64158: बहोर्लोपो भू च बहोः ========================== **Padacheda:** बहोः | S | 5 | 1 | लोपः | S | 1 | 1 | भू | S | | | 1 च | S | 0 | 0 | बहोः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The इ and ई of these affixes (इमन् and ईयस्) are elided after बहु , and for बहु is substituted भू। Vasu English Translation ------------------------ The इ and ई of these affixes (इमन् and ईयस्) are elided after बहु , and for बहु is substituted भू। Thus भूयान्, भूमा ॥ In the case of इष्ठ, the following rule 159 will apply. Under (1.1.54) and (1.1.67), बहोः being in the Ablative, the first letter of the succeeding term is elided, viz. इ or ई; in this case. बहु belongs to *Prithvadi* class and takes इमन् affix. (5.1.122) The repetition of बहोः is for the sake of pointing out the *sthani*, for which the word भू is to be substituted : otherwise भू would have replaced these affixes. Kashika ------- बहोरुत्तरेषामिष्ठेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति। भूमा। भूयान्। बहुशब्दः पृथ्वादिषु पठ्यते। बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानामेव भूभावः स्यात्॥ Siddhanta Kaumudi ----------------- बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥ Laghu Siddhanta Kaumudi ----------------------- बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥ Balamanorama ------------ **बहोर्लोपो भू च बहोः** - बहोर्लोपः । 'भू' इति लुप्तप्रथमाकम् । इष्ठेयमेयस्स्वित्यनुवृत्तम् । तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः । तदाह — बहोः परयोरिति ।आदेः परस्ये॑ति प्रत्ययोरादिलोपः । भूमेति । बहुत्वमित्यर्थः । बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति । अयमनयोरतिशयेन बहुरित्यर्थः । वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च । भूभावस्याभीयत्वेना.ञसिद्धत्वादोर्गुणो न भवति । Padamanjari ----------- भूयानिति । आदेः परस्य इत्यादेर्लोपः । अन्यथा हीति । यदि पुनः बहोः इति नोच्येत, ततो यथा लोपः प्रत्ययानां भवति, तथा भूभावोऽपि तेषामेव स्यात् । पर्यायेण तत्र लोप आदेर्भूभावः सर्वस्य शक्यते एवक्तुम् पृथग्निर्द्देशात्प्रत्ययानां न भविष्यति, अन्यथा भूलोपौ बहोः इति व्रूयात् । एवं च कृत्वा उतरपदभूम्नि इति निर्द्देश उपपद्यत इति ॥ Nyaas ----- `बहोरुत्तरेषाम्` इति। एतेन प्रथमस्य बहोः पञ्चम्यन्ततां दर्शयति, तस्य च वहोरित्यनेनापि द्वितीयस्य षष्ठन्तताम्। `भूयान्` इति। **आदेः परस्य** (1.1.54) इतीकारस्यव लोपः। अथ किमर्थं बहोरिति पुनग्र्रहणम्? इत्याह -`बहोरिति पनः` इत्यादि। असति हि बहोरिति ग्रहणे बहुशब्दस्य स्थानित्वं न प्रतीयेत; पञ्चम्यन्तेन निर्देशात्। तस्मात्? स्थानित्वप्रतिपत्तये पुनर्बहोरित्यच्यते। `अन्यथा हि` इत्यादि। यदि बहोः इति नोच्येत, तदा प्रत्ययानामेव भूभावः स्यात्; **तस्मादित्युत्तरस्य** (1.1.67) इति वचनात्। ननु पृथग्निर्देशादेव प्रत्ययानां न भविष्यति, अन्यथा `भूलोपौ` इत्ययं ब्राऊयात्? नैतदस्ति; अस्ति ह्रन्यत्? पृथग्निर्देशस्य प्रयोजनम्। किम्? पृथक्स्थानिकौ यथा स्ताताम्, आदेर्मा भूतामिति। यदि `भूलोपौ` इत्येवमुच्येत, तदा **आदेः परस्य** (1.1.54) इत्याद्यस्यैव वर्णस्य पर्यायेण भूलोपो स्यातामिति। अतो भिन्नस्थानिकौ यता स्यातामित्येवमर्थः पृथग्योगनिर्देशः स्यात्। तस्माद्युक्तमुक्तम् -`अन्यथा हि प्रत्ययानामेव भूभावः स्यात्` इति। चकारोऽत्र सन्नियोगार्थः॥ Sutra Prayogas -------------- * **भूयस्या** (शिशुपालवधम्): `बहोर्लोपो भू च बहोः` इति इकारलोपः बहोः भूरादेशश्च।