64145: अह्नष्टखोरेव

Padacheda: अह्नः | S | 6 | 1 |

टखोः | S | 7 | 2 |

एव | S | 0 | 0 |

Sutrartha


Vasu English Summary

The अ of अहन् is elided only before the affixes ट and ख।

Vasu English Translation

The अ of अहन् is elided only before the affixes ट and ख। Thus द्वे अहनी समाहूते = द्व्यहः, त्र्यहः ((5.4.91) with टच्), द्वे अहनी अधीष्टो भृतो भूतो भावी वा = द्व्यहीनः, त्र्यहीनः (with ख (5.1.87)).

Vart:- ख is added to अहन् in the sense of तस्य समूहः, when referring to a sacrifice. अह्नां समूहः क्रतुः = अहीनः (4.2.42).

Though the अन् of अहन् would have been elided by the last aphorism also, before the affixes ट and ख, the present sutra makes a restrictive rule : अहन् does not lose its final अन् before any other Taddhita affix, thus अह्ना निर्वृत्तम् = आह्निकम् (with ठञ् (5.1.79)). The word एव ‘only’ is for the sake of perspicuity. अहन् alone does not lose its final अन् before ट and ख, other stems also do the same. This we infer, from the exception made in the case of atman and adhvan, before ख in (7.4.169).

Kashika

अहन्नित्येतस्य टखोरेव परतष्टिलोपो भवति। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः। त्र्यहीनः। अह्नां समूहः क्रतुः अहीनः। अह्नः समूहे खो वक्तव्यः (४.२.४२ वा०)। सिद्धे सत्यारम्भो नियमार्थः। इह मा भूत् — अह्ना निर्वृत्तम् आह्निकम्। एवकारकरणं विस्पष्टार्थम्। अह्न एव टखोरित्येवं नियमो न भविष्यति, आत्माध्वानौ खे (६.४.१६९) इति प्रकृतिभावविधानात्॥

Siddhanta Kaumudi

टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्टः - (SK1744) इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहः संवत्सराच् (SK1751) इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥

Balamanorama

अह्नष्टखोरेव - अह्नष्टखोः । शेषपूरणेन सूत्रे व्याचष्टे — टिलोपः स्यादिति । टेरित्यनुवर्तते, ‘अल्लोपोऽनः’ इत्यस्यमाल्लोप इति चेति भावः । ‘नस्तद्धिते’ इत्येव सिद्धे नियमार्थमिदमित्या — नान्यत्रेति । एवकारस्तुअह्न एव टखो॑रिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् । अह्ना निवृत्तमाह्निकम् । ‘कालाट्ठञ’ इत्यधिकारेतेन निवृत्त॑मिति ठञ् । टिलोपाऽभावादल्लोपः । टप्रत्यये उदाहरति — उत्तमाह इति । उत्तमं च तदहश्चेति विशेषणसमासः ।राजाहःसखिभ्यष्ट॑जिति टच् ।अह्नष्टखोरेवे॑ति टच् । अह्नष्टखोरेवे॑ति प्रकृतसूत्रेण टिलोपः,रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । खे उदाहरति — द्वे अहनी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः=परिक्रीत इत्यर्थः । ‘द्व्यहीन’ इत्यत्र प्रक्रियां दर्शयति — तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत आह — तमधीष्ट इत्यादि । तथाच द्व्यहन्शब्दात्खस्य ईनादेशेअह्नष्टखोरेवे॑ति टिलोपे ‘द्व्यहीन’ इति रूपमित्यर्थः । नन्वत्र ‘अह्नोऽह्न एतेभ्यः’ इत्याह्नादेशः कुतो न स्यात् । नच खे टिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम्, ‘अहीन’ इत्यत्र खे टिलोपविधेश्चरितार्थत्वादिति चेन्न, समासान्ते पर एव#आह्नादेशविधानात्, प्रकृते तु समासान्तविधेरनित्यत्वात् ‘राजाहःसखिभ्यः’ इति न टच् । यद्यपि ‘उत्तमाहः’ इत्यत्र, ‘द्व्यहीन’ इत्यत्र च ‘नस्तद्धिते’ इत्येव टिलोपः सिद्धस्तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननुमद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया ‘राजाहःसखिभ्यः’ इति टच् स्यादित्याशङ्ख्याह-लिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेतिङ्याप्प्रातिपदिकात् इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति । नच टचि सत्यपियस्येति चे॑तीकारलोपे मद्रराज्ञशब्दात् टित्त्वान्ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यं, टचि हि सति ‘भस्याऽढे तद्धिते’ इति पुंवत्त्वे टिलोपेमद्रराज्ञी॑ति स्यादिति भावः ।

