 3 |

Sutrartha

प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति ।

अस्मिन् सूत्रे पञ्च-स्थानिनः पञ्च-आदेशाश्च प्रोक्ताः सन्ति । यथासङ्ख्यमनुदेशः समानाम् (1.3.10) इत्यनेन एते आदेशाः यथासङ्ख्यम् भवन्ति - फ् → आयन् । ढ् → एय् । ख् → ईन् । छ् → ईय् । घ् → इय् । एते आदेशाः प्रत्ययस्य आदिवर्णस्य भवन्तीति स्मर्तव्यम् । उदाहरणानि एतानि - 1) फकारस्य आयन्-आदेशः नड + फक् [तस्यापत्यम् (4.1.92) अस्मिन् अर्थे नडादिभ्यः फक् (4.1.99) इति फक्-प्रत्ययः] → नड + आयन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति फ्-इत्यस्य आयन्-आदेशः] → नाड + आयन [किति च (7.2.117) इति आदिवृद्धिः] → नाड् + आयन [आकारे परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च (6.4.148) इति अङ्गस्य अकारस्य लोपः] → नाडायन 2) ढकारस्य एय्-आदेशः विनता + ढक् [तस्यापत्यम् (4.1.92) अस्मिन् अर्थे स्त्रीभ्यो ढक् (4.1.120) इति ढक्-प्रत्ययः] → विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → वैनता एय [किति च (7.2.117) इति आदिवृद्धिः] → वैनत् + एय [एकारे परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च (6.4.148) इति अङ्गस्य आकारस्य लोपः] → वैनतेय 3) खकारस्य ईन्-आदेशः कुल + ख [तस्यापत्यम् (4.1.92) अस्मिन् अर्थे कुल-शब्दात् कुलात्खः (4.1.139) इति ख-प्रत्ययः] → कुल + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति खकारस्य ईन्-आदेशः] → कुल् + ईन [ईकारे परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च (6.4.148) इति अङ्गस्य अकारस्य लोपः] → कुलीन 4) छकारस्य ईय्-आदेशः शाला + छ वृद्धात् छः (4.2.114) इत्यनेन वृद्ध-संज्ञकात् भिन्नेषु अर्थेषु छ-प्रत्ययः ।] → शाला + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति छकारस्य ईय्-आदेशः] → शाल् + ईय [ईकारे परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च (6.4.148) इति अङ्गस्य आकारस्य लोपः] → शालीय 5) घकारस्य इय्-आदेशः क्षत्र + घ क्षत्राद् घः (4.1.138) इत्यनेन तस्यापत्यम् (4.1.92) अस्मिन् अर्थे क्षत्र-शब्दात् घ-प्रत्ययः।] → क्षत्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति घकारस्य इय्-आदेशः] → क्षत् र् इय [इकारे परे यचि भम् (1.4.18) इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च (6.4.148) इति अङ्गस्य अकारस्य लोपः] → क्षत्रिय ज्ञातव्यम् - 1. प्रत्यययोः विद्यमानयोः ढकार/छकारयोः चुटू (1.3.7) इत्यनेन एतयोः इत्संज्ञा न भवति, अपितु वर्तमानसूत्रेण तयोः आदेशः विधीयते । 2. खकारघकारयोः अस्य सूत्रस्य विषये प्राप्तानि उदाहरणानि तद्धितप्रकरणे एव दृश्यन्ते । तत्र लशक्वतद्धिते (1.3.8) इत्यस्य प्रसक्तिः नैव विद्यते, अतः एतयोः इत्संज्ञा नैव भवितुमर्हति। कृत्-प्रत्ययेषु विद्यमानौ खकारघकारौ तु लशक्वतद्धिते (1.3.8) इत्यनेन इत्संज्ञकौ स्तः, अतः तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ख, खश्, घिनुण् एतेषु प्रत्ययेषु वर्तमानसूत्रेण आदेशः न क्रियते ।

Sutrartha (English)

The letters फ्-ढ्-ख्-छ्-घ् occurring at the beginning of a प्रत्यय are converted respectively to आयन्-एय्-ईन्-ईय् and इय्

Vasu English Summary

आयन् for 1. फ् 2. एय् for ढ् 3. ईन् for ख् 4. ईय् for छ् and इय् for घ are substituted when these consonants stand in the beginning of an affix.

