64143: टेः¶
Padacheda: टेः | S | 6 | 1 |
Sutrartha¶
भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति ।
यदि भसंज्ञकात् परः डित्-प्रत्ययः आगच्छति, तर्हि तस्य भसंज्ञकस्य टि-संज्ञकस्य लोपः जायते । यथा, ‘अन्य’ इत्यस्य सर्वनामशब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य रूपसिद्धौ - अन्य + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → अन्य + अद् [स्वमोर्नपुंसकात् (7.1.23) इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन अतोऽम् (7.1.24) इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन अद्ड् डतरादिभ्यः पञ्चभ्यः (7.1.25) इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।] → अन्य् + अद् [अकारादि-प्रत्यये परे अङ्गस्य यचि भम् (1.4.18) इति भसंज्ञा । टेः (6.4.143) इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।] → अन्यद् / अन्यत् [वाऽवसाने (8.4.56) इति विकल्पेन चर्त्वम्] अस्य सूत्रस्य विषये काशिका वदति - ‘डिति अ-भस्य अपि अनुबन्धकरणसामर्थ्यात् टिलोपो भवति’ । इत्युक्ते, यदि कस्मिंश्चित् प्रत्यये डकारः इत्संज्ञकः अस्ति, तस्य किमपि अन्यत् प्रयोजनम् च नास्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य भसंज्ञायाम् न सत्यामपि टिलोपः भवति - डित्वस्य निर्देशसामर्थ्यात् । यथा, ‘कुमुद’ शब्दात् कुमुदनडवेतसेभ्यो ड्मतुप् (4.2.87) इत्यनेन ड्मतुप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे इयम् प्रक्रिया जायते - → ‘कुमुद’ + ड्मतुप् [कुमुदनडवेतसेभ्यो ड्मतुप् (4.2.87) इति मतुप्-प्रत्ययः] → ‘कुमुद’ + मत् [डकारस्य चुटू (1.3.7) इति इत्संज्ञा, उकारस्य उपदेशेऽजनुनासिक इत् (1.3.2) इति इत्संज्ञा । पकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । द्वयोः तस्य लोपः (1.3.9) इति लोपः । ] → कुमुद् मत् [टेः (6.4.143) इति टिसंज्ञकस्य अकारस्य लोपः] → कुमुद्वत् [ झयः (8.2.10) इति मकारस्य वकारादेशः] अस्याम् प्रक्रियायाम् यद्यपि ‘कुमुद्’ शब्दस्य भसंज्ञा न भवति, तथापि डित्करणस्य सामर्थ्यात् अत्र टेः (6.4.143) इत्यस्य प्रसक्तिः अस्ति ।
Sutrartha (English)¶
The ‘टि’component of a भसंज्ञक अङ्ग is removed when followed by a डित् प्रत्यय.
Vasu English Summary¶
Before an affix having an indicatory ड् , the last vowel, with the consonant, if any, that follows it, is elided.
