64144: नस्तद्धिते

Padacheda: नः | S | 6 | 1 |

तद्धिते | S | 7 | 1 |

Sutrartha

तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य टिसंज्ञकस्य लोपः भवति ।

यदि नकारान्त-भसंज्ञक-अङ्गात् परः तद्धितप्रत्ययः आगच्छति, तर्हि तस्य नकारान्तस्य भस्य यः टिसंज्ञकः, तस्य लोपः जायते । उदाहरणानि एतानि - 1. ‘उडुलोमन्’ शब्दात् अपत्यार्थे बाह्वादिभ्यश्च (4.1.96) इत्यनेन इञ्-प्रत्ययः भवति । तस्य प्रक्रिया इयम् - उडुलोमन् + इञ् [अजादिप्रत्यये परे अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा] → औडुलोमन् + इ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → औडुलोम् + इ [नस्तद्धिते (6.4.144) इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति] → औडुलोमि 2. ‘मद्रराजन्’ इत्यस्य राजाहस्सखिभ्यष्टच् (5.4.91) इत्यनेन समासान्ते टच्-प्रत्यये कृते - मद्रराजन् + टच् → मद्रराजन् + अ [नस्तद्धिते (6.4.144) इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति] → मद्रराज 3. ‘श्वनाम् समूहः’ इत्यत्र ‘श्वन्’ शब्दात् खण्डिकादिभ्यश्च (4.2.45) इत्यनेन अञ्-प्रत्ययं कृत्वा इयम् प्रक्रिया जायते - श्वन् + अञ् → शौवन् + अ [द्वारादीनां च (7.3.4) इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ] → शौव् + अ [नस्तद्धिते (6.4.144) इत्यनेन टिलोपः] → शौव अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <!नान्तस्य टिलोपे सब्रह्मचारि-पीठसर्पि-कलापि-कुथुमि-तैतिलि-जाजलि-लाङ्गलि-शिलालि-शिखण्डि-सूकरसद्म-सुपर्वणामुपसङ्ख्यानं कर्तव्यम् !> । इत्युक्ते, निम्निलिखियानाम् शब्दानाम् विषये अपि टिलोपः कर्तव्यः इति - सब्रह्मचारिन्, पीठसर्पिन्, कलापिन्, कुथुमिन्, तैतिलिन् जाजलिन्, लाङ्गलिन्, शिलालिन्, शिखण्डिन्, सुकरसद्मन्, सुपर्वन् । (अ) एतेषु ये शब्दाः इन्नन्ताः सन्ति, तेषाम् विषये नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते इन्यणपत्ये (6.4.164) इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । तस्य निषेधस्यापि निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानामत्र निर्देशः कृतः अस्ति । उदाहरणानि एतानि - - सब्रह्मचारिन् + अण् → साब्रह्मचार । - पीठसर्पिन् + अण् → पैठसर्प । - कलापिन् + अण् → कालाप । - कुथुमिन् + अण् → कौथुम । - तैतिलिन् + अण् → तैतिल । → जाजलिन् + अण् → जाजल । - लाङ्गलिन् + अण् → लाङ्गल । - शिलालिन् + अण् → शैलाल । - शिखण्डिन् + अण् → शैखण्ड । (आ) ‘सुकरसद्मन्’ तथा ‘सुपर्वन्’ एतयोः विषये नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । अस्य निषेधस्य निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानामत्र निर्देशः कृतः अस्ति । यथा - सुकरसद्मन् + अण् → सौकरसद्म । सुपर्वन् + अण् → सौपर्वण । 2. <!अश्मनो विकारे उपसङ्ख्यानम्!> । इत्युक्ते, तस्य विकारः (4.3.134) अस्मिन् अर्थे अश्मन्-शब्दात् अण्-प्रत्ययविधानं क्रियते चेत् अत्रापि टिलोपः कर्तव्यः । यथा - अश्मन् + अण् → आश्मन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → आश्म् + अ [नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते ; अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ] → आश्म अन्येषु अर्थेषु तु अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः ‘आश्मन’ इति प्रातिपदिकं सिद्ध्यति । 3. <!चर्मणः कोषे उपसङख्यानम् !> । इत्युक्ते, तस्य इदम् (4.3.120) अस्मिन् अर्थे चर्मन् शब्दात् कोशं दर्शयितुमण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा - चर्मन् + अण् → चार्मन् + अण् [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → चार्म् + अण् [नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते ; अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ] → चार्मः कोषः । अन्येषु अर्थेषु तु अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः ‘चार्मण’ इति प्रातिपदिकं सिद्ध्यति । 4. <!शूनः सङ्कोचे उपसङ्ख्यानम्!> । इत्युक्ते, तस्य विकारः (4.3.134) अस्मिन् अर्थे ‘श्वन्’ शब्दात् अवयवानाम् सङ्कोचनम् दर्शयितुमण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा - श्वन् + अण् → शौवन् + अ [द्वारादीनां च (7.3.4) इति ऐच्-आगमः] → शौव् + अ [नस्तद्धिते (6.4.144) इत्यनेन टिलोपे प्राप्ते ; अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ] → शौव । अन्येषु अर्थेषु तु अन् (6.4.167) इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः ‘शौवन’ इति प्रातिपदिकं सिद्ध्यति । 5. <!अव्ययानां च सायंप्रातिकाद्यर्थमुपसङ्ख्यानम्!> । इत्युक्ते, केषाञ्चन अव्ययानां विषये यद्यपि टिलोपस्य प्रसक्तिः नास्ति, तथापि प्रयोगे टिलोपं कृत्वैव रूपं प्रयुक्तं दृश्यते । एतादृशेषु शब्देषु प्रयोगमनुसृत्य यथायोग्यं टिलोपः कर्तव्यः । (एतेषाम् सर्वेषामावली ‘सायंप्रातिकादयः’ नाम्ना ज्ञायते, अतः अस्मिन् सूत्रे ‘सायंप्रातिकाद्यर्थम्’ इति उच्यते । यथा - - सायंप्रातर् + ठञ् → सायंप्रातिक । अत्र टिलोपः केनापि सूत्रेण न विधीयते, परन्तु कृतः दृश्यते । - पुनःपुनर् + ठञ् → पौनपुनिक । - बहिस् + य → बाह्य । - कुतस्कुतस् + अण् → कौतस्कुत । ज्ञातव्यम् - 1. यदि नकारान्तमङ्गम् पदसंज्ञकमस्ति तर्हि वर्तमानसूत्रस्य प्रसक्तिः न वर्तते । यथा, ‘पञ्चन् + कृत्वसुँच्’ इत्यत्र अङ्गस्य पदसंज्ञा भवति, अतः नलोपः प्रातिपदिकान्तस्य (8.2.7) इत्यनेन नकारलोपं कृत्वा ‘पञ्चकृत्वः’ इति शब्दः सिद्ध्यति । 2. अस्य सूत्रस्य प्रसक्तिः तद्धितप्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, ‘राजन् + टा’ इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः ‘टा’ अयम् तद्धितप्रत्ययः नास्ति ।