Vasu English Translation

आयन् for 1. फ् 2. एय् for ढ् 3. ईन् for ख् 4. ईय् for छ् and इय् for घ are substituted when these consonants stand in the beginning of an affix. Thus फक् (4.1.99) = आयन, as नड + फक् = नाडायनः, चारायणः ॥ ढक् (4.1.120) = एय as सौपर्णेयः, वैनतेयः ॥ ख (4.1.139) ईन, as आढ्यकुलीनः, श्रोत्रियकुलीनः ॥ छ (4.2.114) = ईय, as गार्गीयः, वात्सीयः ॥ घ (4.1.138) = इय, as क्षत्रियः ॥

Why do we say ‘of an affix’? Observe फक्कति, ढौकते, खनति, छिनति and घूर्णते, where these consonants are in the beginning of a root. Why do we say ‘in the beginning’? Observe उरुदघ्नम् जानुदघ्नम्, where घ is in the middle of the affix; and remains consequently unchanged.

These आयन &c, substitutions should be understood to have taken place at the very time the affixes फक् &c, are taught, and these substitutions being made, the rule of accent, which makes an affix acute on the first syllable, applies. Thus ख is not acute, but ई of ईन् substituted for it. Similarly in (4.4.117), the affix taught is घच् with an indicatory च्, showing that the final of the affix इय will be acute (6.1.163), and not of घ, for घ would have been acute by the general rule affix.

In शमेर्ढः (Unadi 1.99), शमेः ख (Unadi I: 102), the ढ and ख remain unchanged, and we have शाण्डः, and शंखः ॥ This is explained on the maxim of उणादयो बहुलम् (3.3.1). In the sutra ऋतेरीयङ् (3.1.29), the affix ईयङ् has been taught and not छङ्, this shows that the rule of substitution herein taught does not apply to the affixes to be added to the verbal roots. Thus एजेः खश् (3.2.28), पदरुजविशस्पृशो घञ् (3.3.16). Here the ख and घ are not be replaced by ईन and इय ॥ In fact, they cannot be regarded as affixes, but only as इत् or servile letters. By (1.3.8), the gutturals are इत् except in Taddhita : therefore, the substitutions take place in Taddhita affixes, where the ख and घ are not इत् ॥

The final म् in आयन् and इन् should not, however, be considered as servile (इत्) though they be final consonants. This we infer from the sutra प्राचामवृद्धात् फिन् बहुलम् ॥ Here the न् of फिन् is indicatory, showing the position of the accent. But फ is replaced by आयन्, so if the न् of आयन् were also to be indicatory (इत्) there would have been no necessity of adding म् in फिन् ॥ Hence the fact of this न् in फिन् shows that the न् in आयन् and इन् are not इत् ॥