Tattvabodhini

अह्नष्टखोरेव - उत्तमाह इति ।सर्वैकदेशसङ्ख्याते॑त्यत्र उत्तमशब्दस्याऽपाटदह्नोदेशो न । व्द्यहीन इति । समासान्तविधेरनित्यत्वान्न टच् । सति तु तस्मिन्नह्नादेशः प्रसज्येत । न च नान्तस्य खे परे टिलोपविधिसामर्थ्यान्न टजिति वाच्यम्,अहीन॑इत्यत्र तस्य सावकाशत्वात् । अनित्यत्वादिति । अत्र च लिङ्गंशक्तिलाह्गलाङ्कुशे॑त्यत्र घटीग्रहणम् । मद्रराज्ञीति । यद्यत्र टच् स्यात्तदाभस्याऽढे -॑ इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः ।

Padamanjari

द्व्यह इति । न सङ्ख्यादेः समाहारे इति अह्रादेशस्य प्रतिषेधः । द्व्यहीन इति । तद्धितार्थे द्विगुः, समायाः खः, द्विगोर्वा, रात्र्यहःसंवत्सराच्चेति खः । आह्रिकमिति । आर्हीयष्ठक् । एवकारकरणं विस्पष्टार्थमिति । विपरीतनियमनिरासार्थं तु न भवतीत्याह - अह्र एवेति । विपरीते हि नियमे अन्यस्य खे टिलोपप्रसङ्गाद् आत्माध्वानौ खे इति प्रकृतिभावविधानमनर्थकं स्यादिति भावः ॥

Nyaas

द्व्यहः इति। तद्धितार्थोत्तरपदसमाहारे च (2.1.51) इति समासः, राजहःसखिभ्यष्टच् (5.4.91) इति टच्? समासान्तः। अत्र अह्नोह्न एतेभ्यः (5.4.88) इत्यह्नादेशः प्राप्तः स च न संख्यादेः समाहारे (5.4.89) इति प्रतिषेधान्न भवति। द्व्यहीनः इति। तद्धितार्थे समायाः (5.1.84) इति वर्तमाने रात्र्यहस्संवत्सराच्च (5.1.87) इति खः। केन पुनरहीन इत्यत्र खप्रत्ययः? इत्याह -अह्नः समूहे खो वक्तव्वः इति। ननु च अह्नो नकारान्तत्वात्? पूर्वेणैव सिद्धष्टिलोपः, तत्? किमर्थोऽयमारम्भः? इत्याह -सिद्धे सति इत्यादि। आह्निकम् इति। आर्हीयष्ठक्। यदि सिद्धे सति नियमर्थोऽयमारम्भः, एवं सत्येवग्रहणमनर्थकं स्यात्, विनापि तेन सिद्धे सत्यारम्बो नियमार्थो विज्ञास्यते? इत्याह -एवकारकरणं विस्पष्टार्थम् इति। अथ विपरीतनियमाशङ्कानिरासार्थं कस्मान्न भवति? इत्याह -अह्न एव इत्यादि। यद्यह्न एव टखोः -इत्येव विपरीतनियमः स्यात्, एवं सत्यन्यस्य खे टिलोपप्रसङ्ग एव नास्ति। आत्माध्वानो खे (6.4.169) इति प्रकृतिवद्भावविधानमनर्थकं स्यादित्यभिप्रायः॥

Prakriyasarvasvam

अस्य टखयोः परयोरेव टिलोपः स्यात् । अह्नां समूहरूपः ऋतुः, अहीनः । ‘पृष्ठाद् यः’ पृष्ठाख्यानां साम्नां समूहरूपः क्रतुः पृष्ठ्यः । पृष्टास्थां समूहः, पृष्ठ्यमित्यन्ये (वा०) ‘पर्शोर्णम् वाच्यः’ ।।