Sutrartha (English)

The टिसंज्ञक of a नकारान्त भसंज्ञक अङ्ग is removed when followed by a तद्धितप्रत्यय.

Vasu English Summary

Of the भ अङ्ग (stem) the final न् with the vowel that precedes it, is elided before a तद्धित affix.

Vasu English Translation

Of the भ अङ्ग (stem) the final न् with the vowel that precedes it, is elided before a तद्धित affix. Thus आग्निशर्म्मिः, औडुलोमिः, सारलोमिः from अग्निशर्मन्, उडुलोमन्, and सरलोमन् with the Taddhita affix इञ् (4.1.96). Why do we say ‘ending in म्’? Observe सात्वतः ॥ Why ‘before a Taddhita affix’? Observe शर्मणा, शर्मणे ॥

Vart:- The final न् with the vowel that precedes it, is dropped before a Taddhita in the following : 1. सब्रह्मचारिन् - साब्रह्मचाराः (4.3.120), 2. पीठसर्पिन् - पैठसर्पाः (4.3.120), 3. कलापिन् - कालापाः (4.3.108) and (4.2.59), 4. कुथुमिन् - कौथुमाः (4.3.101), 5. तैतिलिन् - तैतिलाः (4.3.116), 6. जाजलिन् -जाजलाः (4.2.59), 7. लाङ्गलिन् — लाङ्गलाः, 8. शिलालिन् - शैलालाः, 9. शिखण्डिन् - शैखण्डाः, 10. सुकरसद्मन् - सौकर सद्माः, 11. सुपर्वन् - सौपर्वाः ॥ In the above those which end in इन्, elide the इन् in spite of (6.4.164), and those in अन् contradict (6.4.167).

