64136: विभाषा ङिश्योः¶
Padacheda: विभाषा | S | 1 | 1 |
ङिश्योः | S | 7 | 2 |
Sutrartha¶
‘अन्’ यस्य अन्ते, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य ङि-प्रत्यये शी-प्रत्यये वा परे विकल्पेन लोपः भवति ।
अल्लोपोऽनः (6.4.134) इत्यनेन सूत्रेण ‘अन्’ यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य नित्यं लोपः भवति । परन्तु अयं लोपः ङि-प्रत्यये परे , शी-प्रत्यये च परे केवलं विकल्पेनैव भवति । यथा - 1. नामन्-शब्दस्य प्रथमा-द्विवचनस्य रूपसिद्धौ ‘नामन् + औ’ इत्यत्र नपुंसकाच्च (7.1.19) इत्यनेन औ-प्रत्ययस्य शी-आदेशे कृते ‘नामन् + शी’ इत्यत्र यचि भम् (1.4.18) इत्यनेन नामन्-शब्दः भसंज्ञां प्राप्नोति । ततः अन्तिम-नकारात् पूर्वः यः अकारः तस्य विकल्पेन लोपः भवति । अतः ‘नामनी / नाम्नी’ एतादृशं रूपद्वयं सिद्ध्यति । 2. राजन्-शब्दस्य सप्तम्येकवचनस्य ङि-प्रत्यये परे ‘राजन् + ङि’ इति स्थिते वर्तमानसूत्रेण जकारोत्तरस्य अकारस्य वैकल्पिकं लोपं कृत्वा ‘राजनि / राज्ञि’ एते द्वे रूपे भवतः । अल्लोपोऽनः (6.4.134) इत्यनेन निर्दिष्टः अकारलोपः अनेन सूत्रेण विकल्प्यते । अतः एतत् नियमसूत्रम् ।
Sutrartha (English)¶
If a भसंज्ञक अङ्ग end in the word ‘अन्’ and is followed by the ङि or शी प्रत्यय, then the ‘अ’ of this ‘अन्’ is omitted optionally.
Vasu English Summary¶
In a अङ्ग (stem) ending in अन् , the अ is optionally elided before the Locative -7th case ending इ before the ending शी (ई) of the Nominative 1st-Case and Accusative-2nd case dual Neuter.
Vasu English Translation¶
In a अङ्ग (stem) ending in अन् , the अ is optionally elided before the Locative -7th case ending इ before the ending शी (ई) of the Nominative 1st-Case and Accusative-2nd case dual Neuter. As राज्ञि or राजनि, साम्नि or सामनि, साम्नी or सामनी (7.1.19).
Kashika¶
ङौ परतः शीशब्दे चानो विभाषाकारलोपो भवति। राज्ञि, राजनि। साम्नि, सामनि। साम्नी, सामनी॥
Siddhanta Kaumudi¶
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः । यूष्णि । यूषणि । पक्षे रामवत् । पद्दन्न (SK228) इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम् । तथाच । औङः श्यामपि दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः । तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते । आसन्यं प्राणमूचुरिति च । आस्ये भव आसन्यः । दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात् । तेन दक्षिणं दोर्निशाचर इति सङ्गच्छते । भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि । दोषं तस्य तथाविधस्य भजत इति । द्वयोरह्नोर्भवो द्व्यह्नः ॥
Laghu Siddhanta Kaumudi¶
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥
Balamanorama¶
विभाषा ङिश्योः - विभाषा ङिश्योः । ‘अल्लोपोऽन’ इत्यनुवर्तते ।अङ्गस्ये॑तिभस्ये॑ति चाधिकृतं ।भस्ये॑त्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वे पूर्ववदनो लभ्यते । तदाह — अङ्गावयव इति । ङिश्योरिति । ङिश्च शी चेति विग्रहः ।नपुंसकाच्चे॑ति विहित एवाऽत्र शी गृह्रते, नतु जश्शसोश्शिः, तस्मिन् परे भत्वाऽसम्भवात् । पक्षे इति । यूषन्नादेशाऽभावपक्षे इत्यर्थः । अथ क्वचिच्छसादिभ्योऽन्यत्रापि पदाद्यादेशं साधायितुमाह — पद्दन्न इतीति । प्रकारेति । प्रकारः सादृश्यम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति — अत एवेति । प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः ।ककुद्दोषणी याचते महादेवः॑ इत्येवं भाष्ये औङादेशभूतशीभावे परत उदाहृतो दोषन्नादेशोऽत एव सङ्गच्छते इत्यन्वयः । तेनेति । प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः ।पदङ्घ्रि॑रित्यत्रप॑दिति प्रथमैकवचनम्,स्वान्तं ह्म॑दित्यत्र ह्मदिति च सङ्गच्छत इत्यर्थः । आदिना निशादिसङ्ग्रहः । आसन्यं प्राणमिति । आसन्यं प्राणमूचुरिति चाऽत एव सङ्गच्छते इत्यन्वयः । आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति — आस्ये भव इति । प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः ।शरीरावयवाच्चे॑त्यास्यशब्दाद्भवार्थे यत्प्रत्यये आसन्नादेशः । ‘ये चाऽभावाकर्मणोः’ इति प्रकृतिभावा॑न्नस्तद्धिते॑ इति टिलोपो न । प्रभृतिग्रहणस्य प्रकारार्थत्वाऽभावे त्विहाऽऽसन्नादेशो न स्यात्, यत्प्रत्ययस्य । शसादिषु सुप्स्वनन्तर्भावादिति भावः । ननु ‘दोषणी’ इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः,दोषं तस्य तथाविधस्ये॑त्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह — दोष्शब्दस्य द्वितीयैकवचनं दोरिति । पुंस्त्वे दोषमिति स्यादिति भावः । ननु भाष्यानुसाराद्दोष्शब्दस्य नपुंसकत्वमेव स्यादित्यत आह — भुजेति ।भुजबाहू प्रवेष्टो दो॑रिति कोशात्पुंस्त्वमपीत्यर्थः । नन्वयं कोशो दोष्शब्दस्य नपुंसकत्वेऽप्युपपन्न इत्यत आह-साहचर्यादिति । पुंलिङ्गभुजादिशब्दसाहचर्यादित्यर्थः ।साहचर्याच्च कुत्रचि॑दिति कोशे परिभाषितत्वादिति भावः । दोष्शब्दस्य पुंस्त्वसाधने फलं दर्शयति — दोषं तस्येति ।दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुण॑मिति श्रीहर्षः । दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम्, अतिशयं च गृह्णन्नित्यन्वयः । अत्र दोषमिति दोष्शब्दस्य पुंलिङ्गद्वितीयैकवचनम् । अत्रसु प्रभृतिष्वि॑ति वाच्येशस्प्रबृतिष्वि॑ति वचनात्सुपि क्वचिदेव पदाद्यादेशा इति गम्यते । द्वयोरह्नोरिति । ‘तद्धितार्थ’ इति समासः ।कालाठ्ठ॑ञिति ठञ् । ‘द्विगोर्लुगनपत्ये’ इति लुक् ।राजाहः सखिभ्यष्ट॑जिति टच् । ‘अह्नोऽह्न एतेभ्यः’ इत्यह्नादेशः । रामशब्दवद्रूपाणि ।
Tattvabodhini¶
विभाषा ङिश्योः - विभाषा ङिश्योः ।शी॑ति-॒नपुंसकाच्चे॑ति विहितो गृह्रते, न तुजश्शसोः शिः॑ । तस्मिन्नमत्वात् ।भस्ये॑त्यनेनाऽसर्वनामस्थानस्यैव यजादेराक्षेपात् । तदेतदाह — अरुआवनामस्थानेत्यादि । ककुद्दोषणी इति । ककुत् — दोषणी इति च्छेदः । एकपदत्वे त्वनुपपत्तिरनुपदमेव वक्ष्यते । आसन्यमिति ।ये चाभावकर्मणो॑रिति प्रकृतिभावात्नस्तद्धिते॑ इति टिलोपो न । अत एवेति ।ककुद्दोषणी॑ इति प्रयोगादेवेत्यर्थः । यंद्यपि ककुच्चदोश्च तयोः समाहारः ककुद्दोः । ककुद्दोश्च ककुदोश्च ककुद्दोषणी कृते भाष्यं सुयोजमिति दोःशब्दस्य नपुंसकत्वे नेदं प्रमाणं, तथापिककु॑दित्यस्य पृथक्पदत्वमेव न्याय्यम् । अन्यथा बाह्वोर्द्वित्वे लब्धेऽपि ककुद एकत्वं न लभ्येतेति भावः ।तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः॑ इति रघुः । तत्र दक्षिणं दोरुद्यम्य तमुपाद्रवदित्यन्वयः । दोषं तस्येति । अयं च श्रीहर्षप्रयोगः । दोषं हस्तु दूषणं च भजतः चापस्येति संबन्धः । द्वयोरह्नोर्भव इति । तद्धितार्थ इति समासः ।राजाहःसखिभ्य॑ इति टच्,अह्नोऽह्न एतेभ्यः॑ इति अह्नादेशः, कालाट्टञोद्विगोर्लुगनपत्ये॑ इति लुक् ।
Padamanjari¶
