64145: अह्नष्टखोरेव =================== **Padacheda:** अह्नः | S | 6 | 1 | टखोः | S | 7 | 2 | एव | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The अ of अहन् is elided only before the affixes ट and ख। Vasu English Translation ------------------------ The अ of अहन् is elided only before the affixes ट and ख। Thus द्वे अहनी समाहूते = द्व्यहः, त्र्यहः ((5.4.91) with टच्), द्वे अहनी अधीष्टो भृतो भूतो भावी वा = द्व्यहीनः, त्र्यहीनः (with ख (5.1.87)). Vart:- ख is added to अहन् in the sense of तस्य समूहः, when referring to a sacrifice. अह्नां समूहः क्रतुः = अहीनः (4.2.42). Though the अन् of अहन् would have been elided by the last aphorism also, before the affixes ट and ख, the present *sutra* makes a restrictive rule : अहन् does not lose its final अन् before any other *Taddhita* affix, thus अह्ना निर्वृत्तम् = आह्निकम् (with ठञ् (5.1.79)). The word एव 'only' is for the sake of perspicuity. अहन् alone does not lose its final अन् before ट and ख, other stems also do the same. This we infer, from the exception made in the case of *atman* and *adhvan*, before ख in (7.4.169). Kashika ------- अहन्नित्येतस्य टखोरेव परतष्टिलोपो भवति। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः। त्र्यहीनः। अह्नां समूहः क्रतुः अहीनः। **अह्नः समूहे खो वक्तव्यः** (४.२.४२ वा०)। सिद्धे सत्यारम्भो नियमार्थः। इह मा भूत् — अह्ना निर्वृत्तम् आह्निकम्। एवकारकरणं विस्पष्टार्थम्। अह्न एव टखोरित्येवं नियमो न भविष्यति, **आत्माध्वानौ खे** (६.४.१६९) इति प्रकृतिभावविधानात्॥ Siddhanta Kaumudi ----------------- टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो द्व्यहीनः क्रतुः । तद्धितार्थे द्विगुः । तमधीष्टः - (SK1744) इत्यधिकारे द्विगोर्वेत्यनुवृत्तौ रात्र्यहः संवत्सराच् (SK1751) इति खः । लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ॥ Balamanorama ------------ **अह्नष्टखोरेव** - अह्नष्टखोः । शेषपूरणेन सूत्रे व्याचष्टे — टिलोपः स्यादिति । टेरित्यनुवर्तते, 'अल्लोपोऽनः' इत्यस्यमाल्लोप इति चेति भावः । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमिदमित्या — नान्यत्रेति । एवकारस्तुअह्न एव टखो॑रिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम् । अह्ना निवृत्तमाह्निकम् । 'कालाट्ठञ' इत्यधिकारेतेन निवृत्त॑मिति ठञ् । टिलोपाऽभावादल्लोपः । टप्रत्यये उदाहरति — उत्तमाह इति । उत्तमं च तदहश्चेति विशेषणसमासः ।राजाहःसखिभ्यष्ट॑जिति टच् ।अह्नष्टखोरेवे॑ति टच् । अह्नष्टखोरेवे॑ति प्रकृतसूत्रेण टिलोपः,रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । खे उदाहरति — द्वे अहनी भृत इति । अत्यन्तसंयोगे द्वितीया । भृतः=परिक्रीत इत्यर्थः । 