64131: वसोः सम्प्रसारणम्¶
Padacheda: वसोः | S | 6 | 1 |
सम्प्रसारणम् | S | 1 | 1 |
Sutrartha¶
वस्वन्तस्य भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति ।
‘वस्वन्त’ इत्युक्ते यस्य अन्ते ‘वस्’ प्रत्ययः अस्ति सः । यद्यपि अस्मिन् सूत्रे ‘वसोः’ इति उक्तमस्ति, तथापि तदन्तविधिना वस्वन्तस्यापि ग्रहणं भवति । सूत्रपाठे द्वयोः स्थलयोः वस्-प्रत्ययः विधीयते । 1. विदेः शतुर्वसुः (7.1.36) इत्यनेन विद्-धातोः परस्य शतृ-प्रत्ययस्य वस्-आदेशः भवति । 2. क्वसुश्च (3.2.107) अनेन लिट्-लकारस्य छन्दसि विषये ‘क्वसु’ आदेशः विधीयते । अत्र ककार-उकारयोः इत्संज्ञा भवति, अतः दृश्यरूपेण वस्-प्रत्ययः एव जायते । एतादृशः वस्-प्रत्ययान्तम् यत् भसंज्ञकमङ्गम्, तस्य वकारस्य सम्प्रसारणम् भवति । इग्यणः सम्प्रसारणम् (1.1.45) इत्यनेन वकारस्य सम्प्रसारणरूपेण उकारः जायते । यथा - 1) ‘विद्वस्’ अयं वस्-प्रत्ययान्तशब्दः । तस्य तृतीयैकवचनस्य रूपसिद्धिः इयम् - विद्वस् + टा [तृतीयैकवचनस्य प्रत्ययः । यचि भम् (1.4.18) इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।] → विद् उ अ स् + आ [वसोः सम्प्रसारणम् (6.4.131) इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः] → विद् उ स् + आ [सम्प्रसारणाच्च (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → विदुषा [आदेशप्रत्यययोः (8.3.59) इति सकारस्य षकारः] 2) ‘सेदिवस्’ अयं क्वसु-प्रत्ययान्तशब्दः । ‘सद्’ धातोः क्वसु-प्रत्यये कृते अयं प्रातिपदिकं सिद्ध्यति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् - सेदिवस् टा [तृतीयैकवचनस्य प्रत्ययः । यचि भम् (1.4.18) इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।] → सेद् उ अ स् आ [वसोः सम्प्रसारणम् (6.4.131) इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः । सम्प्रसारणकारणं दृष्ट्वा इडागमः अकृतव्यूहाः पाणिनीयाः अनया परिभाषया विनश्यति । ] → सेद् उ स् आ [सम्प्रसारणाच्च (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → सेदुषा [आदेशप्रत्यययोः (8.3.59) इति सकारस्य षकारः]
Sutrartha (English)¶
A भसंज्ञक अङ्ग ending in a वसुँ प्रत्यय undergoes सम्प्रसारणम्.
Vasu English Summary¶
The semi-vowel of the affix वस् (वंस्) is vocalised to उ in a भ अङ्ग (stem).
Vasu English Translation¶
The semi-vowel of the affix वस् (वंस्) is vocalised to उ in a भ अङ्ग (stem). Thus विदुषः पश्य, विदुषा, विदुषे, पेचुषः पश्य, पेचुषा, पेचुषे, ययुषः पश्य ॥ For the purposes of the elision of आ (6.4.64), vocalisation under the present sutra should not be considered as asiddha (6.4.22). Thus पा + क्वसु (3.2.107) = पपा + वस् = पपा + उस् + शस् (6.4.131), (6.1.108). Now if उ were to be considered as asiddha, then the affix does not begin with a vowel, and we can not apply (6.4.64), which requires the elision of आ, but the samprasarana is not considered assiddha, and we have पप् + उस् + अस् = पपुषः पश्य ॥ In the nominative, where the stem is not भ, we have पपा + वस् + स् = पपी + वस् + स (6.4.66) = पपीवान् (7.1.70), (6.4.10), (6.1.68) and (8.2.23). The affix क्वसु is included in वसु for the purposes of samprasarana.