Vasu English Translation¶
Before an affix having an indicatory ड् , the last vowel, with the consonant, if any, that follows it, is elided. Thus कुमुद्वत्, नड्वत् and वेतस्वत् with ड्मतुप् (4.2.87). So also त्रिंशता क्रीतः = त्रिंशकः with ड्वुन् of (5.1.24). The rule applies even to non-bha bases, for effect must be given to the indicatory ड ॥ Thus उपसरजः, मन्दुरजः (3.2.97) with the krit affix उ) ॥
Bhashya¶
टेः (3141) (अभस्यापि टिलोपसाधकभाष्यम्) अभस्योपसंख्यानं कर्तव्यम् । इहापि यथा स्यात् उपसरजः, मन्दुरज इति । डित्यभस्याप्यनुबन्धकरणसार्मथ्याद्भविष्यति ॥
Kashika¶
टिसंज्ञकस्य डिति प्रत्यये परतो लोपो भवति। कुमुद्वान्। नड्वान्। वेतस्वान्। उपसरजः। मन्दुरजः। त्रिंशता क्रीतः त्रिंशकः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् टिलोपो भवति॥
Siddhanta Kaumudi¶
डिति परे भस्य टेर्लोपः स्यात् । वाऽवसाने ॥ कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् प्रथमयोः (SK164) इति पूर्वसवर्णदीर्घः एङ्ह्रस्वात् (SK193) इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ।<!एकतरात्प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥
Laghu Siddhanta Kaumudi¶
डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। एकतरात्प्रतिषेधो वक्तव्यः (वार्त्तिकम्) । एकतरम्॥
Padamanjari¶
डित्यभस्यापीति । श्रवंणार्थस्तु डकारो न भवति, ड्मतुपि तावद् देशे तन्नाम्नि इति वर्तते, न च डकारवता प्रत्ययेन तन्नामा गम्यते देशः । डेऽपि प्रावृट्शरत्कालदिवां जे इति निर्द्दिष्टत्वान्न (वणार्थो डकारः । मन्दुरज इति । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वः ॥
Nyaas¶
कुमुद्वान् इत्यादि। कमुदनडवेतसेभ्यश्चातुरर्थिको ड्मतुप्? (4.2.86) । उपसरजः इति। सप्तम्यां जनेर्डः (3.2.97) एवं मन्दुरजः इत्यत्रापि। अत्र हि ङ्यापोः संज्ञाछन्दसोर्बहुलम् (6.3.63) इति पूर्वपदस्य ह्रस्वत्वम्। तिंरशकः इति। पूर्ववत्? ड्वुन्। ननु च भस्य (6.4.129) इत्यनुवर्तते, न च ड्मतुपि डप्रत्यये च धातोर्विहिते पूर्वस्य भसंज्ञा प्राप्नोति, उभयोरनजादित्वात्? अस्वादित्वाच्च यथायोगम्, तत्? कथमत्र लोपो भवति? इत्याह -डित्यभस्यापि इत्यादि। यदि टिलोपो न स्यात्, तदा डित्त्वमनर्थकं स्यात्। अथैवं कस्मान्न विज्ञातुम्। एवं तर्हि प्रावृट्शरत्कालदिवां जे (6.3.15) इति कृतटिलोपस्य जनेर्निर्देशो नोपपद्येत? तस्मादत एव निर्देशादवसीयते -भवति धातुप्रत्ययडकारस्येत्संज्ञेति। तस्याञ्चासत्यां यदि टिलोपो न स्यात्, तस्यास्तदा वैयथ्र्यं स्यात्। ड्मतुपोऽपि यदि डकारस्य लोपो न स्यात्, तदन्तेन तन्नामादेशो न गम्येत, तत्र च तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67) इति वर्तते। तस्मादवश्यं तत्रापि डकारस्येत्संज्ञया भवितव्यम्, तस्याञ्च तत्सामर्थ्याट्टिलोपेन॥
Praudhamanorama¶