'द्व्यहीन' इत्यत्र प्रक्रियां दर्शयति — तद्धितार्थे द्विगुरिति । कोऽत्र तद्धित इत्यत आह — तमधीष्ट इत्यादि । तथाच द्व्यहन्शब्दात्खस्य ईनादेशेअह्नष्टखोरेवे॑ति टिलोपे 'द्व्यहीन' इति रूपमित्यर्थः । नन्वत्र 'अह्नोऽह्न एतेभ्यः' इत्याह्नादेशः कुतो न स्यात् । नच खे टिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम्, 'अहीन' इत्यत्र खे टिलोपविधेश्चरितार्थत्वादिति चेन्न, समासान्ते पर एव#आह्नादेशविधानात्, प्रकृते तु समासान्तविधेरनित्यत्वात् 'राजाहःसखिभ्यः' इति न टच् । यद्यपि 'उत्तमाहः' इत्यत्र, 'द्व्यहीन' इत्यत्र च 'नस्तद्धिते' इत्येव टिलोपः सिद्धस्तथापि आह्निकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननुमद्राणां राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया 'राजाहःसखिभ्यः' इति टच् स्यादित्याशङ्ख्याह-लिङ्गेति । अनित्यत्वादिति । समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेतिङ्याप्प्रातिपदिकात् इत्यत्र भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति । नच टचि सत्यपियस्येति चे॑तीकारलोपे मद्रराज्ञशब्दात् टित्त्वान्ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यं, टचि हि सति 'भस्याऽढे तद्धिते' इति पुंवत्त्वे टिलोपेमद्रराज्ञी॑ति स्यादिति भावः । Tattvabodhini ------------- **अह्नष्टखोरेव** - उत्तमाह इति ।सर्वैकदेशसङ्ख्याते॑त्यत्र उत्तमशब्दस्याऽपाटदह्नोदेशो न । व्द्यहीन इति । समासान्तविधेरनित्यत्वान्न टच् । सति तु तस्मिन्नह्नादेशः प्रसज्येत । न च नान्तस्य खे परे टिलोपविधिसामर्थ्यान्न टजिति वाच्यम्,अहीन॑इत्यत्र तस्य सावकाशत्वात् । अनित्यत्वादिति । अत्र च लिङ्गंशक्तिलाह्गलाङ्कुशे॑त्यत्र घटीग्रहणम् । मद्रराज्ञीति । यद्यत्र टच् स्यात्तदाभस्याऽढे -॑ इति पुंवद्भावे टिलोपे च मद्रराजीत्यनिष्टरूपं स्यादिति भावः । Padamanjari ----------- द्व्यह इति । न सङ्ख्यादेः समाहारे इति अह्रादेशस्य प्रतिषेधः । द्व्यहीन इति । तद्धितार्थे द्विगुः, समायाः खः, द्विगोर्वा, रात्र्यहःसंवत्सराच्चेति खः । आह्रिकमिति । आर्हीयष्ठक् । एवकारकरणं विस्पष्टार्थमिति । विपरीतनियमनिरासार्थं तु न भवतीत्याह - अह्र एवेति । विपरीते हि नियमे अन्यस्य खे टिलोपप्रसङ्गाद् आत्माध्वानौ खे इति प्रकृतिभावविधानमनर्थकं स्यादिति भावः ॥ Nyaas ----- `द्व्यहः` इति। **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति समासः, `राजहःसखिभ्यष्टच्` (5.4.91) इति टच्? समासान्तः। अत्र `अह्नोह्न एतेभ्यः` (5.4.88) इत्यह्नादेशः प्राप्तः स च **न संख्यादेः समाहारे** (5.4.89) इति प्रतिषेधान्न भवति। `द्व्यहीनः` इति। तद्धितार्थे `समायाः` (5.1.84) इति वर्तमाने **रात्र्यहस्संवत्सराच्च** (5.1.87) इति खः। केन पुनरहीन इत्यत्र खप्रत्ययः? इत्याह -`अह्नः समूहे खो वक्तव्वः` इति। ननु च अह्नो नकारान्तत्वात्? पूर्वेणैव सिद्धष्टिलोपः, तत्? किमर्थोऽयमारम्भः? इत्याह -`सिद्धे सति` इत्यादि। `आह्निकम्` इति। आर्हीयष्ठक्। यदि सिद्धे सति नियमर्थोऽयमारम्भः, एवं सत्येवग्रहणमनर्थकं स्यात्, विनापि तेन सिद्धे सत्यारम्बो नियमार्थो विज्ञास्यते? इत्याह -`एवकारकरणं विस्पष्टार्थम्` इति। अथ विपरीतनियमाशङ्कानिरासार्थं कस्मान्न भवति? इत्याह -`अह्न एव` इत्यादि। यद्यह्न एव टखोः -इत्येव विपरीतनियमः स्यात्, एवं सत्यन्यस्य खे टिलोपप्रसङ्ग एव नास्ति। `आत्माध्वानो खे` (6.4.169) इति प्रकृतिवद्भावविधानमनर्थकं स्यादित्यभिप्रायः॥ Prakriyasarvasvam ----------------- अस्य टखयोः परयोरेव टिलोपः स्यात् । अह्नां समूहरूपः ऋतुः, अहीनः । 'पृष्ठाद् यः' पृष्ठाख्यानां साम्नां समूहरूपः क्रतुः पृष्ठ्यः । पृष्टास्थां समूहः, पृष्ठ्यमित्यन्ये (वा०) 'पर्शोर्णम् वाच्यः' ।।