Kashika¶
वस्वन्तस्य भस्य संप्रसारणं भवति। विदुषः पश्य। विदुषा। विदुषे। पेचुषःपश्य। पेचुषा। पेचुषे। पपुषः पश्य। आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वं न भवति। वसुग्रहणे क्वसोरपि ग्रहणमिष्यते॥
Siddhanta Kaumudi¶
वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं (SK334)इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । [(परिभाषा - ) अकृतव्यूहा] इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः (SK317) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥
Laghu Siddhanta Kaumudi¶
वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥
Balamanorama¶
वसोः सम्प्रसारणम् - शसादावचि विशेषमाह — वसोः संप्रसारणं । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणं भस्येत्यधिकृतं । तदाह — वस्वन्तस्येति । पूर्वेति । शसि वकारस्य उत्वे विदु अस् इति स्थिते,संप्रसारणाच्चे॑ति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात्सस्य षत्वमित्यर्थः । ‘षत्वतुकोरसिद्ध’ इति पूर्वरूपस्याऽसिद्धत्वं न शङ्क्यं, पदान्तपदाद्योरेकादेश एव तत्प्रवृत्तेः । सुपि दत्वे चर्त्वम् । विद्वत्सु । सेदिवानिति ।षद्वलृ विशरणगत्यवसादनेषु॑धात्वादेः षः सः॑,भाषायां सदवसश्रुवः॑ इति लिटः क्वसुः, उकावितौ, ‘लिटि धातोः’ इति द्वित्वं, हलादिशेषः, ‘अत एकहल्मध्ये’ #इत्येत्त्वाभ्यासलोपौ,वस्वेकाञाद्धसा॑मिति इट् । सेदिवस्शब्दः । ततः सुः, उगित्त्वान्नुम्, ‘सान्तमहतः’ इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाऽभावान्न दत्वमिति भावः । सेदिवांसाविति । नुमि ‘सान्तमहतः’ इति दीर्घः । ननु उक्तरीत्या निषपन्नात्सेदिवस्शब्दाच्छसिवसोः संप्रसारण॑मिति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि ‘सेद्युषः’ इति स्यात् । ततश्च ‘सेदुषः’ इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्संप्रसारणरूपकार्यं पर्यालोच्य पूर्वमेव इट् न प्रवर्तते, पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम्, एवमपि बहिर्भूतयजाद्यसर्वनामस्थानस्वादिप्रत्ययनिमित्तकभसंज्ञापेक्षतया संप्रसारणस्याङ्गस्य बहिरङ्गत्वेन इडागमस्यैवान्तरङ्गत्वात्प्रथमं प्रवृत्तेः, परादन्तरङ्गस्य बलवत्त्वादित्यत आह — अन्तरङ्गोऽपीति । अकृतेति । भविष्यता संप्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु, तथापि वकारस्य संप्रसारणे उत्वे कृते, यणि सत्यपि संप्रसारणस्य बहिरङ्गत्वेनाऽसिद्धत्वात् ‘लोपो व्योः’ इति लोपे ‘सेदुष’ इति रूपं सिद्धम् । नचनाजानन्तर्ये बहिष्ट्वप्रकॢप्ति॑रिति निषेधः शङ्क्यः, उत्तरकालप्रवृत्तिकेऽजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किंच कृते इटि संप्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ ‘सेदुष’ इति निर्बाधं ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायात् । किंच पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीर्घोपस्थितिकत्वात्प्रथमं संप्रसारणे वलादित्वाऽभावादिटः प्राप्तिरेव नास्तीति ‘सेदुषः’ इति निर्बाधमित्याहुः । इत्यादीति । सुपि — सेदिबत्सु । ‘हिसिं हिंसायाम्’ इदित्त्वान्नुम्, सुपूर्वात्क्विप्, इदित्त्वान्नलोपो