Bhashya

आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ॥ आयनादिषु(1) उपदेशिवद्वचनं स्वरसिध्द्यर्थम् ॥ आयन्नादिषूपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामायन्नादयो भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? ॥ स्वरसिध्द्यर्थम् । उपदेशावस्थायामायन्नादिषु इष्टः स्वरो यथा स्यादिति । शिलेयम् । तैत्तिरीयः । अक्रियमाणे ह्युपदेशिवद्भावे प्रत्ययसंज्ञासन्नियोगेनाद्युदात्तत्वे कृते आन्तर्यत आदेशा अस्वरकाणामस्वरकाः स्युः ॥ न वा क्व चिच्चित्करणात् (उपदेशिवद्वचनानर्थक्यम्(2)) ॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ क्व चिच्चित्करणात् । यदयं क्व चिद्धादींश्चितः करोति, अग्राहद्यद्धच्छौ च तज्ज्ञापयत्याचार्यः, - उपदेशावस्थायामायन्नादयो भवन्तीति(1) ॥ कथं कृत्वा ज्ञापकम् ? ॥ चित्करणे एतत्प्रयोजनं चित इत्यन्तोदात्तत्वं यथा स्यादिति । यदि चोपदेशावस्थायामायन्नादयो भवन्ति ततश्चित्करणमर्थवद्भवति ॥ ॥ तत्रोणादिप्रतिषेधः ॥ तत्रोणादीनां प्रतिषेधो वक्तव्यः । शङ्खः षण्ढ इति ॥ धातोर्वेयङ्वचनात् ॥ अथ वा यदयमृतेरीयङिति धातोरीयङं शास्ति तज्ज्ञापयत्याचार्यो न धातुप्रत्ययानामायन्नादयो भवन्तीति । यदि हि स्युः ऋतेश्छङित्येव ब्रूयात् । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति न च ऋतेश्छङा सिध्यति । छङि सति वलादिलक्षण इट् प्रसज्येत, इटि कृतेऽनादित्वादादेशो न स्यात् । इदमिह संप्रधार्यम् । इट क्रियतामादेश इति; किमत्र कर्तव्यम् ? । परत्वादिडागमः ॥ नित्य आदेशः । कृतेऽपीटि प्राप्नोत्यकृतेऽपि ॥ अनित्य आदेशो नहि कृत इटि प्राप्नोति ॥ किं कारणम् ? ॥ अनादित्वात् ॥ अन्तरङ्गस्तर्द्यादेशः ॥ काऽन्तरङ्गता ? इदानीमेवह्युक्तमायन्नादिषूपदेशिवद्वचनं स्वरसिध्द्यर्थमिति । तदेतदृतेरीयङचनं ज्ञापकमेव न धातुप्रत्ययानामायन्नादयो भवन्तीति ॥ ॥ प्रातिपदिकविज्ञानाच्च पाणिनेः सिद्धम् ॥ प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेराचार्यस्य सिद्धम् ॥ उणादयोऽव्युत्पन्नानि प्रातिपदिकानि ॥ (आयनेयीनीयियः) ॥

Kashika

आयन् एय् ईन् ईय् इय् इत्येत आदेशा भवन्ति यथासंख्यं फ ढ ख छ घ इत्येतेषां प्रत्ययादीनाम्। फ इत्येतस्यायनादेशो भवति। नडादिभ्यः फक् (४.१.९९) — नाडायनः। चारायणः। ढस्य एयादेशो भवति। स्त्रीभ्यो ढक्**(४.१.१२०) — सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति। **कुलात् खः (४.१.१३९) — आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्येयादेशो भवति। वृद्धाच्छः**(४.२.११४) — गार्गीयः। वात्सीयः। घ इत्येतस्येयादेशो भवति। **क्षत्राद् घः (४.१.१३८) — क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणं किम्? ऊरुदघ्नम्। जानुदघ्नम्। एत आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति। तथा च घच्छौ च**(४.४.११७) इति घचश्चित्करणमर्थवद् भवति। शङ्खः, षण्ढः इत्येवमादीनां हि **उणादयो बहुलम् (३.३.१) इति बहुलवचनादादेशा न भवन्ति। **ऋतेरीयङ्**(३.१.२९) इति वा वचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। **एजेःखश्**(३.२.२८), **पदरुजविशस्पृशो घञ्**(३.३.१६) इत्येवमादिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदितीत्संज्ञां बाधितुं नोत्सहते। आयन्नीनोर्नकारस्येत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि संभवति॥

Siddhanta Kaumudi

प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा (SK498) इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥

Laghu Siddhanta Kaumudi

प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥

Balamanorama

आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् - आयनेयीनीयियः । आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्ख्यपरिभाषया क्रमेणान्वयः । तदाह — प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः । यद्यपीहटाङ्ङीपो॑रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह — तद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह — वक्ष्यमाणो ङीषिति ।षिद्गौरादिभ्यश्चे॑त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह — षित्त्वसामथ्र्यादिति । ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः । गाग्र्यायणीति । गर्गस्यापत्यं स्त्रीति विग्रहः । गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः,यस्येति चे॑ति यकारादकारस्य लोपः,हलस्तद्धितस्ये॑ति तु न भवति, ईतीत्यनुवृत्तेः ।आपत्यस्य चे॑त्यपि न, अनातीति निषेधात् । षित्त्वान्ङीष् । णत्वमिति भावः ।

