64131: वसोः सम्प्रसारणम् ======================== **Padacheda:** वसोः | S | 6 | 1 | सम्प्रसारणम् | S | 1 | 1 | Sutrartha --------- **वस्वन्तस्य भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति ।** 'वस्वन्त' इत्युक्ते यस्य अन्ते 'वस्' प्रत्ययः अस्ति सः । यद्यपि अस्मिन् सूत्रे 'वसोः' इति उक्तमस्ति, तथापि तदन्तविधिना वस्वन्तस्यापि ग्रहणं भवति । सूत्रपाठे द्वयोः स्थलयोः वस्-प्रत्ययः विधीयते । 1. **विदेः शतुर्वसुः** (7.1.36) इत्यनेन विद्-धातोः परस्य शतृ-प्रत्ययस्य वस्-आदेशः भवति । 2. **क्वसुश्च** (3.2.107) अनेन लिट्-लकारस्य छन्दसि विषये 'क्वसु' आदेशः विधीयते । अत्र ककार-उकारयोः इत्संज्ञा भवति, अतः दृश्यरूपेण वस्-प्रत्ययः एव जायते । एतादृशः वस्-प्रत्ययान्तम् यत् भसंज्ञकमङ्गम्, तस्य वकारस्य सम्प्रसारणम् भवति । **इग्यणः सम्प्रसारणम्** (1.1.45) इत्यनेन वकारस्य सम्प्रसारणरूपेण उकारः जायते । यथा - 1) 'विद्वस्' अयं वस्-प्रत्ययान्तशब्दः । तस्य तृतीयैकवचनस्य रूपसिद्धिः इयम् - विद्वस् + टा [तृतीयैकवचनस्य प्रत्ययः । **यचि भम्** (1.4.18) इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।] → विद् उ अ स् + आ [**वसोः सम्प्रसारणम्** (6.4.131) इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः] → विद् उ स् + आ [**सम्प्रसारणाच्च** (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → विदुषा [**आदेशप्रत्यययोः** (8.3.59) इति सकारस्य षकारः] 2) 'सेदिवस्' अयं क्वसु-प्रत्ययान्तशब्दः । 'सद्' धातोः क्वसु-प्रत्यये कृते अयं प्रातिपदिकं सिद्ध्यति । अस्य तृतीयैकवचनस्य प्रक्रिया इयम् - सेदिवस् टा [तृतीयैकवचनस्य प्रत्ययः । **यचि भम्** (1.4.18) इति अजादिप्रत्यये परे अङ्गस्य भसंज्ञा ।] → सेद् उ अ स् आ [**वसोः सम्प्रसारणम्** (6.4.131) इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य वकारस्य सम्प्रसारणमुकारः । सम्प्रसारणकारणं दृष्ट्वा इडागमः **अकृतव्यूहाः पाणिनीयाः** अनया परिभाषया विनश्यति । ] → सेद् उ स् आ [**सम्प्रसारणाच्च** (6.1.108) इति उकार-अकारयोः एकः पूर्वरूपः उकारः] → सेदुषा [**आदेशप्रत्यययोः** (8.3.59) इति सकारस्य षकारः] Sutrartha (English) ------------------- A भसंज्ञक अङ्ग ending in a वसुँ प्रत्यय undergoes सम्प्रसारणम्. Vasu English Summary -------------------- The semi-vowel of the affix वस् (वंस्) is vocalised to उ in a भ अङ्ग (stem). Vasu English Translation ------------------------ The semi-vowel of the affix वस् (वंस्) is vocalised to उ in a भ अङ्ग (stem). Thus विदुषः पश्य, विदुषा, विदुषे, पेचुषः पश्य, पेचुषा, पेचुषे, ययुषः पश्य ॥ For the purposes of the elision of आ (6.4.64), vocalisation under the present *sutra* should not be considered as *asiddha* (6.4.22). Thus पा + क्वसु (3.2.107) = पपा + वस् = पपा + उस् + शस् (6.4.131), (6.1.108). Now if उ were to be considered as *asiddha*, then the affix does not begin with a vowel, and we can not apply (6.4.64), which requires the elision of आ, but the *samprasarana* is not considered *assiddha*, and we have पप् + उस् + अस् = पपुषः पश्य ॥ In the nominative, where the stem is not भ, we have पपा + वस् + स् = पपी + वस् + स (6.4.66) = पपीवान् (7.1.70), (6.4.10), (6.1.68) and (8.2.23). The affix क्वसु is included in वसु for the purposes of *samprasarana*. Kashika ------- वस्वन्तस्य भस्य संप्रसारणं भवति। विदुषः पश्य। विदुषा। विदुषे। पेचुषःपश्य। पेचुषा। पेचुषे। पपुषः पश्य। आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वं न भवति। वसुग्रहणे क्वसोरपि ग्रहणमिष्यते॥ Siddhanta Kaumudi ----------------- वस्वन्तस्य भस्य संप्रसारणं स्यात् । पूर्वरूपत्वं षत्वम् । विदुषः । विदुषा । वसुस्रुं (SK334)इति दत्वम् । विद्वद्भ्यामित्यादि । सेदिवान् । सेदिवांसौ । सेदिवांसः । सेदिवांसम् । अन्तरङ्गोऽपीडागमः संप्रसारणविषये न प्रवर्तते । [(परिभाषा - ) अकृतव्यूहा] इति परिभाषया । सेदुषः । सेदुषा । सेदिवद्भ्यामित्यादि । सान्तमहतः (SK317) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते नतु धातोः । महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन् । सुहिंसौ । सुहिंसः । सुहिन्भ्याम् । सुहिन्त्सु । ध्वत् । ध्वद् । ध्वसौ । ध्वसः । ध्वाद्भ्याम् । एवं स्रत् ॥ Laghu Siddhanta Kaumudi ----------------------- वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥ Balamanorama ------------ **वसोः सम्प्रसारणम्** - शसादावचि विशेषमाह — वसोः संप्रसारणं । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणं भस्येत्यधिकृतं । तदाह — वस्वन्तस्येति । पूर्वेति । शसि वकारस्य उत्वे विदु अस् इति स्थिते,संप्रसारणाच्चे॑ति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात्सस्य षत्वमित्यर्थः । 'षत्वतुकोरसिद्ध' इति पूर्वरूपस्याऽसिद्धत्वं न शङ्क्यं, पदान्तपदाद्योरेकादेश एव तत्प्रवृत्तेः । सुपि दत्वे चर्त्वम् । विद्वत्सु । सेदिवानिति ।षद्वलृ विशरणगत्यवसादनेषु॑धात्वादेः षः सः॑,भाषायां सदवसश्रुवः॑ इति लिटः क्वसुः, उकावितौ, 'लिटि धातोः' इति द्वित्वं, हलादिशेषः, 'अत एकहल्मध्ये' #इत्येत्त्वाभ्यासलोपौ,वस्वेकाञाद्धसा॑मिति इट् । सेदिवस्शब्दः । ततः सुः, उगित्त्वान्नुम्, 'सान्तमहतः' इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाऽभावान्न दत्वमिति भावः । सेदिवांसाविति । नुमि 'सान्तमहतः' इति दीर्घः । ननु उक्तरीत्या निषपन्नात्सेदिवस्शब्दाच्छसिवसोः संप्रसारण॑मिति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि 'सेद्युषः' इति स्यात् । ततश्च 'सेदुषः' इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्संप्रसारणरूपकार्यं पर्यालोच्य पूर्वमेव इट् न प्रवर्तते, पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम्, एवमपि बहिर्भूतयजाद्यसर्वनामस्थानस्वादिप्रत्ययनिमित्तकभसंज्ञापेक्षतया संप्रसारणस्याङ्गस्य बहिरङ्गत्वेन इडागमस्यैवान्तरङ्गत्वात्प्रथमं प्रवृत्तेः, परादन्तरङ्गस्य बलवत्त्वादित्यत आह — अन्तरङ्गोऽपीति । अकृतेति । भविष्यता संप्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु, तथापि वकारस्य संप्रसारणे उत्वे कृते, यणि सत्यपि संप्रसारणस्य बहिरङ्गत्वेनाऽसिद्धत्वात् 'लोपो व्योः' इति लोपे 'सेदुष' इति रूपं सिद्धम् । नचनाजानन्तर्ये बहिष्ट्वप्रकॢप्ति॑रिति निषेधः शङ्क्यः, उत्तरकालप्रवृत्तिकेऽजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किंच कृते इटि संप्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ 'सेदुष' इति निर्बाधं ।