न,नश्चे॑त्यनुस्वारः, सुहुंस्शब्दात्सोर्लोपः, सकारस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । नापिसर्वनामस्थाने चे॑ति दीर्घः । निमित्तापायादनुस्वारनिवृत्तिः । सुहिन् इति सौ रूपं वक्ष्यति । तत्र ‘सान्तमहतः’ इति दीर्घमाशङ्क्य आह — सान्तेति । सुहिन्भ्यामिति । ‘स्वादिषु’ इति पदान्तत्वात्सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तिरिति भावः । सुबिन्स्विति । संयोगान्लोपेऽनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवरुआंसने कृतानुस्वारनिर्देशः । क्विप्, अनुस्वारस्याऽसिद्धत्वात् ‘ अनिदिताम्’ इति नलोपः । सोर्लोपः । ‘वसुरुआंसु’ इति दत्वम् । ‘वाऽसाने’ इति चर्त्वविकल्प इति भावः । एवमिति । ‘रुआंसु अवरुआंसने’ क्विबादि पूर्ववदिति भावः । ‘पूञ्पवने’ अस्मात् ‘पूञो डुम्सुन्’ इति उणादिसूत्रेण डुम्सुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पुंस्शब्दात्सुबुत्पत्तिः ।
Tattvabodhini¶
वसोः सम्प्रसारणम् - वसोः । प्रत्ययग्रहणे तदन्तग्रहणमित्याह — वस्वन्तस्येति । सेदिवानिति ।भाषायां सदवसश्रुवः॑इति लिटः क्वसुः ।लिटि धातो॑रितिद्वित्वम्,हलादिः शेषः॒॑अत एकहल्मध्ये॑इत्येत्वाभ्यासलोपौ ।वस्वेकाजाद्धसा॑मितीट् । नुम् ।सान्ते॑ति दीर्घः । सेदुष इति । ननुतदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयाविदेः शतुर्वसु॑रित्यस्यैव वसोः संप्रसारणं युक्तं, न तु क्वसोः । सत्यम् । वसोरुकारानुबन्धकरणं क्वसोः सामान्यग्रहणार्थम् । उगित्त्वस्य स्थामिवद्भावेनाऽपि सिद्धेः । इह गमिप्रभृतिभ्यः क्वसुर्नोदाहृतः, छान्दसत्वात् । अतएव वैदिकप्रक्रियायां॒तस्थिवान्जग्निवान्इत्याद्युदाहर्तव्यं नाऽत्रेत्याहुः । कवयस्तु प्रयुञ्जते — ॒श्रेयांसि सर्वाण्यधिजग्मुषस्ते॑ ।तं तस्थिवांसं नगरोपकण्ठे॑इत्यादि । अत्र वदन्ति — छान्दसा अप् ।येके पद्ददादय इव क्वचिद्भाषायां भवन्ति,मासश्छन्दसी॑त्यस्य सामान्यापेक्षज्ञापकत्वाश्रयणा[दिति]कथंचित्सामाधेयमिति । सुहिनिति । संयोगान्तलोपस्याऽसिद्धत्वान्नोपधादीर्घः । सुहिन्त्स्विति ।नश्चे॑ति सस्य वा धुट् । ध्वसत इति ध्वत् । रुआंसत इति रुआत् ।॒रुआसु ध्वंसु अवरुआंसने॑ध्वंसु गतौ याचने चे॑त्याभ्यां क्विप् ।अनिदिता॑मिति नलोपः ।वसुरुआसु॑इति दत्वम् ।
Padamanjari¶
पेचुष इति । पक्षेः क्वसुः, एत्वाभ्यासलापौ । कथं पुनर्व्द्यनुबन्धकस्य क्वसोर्ग्रहणम् इत्याह - वसुग्रहण इति । एतच्च शात्रादेशास्य वसोरुकारानुबन्धकरणाल्लभ्यते, तस्य ह्यएतदेव प्रयोजनम् - इह सामान्यग्रहणं यथा स्यादिति उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात् ॥
Nyaas¶
प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) तदन्तस्य कार्यं विज्ञायत इत्याह -वस्वन्तस्य, इत्यादि। `विदुषः इति। विदेः शतुर्वसुः (7.1.36) । पेचषः इति। क्वसुश्च (3.2.107) इति लिटः क्वमुः, अत एकहल्मध्ये (6.4.120) इत्यादिनैत्तवाभ्यासलोपौ। पपुषः इति। आतो लोप इटि च (6.4.64) इत्याकारलोपः। ननु चाकारलोपे कर्तव्ये सम्प्रसारणमसिद्धम्, तत्? कुतोऽत्राकारलोपः? इत्याह -आकारलोपे कर्तव्ये इत्यादि। आकारलोपः सम्प्रसारणे, तत्तु विभक्ताविति वयाश्रयत्वम्, अतो नास्त्यसिद्धत्वम्। ननु च एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति, तदनुबन्धकग्रहणे नातदनुबन्धकस्य (व्या।प।54) इति वा न क्वसोरिह ग्रहणेन भवितव्यम्, तत्? कथं पपुषः, पेचुष इत्यत्र सम्प्रसारणं भवति? इत्याह -वसुग्रहणे इत्यादि। एतत्तु शत्रादेशस्य वसोरुकारानुबन्धकरणाद्वेदितव्यम्। उकारानुबन्धस्य ह्रेतदेव फलम् -इह सामान्येन ग्रहणं यथा स्यात्। ननु चोगत्त्वार्थं तत्? स्यात्? नैतत्; उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात्॥