Tattvabodhini

आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् - आयने । आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामर्थ्यात् । फकारदिष्बकार उच्चारणार्थः । तेन ढ्रक्फिञादीनामादेशः सिध्यति । आदिग्रहणं किम् । ऊरुदन्घं मित्यादौ मा भूत् । प्रत्ययेति किम् । धीतोरादीनां मा भूत् । फक्कति । ढौकते । छादयति । घूर्णते । घञादिषु तुचजोः कुघिण्ण्यतो॑रित्यादिनिदेर्शेनेत्संज्ञया भाव्यमित्यादेशाभावः ।शमेर्ढः — शण्ढ॑इत्येवमादिनामेते आदेशा न भवन्ति,उणादयो बहुल॑मिति बहुलवचनादिति दिक् । क्रमादिति । फ[स्य] — आयन् । ढ[स्य] — एय् । ख[स्य] — ईन् । छ[स्य] — ईय् । घ[स्य] — इय् — इत्यर्थः । स्त्रियामेव ष्फप्रत्ययविधानादत्र ङीष्न स्यादित्याशङ्क्याह — षित्त्वसामथ्र्यादितिष । एकमेव स्त्रीत्वमुभाभ्यामुच्यत इति भावः । सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते बाधकबाधनार्थम् । तेनआवटआच्चे॑ति वक्ष्यमाणं परमपि चापं बाधित्वा प्राचां मते आवटशब्दादपि ष्फ एव भवति । चाब्विधेस्तूदीचां मते सावकाशत्वात् । आवटआयनी । एवं षाद्यञश्चाब्विषयेऽपि प्राचां ष्फ एव, शार्कराक्ष्यायणीति यथा ।

Padamanjari

एफकारादिष्वकार उञ्चारणार्थः । व्यञ्जनमात्रं स्थानि अन्ते फढखच्छघाम् इत्यनच्कनिर्देशात् । एवं च निरनुवन्धकपरिभाषा न प्रवर्तते । आढ।ल्कुलीन इति । अपूर्वपदात् इति वचनात् कुलात्खः इत्यनेन सपूर्वपदादपि खो भवति । फक्क नीचैर्गतौ ढोकृ तौकृ गत्यर्थौ । इह प्रत्ययाद्यौदातत्वं संज्ञासन्नियोगेन विधानादन्तरङ्गम् । एते त्वायन्नादयोऽङ्गाधिकारे विधानाद्बहिरङ्गाः, ततश्च यत्र स्वरार्थोऽनुबन्धो नास्ति - शिलाया ढः , एवृद्धच्छः इत्यादौ तत्राद्यौदातत्वे कृते पश्चाद्भवन्त एते आदेशा अस्वरकस्याच उच्चारणसम्भवादनियतस्वराः स्युः इत्याङ्क्याह - आयन्नादय इत्यादि । अयमभिप्रायः - प्रत्ययादीनां फकारादीनामङ्गसम्बन्धाव्यभिचारात्प्रयोजनाभावादिह अङ्गस्य इति न सम्बध्यते, तेन एतेऽप्यन्तरङ्गा, तत्र परत्वादेतेषु कृतेषु पश्चादाद्यौदातत्वमिति । अत्रैय ज्ञापकमाह - तथा चेति । यदि प्रत्ययस्वरे कृते आयन्नादय आदेशाः स्युः, ततो घशब्दाकारस्योदातत्वे कृते घकारस्य हलः स्रंसनधर्मिणः स्रंसनधमिण्यनुदात आदेशे कृतेऽन्तोदातत्वं सिद्धमिति चित्करणमनर्थकं स्यादिति भावः । इयङिति । वावचनं ज्ञापकमिति । यदि धातुप्रत्ययानामप्येते आदेशाः स्युः ऋतेश्च्छङ् इत्येष ब्रूयात् । न च च्छङ् सिति वलादिलक्षणे इटि कृते अनादित्वादियादेशो न स्यादिति वाच्यम्, इदानीमेव ह्युक्तम् - अन्तरङ्गा आदेशा इति । अपर आह - यदि धातुप्रत्ययेष्वेतज्ज्ञापकं प्रातिपदिकप्रत्ययेष्वपि शख्यं वक्तुअं यदयमीयसुनं शास्ति, तज्ज्ञापयत्याचार्यः न प्रातिपदिकप्रत्ययानामिमे आदेशा इति । यदि स्युस्तर्हि च्छसुनमेव विदध्यात् । एतावन्तश्च प्रत्ययाः - धातुप्रत्ययाः, प्रतिपदिकप्रत्ययाश्चेति, उच्यन्ते चादेशाः ते वचनात्सर्वत्रैव स्युरिति । इत्संज्ञया भवितव्यमिति । न च वचनसामर्थ्यादित्संज्ञाया बाधनमित्याहतिद्धितेषु हीति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं तु प्राचामवृद्धात्फिन् बहुलम् इति फिनो नित्करणादित्संज्ञाया अभाव इति । न च फेश्च्छ च इत्यत्र फिनः, फिञश्च सामान्यग्रहणार्थं नित्करणम् , वृद्धादित्यधिकाराद्धि फिञ एव तत्र ग्रहणम्, न फिनः ॥