अन्यतमस्य त्विति। एवं च ‘सामान्यादिष्वन्यतमम्’ इत्यादिप्रयोगाः प्रामादिका एवेति भावः। सोरमादेशे इति। यत्तु प्राचोक्तम्—स्वमोरमादेशे वा जरसिति, तद्भाष्यविरुध्दम्। एवं च अजरसं वर्तते इति, हे अजरसमिति चापशब्द एव। अजरसं पश्येति तु प्रयोगः साधुः। किं तु अमादेशे कृते जरस् इति प्राच उक्तिरेवासाध्वी, परत्वाज्जरसो न्याय्यत्वात् पूर्वविप्रतिषेधे प्रमाणाभावाच्च।
Prakriyasarvasvam¶
डिति प्रत्यये परे सर्वत्र टेर्लोपः स्यात् । आह्वायतीत्याह्वः । के कृते तु यजादित्वादुत्वे उवड्याहुव इत्यनिष्टं स्यात् ।
Sarala¶
अत्र कतरत्-कतरद्, कतरे, कतराणि - प्रथमा । पुनरपि - कतरत्-द्, कतरे, कतराणि -द्वितीया। कतरेण, कतराभ्यां, कतरैः - तृतीया । कतरस्मै, कतराभ्यां, कतरेभ्यः - चतुर्थी । कतरस्मात्-द्, कतराभ्यां, कतरेभ्यः - पञ्चमी। कतरस्य, कतरयोः, कतरेषाम् - षष्ठी । कतरस्मिन्, कतरयोः, कतरेषु - सप्तमी । हे कतरत्-द्, हे कतरे, हे कतराणि - इति रूपाणि । इत्येवेति । अन्यतमशब्दस्याऽव्युत्पन्नप्रातिपदिकया डतमप्रत्ययान्तत्वाऽभावान्नाऽद्डादेश इति अतोऽमित्यमादेशं एवेत्यर्थः । यद्यपि - अन्यतरशब्दोऽपि अव्युत्पन्न एव, तथापि तस्य डतरादिगणे पाठादेव ततः स्वमोरद्डादेशः, अन्यतमशब्दस्य तु न गणे पाठ इति न तत्रादेश इत्यवधेयम् । अत एव अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद्द्विबहुविषये निधारणे वर्त्तेते इत्यभियुक्ताः । एकतरशब्दस्य डतरप्रत्ययान्ततयाऽद्डादेशस्य प्रवृत्त्यापत्तिरत आह - एकतरादिति । भो सूत्रकार ! भवता - एकतरशब्दात्परयोः स्वमोरद्डादेशो न भवतीति वक्तव्यमित्यर्थः ॥
Sudha¶
टेरिति । **अल्लोपोऽनः**(6.4.134) इत्यस्माल्लोप इति **ति विंशतेर्डिति**(6.4.142) इत्यतो डितीति चानुवर्तते । भस्येत्यधिकृतम् । तदाह - डितीत्यादिना । कतरत् कतरद् । ‘कतर सु’ अत्र **अद्ड् डतरादिभ्यः पञ्चभ्यः**(7.1.25) इति ‘सु’ इत्यस्य स्थाने अद्डि कृते कतर + अद्ड् इति जाते **हलन्त्यम्**(1.3.3) इति डस्येत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे च कतर + अद् इति भूते **यचि भम्**(1.4.18) इति भसंज्ञायां **टेः**(6.4.143) इति टिसञ्ज्ञकस्य रेफोत्तरवर्त्यकारस्य लोपे मिलित्वा ‘कतरद्’ इति, अत्र **वाऽवसाने**(8.4.56) इति विकल्पेन चर्त्वे ‘कतरत्’ इति च रूपम् । औ - जसोः - कतरे, कतराणि, कतरशब्दात् अम्-औट्-शस्सु पूर्ववत् कतरत् कतरद्, कतरे, कतराणि । हे कतरत् इति । कतर + सु इति स्थिते **एकवचनं संबुद्धिः**(2.3.49) इति सम्बुद्धिसञ्ज्ञायाम् **अद्ड् डतरादिभ्यः पञ्चभ्यः**(7.1.25) इति सु - इत्यस्य स्थाने अद्डादेशे कृते डकारस्येत्संज्ञायां लोपे च भसंज्ञायां टिलोपे च कृते ‘कतर् - अत्’ अत्र यद् ह्रस्वान्तं तदङ्गं न, यच्चाङ्गं - ‘कतर्’ इति तद् ह्रस्वान्तं न । इति न **एङ्ह्रस्वात् सम्बुद्धेः**(6.1.69) इति तलोप इति भावः । तदाह - हे कतरद् इति । शेष पुंवदिति । सर्ववदित्यर्थः । एवं कतमदिति । अस्य डतमन्तत्वादिति भावः । अन्यतमस्येति । तस्याव्युत्पन्नप्रातिपदिकत्वेन डतमप्रत्ययान्तत्वाभावेन तत्राद्डादेशो नेत्यर्थः । **एकाच्च प्राचाम्**(5.3.94) इति डतरन्तादेकत्तरशब्दात् स्वमोरद्डादेशे प्राप्ते आह - एकतरादित्यादिना । एकतरशब्दात्परयोः स्वमोरद्डादेशप्रतिषेधो वक्तव्यः इत्यर्थः ।