जसः शी, औङ् आपः, नपुंसकाच्चेति योऽयं शीशब्दस्तस्येह ग्रहणम्, न जश्ससोः शिः इत्यस्य ह्रस्वान्तस्य तत्र संज्ञाया अभावात् ॥
Nyaas¶
शीशब्दे च इति। एतेन नपुंसकाच्च (7.1.19) इति यो विहितः शोशब्दस्तस्येदं ग्रहणम्, न तु जश्शसोः शिः (7.1.20) इति यो विहितः शिशब्दस्तस्येदं ग्रहणमिति दर्शयति। कुतः पुनरेतज्ज्ञायते? शिशब्दे भसंज्ञाया अभावात्॥
Praudhamanorama¶
शीति ‘नपुंसकाच्च’इति विहितो न तु जश्शसोः शिः, तस्मिन् भत्वासम्भवात्। ‘भस्य’ इत्यनेनासर्वनामस्थानस्यैव यजादेराक्षेपात्तदेतदाह— अत एवेति। दोषणी इति प्रयोगात्। यद्यपि समाहारद्वन्द्वस्य एकशेषे कृतेऽपि भाष्यं सुयोज्यं, तथाऽपि ककुदित्यस्य पृथक्पदत्वं न्याय्यम्। अन्यथा ककुद एकत्वं बाह्वोर्द्वित्वं च न लभ्येत इति भावः। ‘तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः’ इति रघुः। तत्र दक्षिणं दोरिति उद्यम्येत्यनेन कर्मतया सम्बध्यते। दोषं तस्येति। ‘दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुणम्’। इति श्रीहर्षप्रयोगः। तत्र दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीमतिशयं च गृह्णन् इति सम्बन्धः। अमरव्याख्यातारस्तु— दोषशब्दं स्त्रियामपि स्वीकृत्य भागुरिमतेन टापि दोषेत्युक्त्वा— ‘दोर्दोषा च भुजो बाहुः पाणिर्हस्तः करस्तथा’ इति धनञ्जयनिघण्टुमुदाजह्रुः। द्वयोरह्नोर्भव इति। ‘तद्धितार्थ’ इति समासः, कालाट्ठञ्। ‘द्विगोर्लुगनपत्ये’ इति लुक्। ‘राजाहःसखिभ्यः’ इति टच्। ‘अह्नोऽह्न एतेभ्यः’ इत्यह्नादेशः।
Prakriyasarvasvam¶
अन्नन्तस्य भस्य ङिश्योः परयोरल्लोपो वा स्यात् । यूष्णि, यूषणि । आदेशाभावे यूषान्, यूषेण, यूषाभ्यामित्यादि । पदादयः पृथक्छब्दाः इत्येके । तन्मते पत् पदावित्याद्यपि । द्वयोरह्नोर्भवो द्व्यह्नः अस्य ङौ,
Sudha¶
विभाषा ङिश्योरिति । **अल्लोपोऽनः**(6.4.134) इत्यनुवर्तते । अङ्गस्येति भस्येति चाधिकृतम् । भस्येत्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वं पूर्ववदनो लभ्यते । तदाह - अङ्गावयव इत्यादिना । ङिश्योरिति । ङिश्च शी चेति विग्रहः । **नपुंसकाच्च**(7.1.19) इति विहित एवात्र शी गृह्यते । न तु जश्शसोरिशः, तस्मिन् परे भत्वासम्भवात् । दध्नि, दधनि । दधि + ङि अत्र **अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः**(7.1.75) इत्यनङि **विभाषा ङिश्योः**(6.4.136) इत्यनेन अन्सम्बन्धिनोऽकारस्य लोपे ‘दघ्नि’ इति । लोपाभावपक्षे ‘दधनि’ इति रूपम् । शेष वारिवदिति । प्रथमाद्वितीययोः भ्यामादौ हलि च वारिवदित्यर्थः । सुधि । सुधी+सु अत्र **ह्रस्वो नपुंसके प्रातिपदिकस्य**(1.2.47) इति ह्रस्वत्वे **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे ‘सुधि’ इति रूपम् । सुधिनी । सुधी + औ अत्र **ह्रस्वो नपुंसके प्रातिपदिकस्य**(1.2.47) इति ह्रस्वत्वे **नपुंसकाच्च**(7.1.19) इति औकारस्य शीत्वे शस्येत्सञ्ज्ञायां लोपे च ‘सुधि ई’ इति जाते **इकोऽचि विभक्तौ**(7.1.73) इति नुमि च विहिते ‘सुधिनी’ इति रूपम् । सुधीनि । सुधी+जस् अत्र क्लीवत्वद्घ्रस्वे विहिते **जश्शसोः शिः**(7.1.20) इति जसः स्थाने शित्वे **शि सर्वनामस्थानम्**(1.1.42) इति शेः सर्वनामस्थानत्वे शस्य लोपे **इकोऽचि विभक्तौ**(7.1.73) इति नुमि, उकारमकारयोरित्संज्ञकत्वे लोपे च **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपधाया दीर्घत्वे संयोगे च कृते ‘सुधीनि’ इति रूपम् ।
Sutra Prayogas¶
दधनि (शिशुपालवधम्): विभाषा ङिश्योः इति विकल्पादल्लोपाभावः।