Nyaas

फादयोऽपीह शास्त्रे लाघवार्थमुपदिष्टाः, ततस्तेषामायन्नादय आदेश विधीयन्ते। तेन च विधीयमानाः फकारादेर्हल्मात्रस्य भवन्तीति वेदितव्यम्। कुत एतत्? अन्ते घामित्यनच्कनिर्द्देशात्; इतरथा हि घानामित्येवं ब्राऊयात्। अन्यत्र त्वागन्तुकोऽकार उच्चारणार्थ एव। अत एव प्रत्ययादौ वर्तमानस्य फादेव्र्यञ्जनमात्रस्य स्थानित्वेनोपादानान्निरनुबन्धकपरिभाषात्र (व्या।प।53) नोपतिष्ठते; सर्वत्र हि फादयो निरनुबन्धकाः। यत्र चोभयं सम्भवति तत्रैवास्या उपस्थानम्, नाडायनः इति। नडादिभ्यः फक् (4.1.99) अपत्यार्थे फक्प्रत्ययः। उत्तरेष्वप्युदाहरणेष्वीयादेशोदाहरणादन्यत्रापत्यार्थे वेदितव्यः। सौपर्येणः, वैनतेयः इति। सुपर्णाविनताभ्यां ढक्। आठकुलीनः इति। अपूर्वपदादन्यतरस्यां यङ्ढकञौ (4.1.140) इत्यत्रापूर्वपदादिति वचनात्? कुलात्खः (4.1.139) इत्यनेन सपूर्वपदादपि खो भवति। गार्गीयः, वात्सीयः इति। गाम्र्यवात्स्यशब्दाभ्यां यञन्ताभ्यां तस्येदम् इत्यर्थविवक्षायां छः, यस्येति च (6.4.148) इत्यकारालोपः, आपत्यस्य च तद्धितेऽनाति (6.4.151) इति यकारलाह्_> फक्कति, ढौकते इति। फक्क नीचैर्गतौ (धातुपाठः-116), ढोकृ गतौ (धातुपाठः-98), खनु अवदारणे (धातुपाठः-878), छिदिर्? द्वैधीकरणे (धातुपाठः-1440), घूण घूर्ण भ्रमणे`[`घुण - धातुपाठः-] (धातुपाठः-437,438)-इत्येतेषां रूपाणि। ढौकतिधूर्णत्योरनुदात्तेत्त्वादात्मनेपदम्। ऊरुदध्नम्, जानुदध्नम् इति। ऊरू प्रमाणमस्य प्रमाणे द्वयसच् (5.2.37) इत्यादिना दध्नच्। इहैत आयन्नादयोऽह्गाधिकारे विधीयमानाः प्रकृतिप्रत्ययावपेक्ष्य भवतीति बहिरङ्गाः, प्रत्ययाद्युदात्तत्वं तु प्रकृत्यनपेक्षत्वात्? प्रत्ययमात्रमाश्रित्य भवतीत्यन्तरङ्गम्; ततो बहिरङ्गा यावदायन्नादयो न भवन्ति तावदेव प्रत्ययाद्युदात्तत्वेन भवितव्यम्, तस्मिन्? कृते सत्यादेशा भवन्तो यत्र स्वरार्थोऽनुबन्धो न विधीयते शिलाया ढः (5.3.102) , वृद्धाच्छः (4.2.114) इत्यादौ तत्रानियतस्वराः प्राप्नुदन्तीत्यस्य चोद्यस्य निरासायाह - इहैत आयन्नादयः इत्यादि। अयमभिप्रायः-आयन्नादयोऽप्यन्तरङ्गा एव। यदि हि अङ्गस्य (6.4.1) इत्यत्राभिसम्बध्यते तदा स्यात्? तेषां प्रकृतिप्रत्ययापेक्षया बहिरङ्गत्वम्। न चात्र तदभिसम्बध्यते; प्रयोजना भावात्। तथा हि - अङ्गस्य निमित्तं ये प्रत्ययास्तदादीनां फादीनामायन्नादयो यथा स्युः, अन्येषां मा भूवन्नित्येतत्? प्रयोजनम्। एतच्च विनाप्यङ्गाधिकारं सामर्थ्यादेव