Praudhamanorama¶
सेदिवानिति। ‘भाषायां सदवसश्रुवः’ इति क्वसुः। सेदुष इति। ननु ‘तदनुबन्धकग्रहणे नातदनुबन्धकस्य’ इति परिभाषया ‘विदेः शतुर्वसुः’ इत्यस्यैव वसोः सम्प्रसारणं युक्तं न तु क्वसोः; सत्यम्। वसोरुकारानुबन्धग्रहणं क्वसोः सामान्यग्रहणार्थम्, उगित्त्वस्य स्थानिवद्भावेनापि सिद्धेः। इह गमिप्रभृतिभ्यः क्वसुर्नोदाहृतश्छान्दसत्वात्। कवयस्तु प्रयुञ्जते। ‘श्रेयांसि सर्वाण्यधिजग्मुषस्ते’ ‘तं तस्थिवांसं नगरोपकण्ठे’ इत्यादि, ‘छान्दसा अपि क्वचिद्भाषायां भवन्ती’ति ‘मासश्छन्दसि’ इति सामान्यापेक्षज्ञापकमाश्रित्य कथंचित्समाधेयम्।
Prakriyasarvasvam¶
भस्य वसोः सम्प्रसारणं स्यात् । आदेशसत्वात् षत्वम् । विदुष्मान् ग्रामः । मतौ बह्वच’ (६-३-१११) इति नाम्नि दीर्घदिमरावती ॥ <karika>भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ ३३६ ॥</karika> <karika>भूमाथे गुणवान् राजा निन्दार्थे गन्धवाञ्छकः । प्रशंसायां रूपवती नित्यत्वे क्षीरवान् द्रुमः ॥ ३३७ ॥</karika> <karika>विद्यावानित्यतिशये संसर्गे कुण्डली नरः । अस्तित्वे भूर्गन्धवती तत्सत्तैव विवक्ष्यते ॥ ३३८ ॥</karika> न कर्मधारयान्मत्वर्थीयो बहुव्रीहेर्लाघवात्’ । फुल्लपङ्कजा नदी भूमाद्यर्थव्यत्यये तु फुल्लपङ्कजवतीत्यपि स्यात् । अकृच्छ्रिणीति कर्मधारयादप्युक्तेः लाघवमनादृत्यमेवेति हरः ।<!गुणवचनेभ्यो मतुपो लुग्वाच्यः!> (वा०) । शुक्लो गुणोस्यास्तीति शुक्लः पटः ॥
Sudha¶
वसोः सम्प्रसारणमिति । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणम् । **भस्य**(6.4.129) इत्यधिकृतम् । तदाह - वस्वन्तस्येत्यादिना । विदुषः । विद्वस् + शस् अत्र **लशक्वतद्धिते**(1.3.8) इति शकारस्येत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे **यचि भम्**(1.4.18) इति भसंज्ञायाम् **वसोः सम्प्रसारणम्**(6.4.131) इति वस्य स्थाने उकाररूपे सम्प्रसारणे कृते ‘विद् उ अस् अस्’ इति जाते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपैकादेशे विदुस्+अस् इति जाते **आदेशप्रत्यययोः**(8.3.59) इति प्रत्ययावयवत्त्वात् सस्य षत्वे संयोगे च कृते ‘विदुषस्’ इति भूते अन्त्यसकारस्य **ससजुषो रुः**(8.2.66) इति रुत्वे उकारस्येत्संज्ञायां लोपे च **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रेफस्य विसर्गत्वे ‘विदुषः’ इति रूपम् । विद्वद्भयाम् । विद्वस्+भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **वसुस्रंसुध्वंस्वनडुहां दः**(8.2.72) इति सस्य दत्वे ‘विद्वद्भ्याम्’ इति । विद्वस्+सुप् इत्यत्र पकारस्येत्संज्ञायां लोपे च पदसंज्ञायां **वसुस्रंसुध्वंस्वनडुहां दः**(8.2.72) इति सस्य दत्वे तस्य **खरि च**(8.4.55) इत्यनेन चर्त्वे ‘विद्वत्सु’ इति ।