64167: अन् ========== **Padacheda:** अन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The syllable अन् of a अङ्ग (stem) ending in अन् remains unchanged before अण् affix whether Patronymic or otherwise. Vasu English Translation ------------------------ The syllable अन् of a अङ्ग (stem) ending in अन् remains unchanged before अण् affix whether Patronymic or otherwise. As सामानः, वैमनः, सौत्वनः, जैत्वनः, from सामन्, वेमन्, सुत्वन् and जित्वन् ॥ Kashika ------- अन्नन्तमणि प्रकृत्या भवत्यपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः॥ Siddhanta Kaumudi ----------------- अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥ Laghu Siddhanta Kaumudi ----------------------- अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥ Balamanorama ------------ **अन्** - अन् । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — अणीति । राज्यमिति ।गुणवचनब्राआहृणादिभ्यः॑ इति ष्यञ् । टिलोपः । Tattvabodhini ------------- **अन्** - टिलोपो नेति ।नस्तद्धिते॑इति प्राप्तष्टिलोपो नेत्यर्थः । Padamanjari ----------- अनपत्ये इति निवृतम् । सामनः, वैमन इति । तस्येदम् इत्यण्, सुयजोर्ङ्वनिप्, ह्रस्वस्य तुक् - सुत्वा, तस्यापत्यं सौत्वनः ॥ Nyaas ----- `अनपत्ये` इति। निवृत्तम्। सामान्येनाष्मत्रे विधिः। `सामनः, वैमनः` इति। **तस्येदम्** (4.3.120) इत्यण्। `सौत्वनः` इति। `षुञ्? अभिषवे` (धातुपाठः-1247) **सुयजोर्ङ्वनिप्** (3.2.103) इति ङवनिप, **ह्रस्वस्य पिति कृति तुक्** (6.1.71) ॥ Prakriyasarvasvam ----------------- अणि सर्वत्र अन् प्रकृत्या स्यात् । राजपुत्रो राजनः । याज्वनः ॥ Sutra Prayogas -------------- * **आश्मन** (भट्टिकाव्यम्): `अन्` इति प्रकृतिभावे प्राप्ते आश्मनो विकार उपसङ्ख्यानमिति टिलोपः पाक्षिकः।