Vart:- अश्मन् loses its अन् before a Taddhita affix meaning ‘prepared there with’ : as, आश्मः, otherwise आश्मनः ॥

Vart:- Of चर्मन्, the अन् is elided when meaning ‘a sheath or purse’: as, चार्म कोशः (4.3.134), otherwise चार्मणः ॥

Vart:- The अन् of श्वन् is elided when the sense is ‘to contract’, as शौवः संकोचः (4.3.120), otherwise शौवनः ॥

Vart:- The Indeclinables like सायंप्रातिकः &c are formed by the टि elision : as सायंप्रातिकः, पौनः पुनिकः, बाह्यः, कौतस्कुतः (formed by ठञ् (4.3.11)). But not before the affixes व्यु and व्युल्, as आरातीयः, शाश्वतिकः ॥ Panini himself has shown the exception, in the case of श्वाश्वतिक, by using it in (2.4.9). So also शाश्वतम् ॥

Bhashya

नस्तद्धिते (3142) (6611 उपसंख्यानवार्तिकम् ॥ 1 ॥) - नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम् - नकारान्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन्कलापिन्कुथुमिन्तैतिलिन्जाजलिन्लाङ्गलिन्शिलालिन्शिखण्डिन्सूकरसद्मन्सुपर्वन् - इत्येतेषामुपसंख्यानं कर्तव्यम् । सब्रह्मचारिन् - सब्रह्मचारिण इमे - साब्रह्मचाराः । सब्रह्मचारिन् ॥ पीठसर्पिन् - पैठसर्पाः । पीठसर्पिन् ॥ कलापिन् - कालापाः । कलापिन् ॥ कुथुमिन् - कौथुमाः । कुथुमिन् ॥ तैतिलिन् - तैतिलाः । तैतिलिन् ॥ जाजलिन् - जाजलाः । जाजलिन् ॥ लाङ्गलिन् - लाङ्गलाः । लाङ्गलिन् ॥ शिलालिन् - शैलालाः । शिलालिन् ॥ शिखण्डिन् - शौखण्डाः । शिखण्डिन् ॥ सूकरसद्मन् - सौकरसद्माः । सूकरसद्मन् ॥ सुपर्वन् - सौपर्वाः । सुपर्वन् ॥ (उपसंख्यानभाष्यम्) चर्मणः कोश उपसंख्यानं कर्तव्यम् । चार्मः कोशः ॥ (उपसंख्यानभाष्यम्) अश्मनो विकार उपसंख्यानं कर्तव्यम् । अश्मनो विकार आश्मः ॥ शुनः संकोचे । शौवः सङ्कोचः ॥ (6612 उपसंख्यानवार्तिकम् ॥ 1 ॥) - अव्ययानां च सायम्प्रातिकाद्यर्थम् - अव्ययानां च सायम्प्रातिकाद्यर्थमुपसंख्यानं कर्तव्यम् । किं प्रयोजनम् ? सायम्प्रातिकाद्यर्थम् । सायम्प्रातिकः, पौनः पुनिकः ॥ (अतिप्रसक्तिनिरासभाष्यम्) शांश्वतिके प्रतिषेधो वक्तव्यः । न वक्तव्यः । निपातनादेतत्सिद्धम् । किं निपातनम् ? येषां च विरोधः शाश्वतिकः (2.4.9) इति । एवं तर्हि - शाश्वते प्रतिषेधो वक्तव्यः । शाश्वतम् ॥