लभ्यते। न हि फादीनां मद्ये सोऽस्ति प्रत्ययो योऽङ्गस्य निमित्त न भवति। तस्मात्? प्रयोजनाभावादङ्गस्येत्येतन्नाभिसम्बध्यते। तेन स्थानिमात्रमेवादेशा अपेक्षन्ते, न प्रकृतिमिति तेऽप्यन्तरङ्गा एव। ततश्च परत्वात्? प्रत्ययोपदेशकाले तैरेव तावद्भवितव्यम्, ततश्च प्रत्ययाद्युदात्तत्वेनेति प्रत्ययोपदेशकाल एवायन्नदयो भवन्तीति तेषु कृतेषु प्रत्ययाद्युदात्तत्वं भवतीति। अत्र ज्ञापकमप्याह - तथा च इत्यादि। एवञ्चेत्यर्थः। घचश्चित्कारणस्यैतत्? प्रयोजनम् - चितः (6.1.157) इत्यन्तोदात्तत्वं यथा स्यात्। यदि च प्रत्ययोपदेशावस्थायामेवायन्नादयो भवन्ति, एवं सति घचश्चित्करणमर्थवद्भवति; नान्यथा। अन्यथा हि यद्युपदेशादस्थाया उत्तरकालमेते स्युस्ततो यत्रैवासति चित्करण उदात्तत्वं भवति, धकाराकारे सत्यपि चित्करणे तत्रैव तेन भवितव्यमिति चित्करणमनर्थकं स्यात्। तस्माच्चित्करणादवसीयते - प्रत्ययोपदेशकाल एवैत आयन्नाद्यादेशास्तावद्भवन्ति, पश्चात्? प्रत्ययाद्युदात्तत्वमिति भावः। ननु च व्यञ्जनस्यैते विधीयन्ते, तच्च व्यञ्जनमस्वरम्, एवाञ्चावश्यं येन केनचित्? स्वरेण भवितव्यम्, उदात्तादिगुणरहितस्याचोऽसम्भवात्। तत्र स्थानिनः स्वराभावादान्तरतम्यं नास्तीति स्थानेन्तरतमपरिभाषया (1.1.49) अनुपस्थाने सत्यनियतस्वरैरेभिर्भवितव्यम्, ततश्च यदि चित्त्वं न स्यात्, पश्चाद्विधीयमानानामेषां यदाद्युदात्तस्वरो भवति तदा स एव स्वरः प्रसज्येत; सतिशिष्टत्वात्। तस्मात्? तमपि सतिशिष्टस्वरं बाधित्वाऽन्तोदात्तत्वं यथा स्यादित्येवमर्थं घचश्चित्करणम्। ततः कुतो ज्ञापकत्वमेतच्चिन्त्यम्। अथ शमेः खः (प्।उ।1।104) शङ्खः, षणो ढः (पं।उ।4।104) षण्ढः - इत्येवमादीनां कस्मादादेशा न भवन्ति? इत्याह - शङ्खः, षण्ढः इत्यादि। लशक्वतद्धिते (1.3.8) , चूटू (1.3.7) इतीत्संज्ञापि बहुलवचनादेव न भवतीति वेदितव्यम्। ऋतेरीयङ इत्यादि। यदयं ऋतेरीयङ (3.1.29) इतीयङं शास्ति तज्ज्ञापयति - धातुप्रत्ययानामायन्नादयो न सन्तीति। यदि हि स्युः, ऋतेश्छङ इति। ब्राऊयात्। ननु सिद्धे विधिरारभ्यमाणो ज्ञापकाय भवतीति? न च च्छङा सिध्यतीति, छङि हि सति वलादिलक्षण इट्? प्रसज्येत, ततश्चानादित्वादादेशो न स्यात्? नैतदस्ति; यस्मादन्तरङ्गत्वादादेशेनैव भवितव्यम्। अन्तरङ्गत्वन्तु तस्योपदेशावस्थायामेव विधीयमानत्वात्। आदेशे च कृते वलादित्वाभावादिट्प्रसङ्गो नास्ति। तदेतदीयङ्वचनं ज्ञपकमेव। एजेः खश् इत्यादि। तु शब्दः शङ्खः, षण्ढ इत्येदमादिभ्यो विशेषप्रदर्शनार्थः। यत्रेत्संज्ञा नास्ति - शङ्खादौ, तत्रादेशप्रसङ्गे सति तन्निरासार्थं बहुलवचनमिति, ऋतेरीयङ् (3.1.29) इति वावचनमुपन्यस्तम्। एजेः खश् (3.2.28) इत्येवमादौ तु लशक्वतद्धिते (1.3.8) इतीत्संज्ञया भवितव्यमित्यादेशप्रसङ्गो नास्त्येव। ततो न तत्र तदभावार्थं बहुलवचनम्, ऋतेरीयङ इति वावचनमुपन्यसनीयमिति भावः। आदिशब्देन प्रियवसे वदः खच् (3.2.38) , पुंसि संज्ञायां घः प्रायेण (3.3.118) इत्येवमादीनां ग्रहणम्। स्यादेतत् - अनवकाशं खकारघकारयोरादेशवचनम्, अतस्तेन बाध्यमानेत्संज्ञा कथमत्र स्यात्? इत्याह - तद्धिते इत्यादि। खित्यनव्ययस्य (6.3.66) इति ह्रस्वविधानम्, चजोः कु घिण्ण्यतोः (7.3.52) इति कुत्वविधानं ज्ञापकम् - न ह्रादेशविधानेनेत्संज्ञायां बाधितायां तदुपपद्यते; खितो घितश्चात्यन्तासम्भवात्। आयन्नीनोर्नकारस्य इत्यादि। आयन्नीनोर्नकारोऽन्ते वर्तत इति तस्य हलन्त्यम् (1.3.3) इतीत्संज्ञा प्राप्नोति, तस्याञ्च स्त्यां तस्य लोपः (1.3.9) इति कृते नाडायनः, आढकुलीन इत्यादि न सिध्यति। तस्मादायरुआईनोर्नकारस्येत्संज्ञायां प्राप्तायां तत्प्रतिविधानं कर्तव्यम्। स्यादेतत्। प्रयोजनाभावादेवेत्संज्ञा न भविष्यति? इत्यत आह - नित्कार्थं हि इत्यादि। तत्पुनः ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तत्वम्। प्रतविधानं पुनरत्र प्राचामवृद्धात्? फिन्? बहुलम् (4.1.160) इत्यत्र फिनो नकारानुबन्धकरणम्। तस्यांतत्? प्रयोजनम् - नित्त्वादाद्युदात्तत्वं यथा स्यात्। तत्र यद्यायन्नीनोर्नकारस्येत्संज्ञा स्यात्, नित्त्वे सत्याद्युदात्तत्वस्य सिद्धत्वात्? फिनो नित्करणमनवर्थकं स्यात्। ननु फेश्छ च (4.1.149) इत्यततर सामान्यग्रहणार्थं स्यात्, तस्मिन्नसति निरनु बन्धकपरिभाषयास्यैव ग्रहणं स्यात्, न फिञः? नैतदस्ति; तत्र हि वृद्धाट्ठक्? सौवीरेषु बहुलम् (4.1.148) इति बहुलग्रहणानुवृत्तेः फिञ एव ग्रहणमिष्यते, न फिनः। तदेतत्? फिनो नित्करणमित्संज्ञाभावस्य ज्ञापकमेव। योगपक्षं चेदं ज्ञापकम् - अनेन योगेन विहितस्यादेशस्य यो नकारस्तस्मेत्संज्ञा न भवतीति। तेनेनोऽपि नकारस्येत्संज्ञाऽभावो न भवति सिद्धः॥

Praudhamanorama

फकारादिष्कार उच्चारणार्थः। आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामर्थ्यात्।

Prakriyasarvasvam

प्रत्ययादिभूतानां फादीनां क्रमाद् आयन् एय् ईन् ईय् इय् इत्यादेशाः स्युः । इति फस्यायनादेशः ।