Kashika

नकारान्तस्य भस्य टेर्लोपो भवति तद्धिते परतः। आग्निशर्मिः। औडुलोमिः। बाह्वादित्वाद् (४.१.९६) इञ्प्रत्ययः। न इति किम्? सात्वतः। तद्धित इति किम्? शर्मणा। शर्मणे॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलि — शिलालिशिखण्डिसूकर — सद्मसुपर्वणामुपसंख्यानं कर्तव्यम्॥ अत्र य इन्नन्तास्तेषाम् इनण्यनपत्ये (६.४.१६४) इति प्रकृतिभावः प्राप्तः, ये त्वन्नन्तास्तेषाम् अन् (६.४.१६७) इति। सब्रह्मचारिण इमे साब्रह्मचाराः। पीठसर्पिणः पैठसर्पाः। कलापिना प्रोक्तमधीयते कालापाः। कुथुमिनः कौथुमाः। तैतिलिजाजलिनावाचार्यौ, तत्कृतो ग्रन्थ उपचारात् तैतिलिजाजलिशब्दाभ्यामभिधीयते। तं ग्रन्थमधीयते तैतिलाः, जाजलाः। शैषिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति। एवं लाङ्गलाः। शैलालाः। शिखण्डिनः शैखण्डाः। सूकरसद्मनः सौकरसद्माः। सुपर्वणः सौपर्वाः॥ अश्मनो विकार उपसंख्यानम्॥ अश्मनो विकार आश्मः। आश्मनोऽन्यत्र॥ चर्मणःकोश उपसंख्यानम्॥ चार्मः कोशः। चार्मणोऽन्यः॥ शुनः संकोच उपसंख्यानम्॥ शौवः संकोचः। शौवनोऽन्यः॥ अव्ययानां च सायंप्रातिकाद्यर्थमुपसंख्यानम्॥ के पुनः सायंप्रातिकादयः? येषामव्ययानामविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकारा ग्रहीतव्याः। सायंप्रातर्भवः सायंप्रातिकः। पौनःपुनिकः। बाह्यः। कौतस्कुतः। कालाट् ठञ् (४.३.११) इति ठञ्प्रत्ययः। ट्युट्युलौ तु नेष्येते। आरातीयः, शाश्वतिकः, शाश्वत इत्येवमादिषु न दृश्यते टिलोपः॥

Siddhanta Kaumudi

नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ॥

Laghu Siddhanta Kaumudi

नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥

Balamanorama

नस्तद्धिते - नस्तद्धिते । ‘न’ इति षष्ठन्तम् । तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । टेरिति सूत्रमनुवर्तते । ‘अल्लोपोऽनः’ इत्यस्माल्लोप इति च । तदाह-नान्तस्येत्यादि । उपराजमिति । राज्ञः समीपमित्यर्थः । समीप्ये उपेत्यस्याव्ययीभावः । ‘अनश्च’ इति टच्, सुब्लुक्, टिलोपः । उपराजशब्दाद्यथायथं सुप्, अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाऽप्रवृत्तेः ‘नस्तद्धिते’ इत्यारम्भः । अध्यात्ममिति । आत्मनीत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । शेषं पूर्ववत् ।

Tattvabodhini

नस्तद्धिते - नास्तद्धिते ।न॑इत्यनेन भस्येत्यधिकृतं विशेष्यते, विशेषणेन तदन्तविधिरत आह — नान्तस्य भस्येति । ननूपराजिमित्यत्रनस्तद्धिते॑इति व्यर्थम्,अव्ययानां भमात्रे -॑ इति टिलोपेनैव सिद्धेः । न चाव्ययत्वं टज्विशिष्टे पर्याप्तमिति वाच्यम्, अव्ययीभावसंज्ञाया उपजीव्यत्वेन टचः पूर्वभागस्याप्यव्ययत्वानपायात् । अत्राहुः — भाष्ये लुङ्मुखस्वरोपचारेषु त्रिष्वेव कार्येषु अव्ययीभावस्याव्ययसंज्ञाविधानान्न दोष इति । युक्त चैतत् । अन्यथा उपशरदमित्यादौ टिलोपः प्रसज्येत । यद्यप्यडुत्तमस्य पिच्चेत्यत्र दीर्घोच्चारणेन स्वावयवेन पौर्वपर्यं नास्तीतिज्ञापितम्,अ॑ डित्युक्तेऽपि तदादिग्रहणेन तद्विशिष्टस्याऽङ्गत्वादतो दीर्घो यञीति दीर्घसिद्धेः, तथाप्यह्नष्टखोरेवेति लिङ्गत्समासान्तेषु तन्नाश्रीयत इति बोध्यम् । आध्यायत्ममिति आत्मनि अध्यात्मम् । विभक्त्यर्थेऽव्ययीभावः ।

Padamanjari

तेषामिति । अन् इति प्रकृतिभावः प्राप्त इत्यनुषङ्गः । पीठेन सर्पतीति पीठसर्पी । कलापिशब्दात्प्रोक्तार्थे कलापिनोऽण्, च्छन्दोब्राह्मणानि च तद्विषयाणि, तदधीते इत्यण्, प्रोक्ताल्लुक्, कालापाः । एवं कौर्थुमाः । किं पुनः कारणमुषचार आश्रीयते, न पुनर्मुख्यार्थवृत्तिभ्याम् तेन प्रोक्तम् इत्याद्यर्थेऽण् क्रियते इत्यत आह - शैषिकेष्विति । केचितितलिशब्दं पठन्ति - लिलानां तलं तिलम्, पृषोदरादिः, तदस्यास्तीति तितली । एवं लाङ्गला इति । उपचारादि सर्वमतिदिशति । उतरेषु त्रिष्विदमर्थेऽण् । एवमाश्मा इत्यत्रापि । चार्म इत्यत्र विकारे । चार्मण इत्यत्रेदमर्थे विकारेऽपि कोशादन्यत्र । शौव इति । तस्येदमित्यण्, अत्र परत्वाद्वृद्धिप्राप्तौ द्वारादित्वातत्प्रतिषेधे ऐजागमे च कृते टिलोपः । एशौवनोऽन्य इति । विकारावयवयोस्तु प्राणित्वादञिति प्रकृतिभावाभावात् शौव इत्येव भवति । के पुनरिति । प्रातिपदिकगणे पाठाभावात्प्रश्नः । आदिशब्दस्य प्रकारवचनत्वादाकृतिगणोऽयमित्युतरम् । सायम्प्रातिकमिति । यथाकथञ्चित्कालवृतेरपि भवति इत्युक्तत्वात्कालसमुदायेऽपि ठञ् एव भवति, येषां च विरोधः शाश्वतिकः इति निर्द्देशात् इसुसुक्तान्तात्कः इति कादेशाभावः । शाश्वतमिति । भाष्यकारवचनादण् प्रत्ययः ॥

Nyaas

सात्वतः इति। सत्वतोऽपत्यमित्यण्। नान्तस्य टिलोपः इत्यादि। किं पुनः कारणं न सिद्ध्यति यत उपसंख्यानं कर्तव्यम्? इत्याह -अत्र य इन्नन्ताः इत्यादि। ये त्वन्नन्तास्तेषामन्` (6.4.167) इति प्रकृतिभावः प्राप्त इति प्रकृतेन सम्बन्धः। साब्राहृचारः इति। तस्येदम् (4.3.120) इत्यण्। पीठसर्पिणः इति। इम इति प्रकृतेन सम्बन्धः। पैठसर्पाः इति। तस्येदम् (4.3.120) इत्यण्। पीठसर्पिणः इति। इम इति प्रकृतेन सम्बन्धः। पैठसर्पाः इति। पूर्ववदण्। कालापाः इति। पूर्ववत्प्रोक्तार्थे कलापिवैशम्यायनान्तेवासिभ्यश्च (4.3.104) इति वैशम्पायनान्तेवासित्वाण्णिनिप्रत्यये प्राप्ते तदपवादः कलापिनोऽण् (4.3.108) , ततः तदधीते तद्वेद (4.2.59) इत्यण्, तस्य प्रोक्ताल्लुक् (4.2.64) इति लुक्, छन्दोब्राह्मणानि च तद्विषयाणि (4.2.66) इत्यध्येतृवेदितृविषयता। कोथुमाः इति। तस्येदम् (4.3.120) इत्यण्। तत्कृतो ग्रन्थ उपचारात् इत्यादि। उपचारस्य तु तत्कृतत्वात्र निबन्धनम्। भवति हि तत्कृतत्वे तदुपचारः, यथा सर्वमिदं पुराणं कर्म शुभाशुभं भुज्यत इति। अथ कस्मादुपचार आश्रीयते, न अधिकृत्य कृते ग्रन्थे (4.3.87) इत्येवमादिशैषिकार्थविवक्षायां तद्धित एव क्रियेत? इत्यत आह -शैषिकेष्वर्थेषु इत्यादि। तैतिलिजाजलिशब्दौ वृद्धसंज्ञकौ, तयोर्वृद्धत्वात्? शैषिकेष्वथषु विधीयमानोऽसौ तद्धितः वृद्धाच्छः (4.2.114) इति छः प्रसज्येत। तस्मश्च सति तैतिलाः, जाजलाः इति न सिद्ध्येत्, तस्मान्मा भूदेष दोष इत्युपचार आश्रितः। एवम् इत्यनेनान्तरोक्तां व्युत्पतिंत दर्शयति छप्रत्ययनिवृत्तये। लाङ्गलिशब्दस्याप्येवं व्युत्पत्तिः कर्तव्या। लाङ्गलिः आचार्यः, तत्कृती ग्रन्थ उपचारात्? लाङ्गलशब्देनाभिधीयते। लाङ्गलाः इति। शिखण्डाः इत्याद्युदाहरणत्रयेऽपि तस्येदम् (4.3.120) इत्यण्। आश्मः इति। अत्रापि तस्य विकारः (4.3.134) इत्यण्। आश्मनोऽन्यत्र इति। अत्रापि तस्येदम् (4.3.120) इत्यत्रार्थाभिधाने। चार्मः इत्यत्रापि तस्येदम् (4.3.120) इत्यणेव।चर्मणोऽन्यः इति। चर्मणो विकार इति। शौवः इति। द्वारादीनाञ्च (7.3.4) इत्यैजागमः। सायम्प्रातिकायः प्रातिपदिकेषु न पठन्त इत्यतः पृच्छति -के पुनः सामम्प्रातिकादयः इति। सायम्प्रातिकप्रकारा इत्यनेन प्रकारवचनतामादिशब्दस्य दर्शयति।ननु च `सायञ्चिरम् (4.3.23) इत्यादिनाऽव्ययेभ्यष्टउल्भ्यां भवितव्यम्, तत्? कथं ठञ्? भवति? इत्याह -टउटउलौ तु नेष्येते इति। अनभिधानात्। अत्र च सर्वत्रोपसंक्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् -मन्त्रेष्वित्यादेः (6.4.141) सूत्रादादिग्रहणमनुवर्तते, तद्धितग्रहणञ्चेदमर्थमेव कृतम्। तदनुवृत्तौ चायमर्थो भवति -नान्तादीनां तद्धिते परतष्टिलोपो भवतीति। आदिशब्देन सायम्प्रातिकादयो गृह्यन्ते। तेन सर्वत्र टिलोपः सिद्धो भवति। इत्येवमादिषु न दृश्यते टिलोपः इति। एतेनारातीयः इत्येवमादीनामसायम्प्प्रातिकत्वं दर्शयति। अथ शाआतः इत्यत्र कथमण्, यावता कालट्ठञ (4.3.11) इति ठञा भवितव्यम्? नैतदस्ति; कालट्ठञ् (4.3.11) इत्यत्र कालात् इति योगविभागः कर्तव्यः, तेन शआच्छब्दाद्यथादिहितमण्? भवति। न च योगविभागेन ठञ्? बाध्यते; येषाञ्च विरोधः शाआतिकः (2.4.9) इति निपातनात्। तेन पक्षे ठञपि भवत्येव। टउटउलौ तु शाआतशब्दान्नेष्येते, अनभिधानादेव। अथ शाआतिकः इत्यत्र इसुसुक्तान्तात्कः (7.3.51) इति ठञः कादेशः कस्मान्न भवति? अत एव निर्देशात्॥

Prakriyasarvasvam

नान्तस्य भस्य तद्धिते परे टिलोपः स्यात् । मैधावः ॥

Vartika

नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानं कर्तव्यम् ।

Sutra Prayogas

  • ब्राह्मम् (रघुवंशम्): नस्तद्धिते इति टिलोपः।

  • ब्रह्मिष्ठम् (रघुवंशम्): नस्तद्धिते इति टिलोपः।

  • भास्मनैः (शिशुपालवधम्): नस्तद्धिते इति टिलोपो न।

  • अध्यध्वम् (शिशुपालवधम्): नस्तद्धिते इति टिलोपः।