निमित्ताऽपाये नैमित्तिकस्याप्यपायः॑ इति न्यायात् । किंच पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्संप्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीर्घोपस्थितिकत्वात्प्रथमं संप्रसारणे वलादित्वाऽभावादिटः प्राप्तिरेव नास्तीति 'सेदुषः' इति निर्बाधमित्याहुः । इत्यादीति । सुपि — सेदिबत्सु । 'हिसिं हिंसायाम्' इदित्त्वान्नुम्, सुपूर्वात्क्विप्, इदित्त्वान्नलोपो न,नश्चे॑त्यनुस्वारः, सुहुंस्शब्दात्सोर्लोपः, सकारस्य संयोगान्तलोपः, तस्याऽसिद्धत्वान्नलोपो न । नापिसर्वनामस्थाने चे॑ति दीर्घः । निमित्तापायादनुस्वारनिवृत्तिः । सुहिन् इति सौ रूपं वक्ष्यति । तत्र 'सान्तमहतः' इति दीर्घमाशङ्क्य आह — सान्तेति । सुहिन्भ्यामिति । 'स्वादिषु' इति पदान्तत्वात्सस्य संयोगान्तलोपे निमित्ताऽपायादनुस्वारनिवृत्तिरिति भावः । सुबिन्स्विति । संयोगान्लोपेऽनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवरुआंसने कृतानुस्वारनिर्देशः । क्विप्, अनुस्वारस्याऽसिद्धत्वात् ' अनिदिताम्' इति नलोपः । सोर्लोपः । 'वसुरुआंसु' इति दत्वम् । 'वाऽसाने' इति चर्त्वविकल्प इति भावः । एवमिति । 'रुआंसु अवरुआंसने' क्विबादि पूर्ववदिति भावः । 'पूञ्पवने' अस्मात् 'पूञो डुम्सुन्' इति उणादिसूत्रेण डुम्सुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पुंस्शब्दात्सुबुत्पत्तिः । Tattvabodhini ------------- **वसोः सम्प्रसारणम्** - वसोः । प्रत्ययग्रहणे तदन्तग्रहणमित्याह — वस्वन्तस्येति । सेदिवानिति ।भाषायां सदवसश्रुवः॑इति लिटः क्वसुः ।लिटि धातो॑रितिद्वित्वम्,हलादिः शेषः॒॑अत एकहल्मध्ये॑इत्येत्वाभ्यासलोपौ ।वस्वेकाजाद्धसा॑मितीट् । नुम् ।सान्ते॑ति दीर्घः । सेदुष इति । ननुतदनुबन्धकग्रहणे नाऽतदनुबन्धकस्ये॑ति परिभाषयाविदेः शतुर्वसु॑रित्यस्यैव वसोः संप्रसारणं युक्तं, न तु क्वसोः । सत्यम् । वसोरुकारानुबन्धकरणं क्वसोः सामान्यग्रहणार्थम् । उगित्त्वस्य स्थामिवद्भावेनाऽपि सिद्धेः । इह गमिप्रभृतिभ्यः क्वसुर्नोदाहृतः, छान्दसत्वात् । अतएव वैदिकप्रक्रियायां॒तस्थिवान्जग्निवान्इत्याद्युदाहर्तव्यं नाऽत्रेत्याहुः । कवयस्तु प्रयुञ्जते — ॒श्रेयांसि सर्वाण्यधिजग्मुषस्ते॑ ।तं तस्थिवांसं नगरोपकण्ठे॑इत्यादि । अत्र वदन्ति — छान्दसा अप् ।येके पद्ददादय इव क्वचिद्भाषायां भवन्ति,मासश्छन्दसी॑त्यस्य सामान्यापेक्षज्ञापकत्वाश्रयणा[दिति]कथंचित्सामाधेयमिति । सुहिनिति । संयोगान्तलोपस्याऽसिद्धत्वान्नोपधादीर्घः । सुहिन्त्स्विति ।नश्चे॑ति सस्य वा धुट् । ध्वसत इति ध्वत् । रुआंसत इति रुआत् ।॒रुआसु ध्वंसु अवरुआंसने॑ध्वंसु गतौ याचने चे॑त्याभ्यां क्विप् ।अनिदिता॑मिति नलोपः ।वसुरुआसु॑इति दत्वम् । Padamanjari ----------- पेचुष इति । पक्षेः क्वसुः, एत्वाभ्यासलापौ । कथं पुनर्व्द्यनुबन्धकस्य क्वसोर्ग्रहणम् इत्याह - वसुग्रहण इति । एतच्च शात्रादेशास्य वसोरुकारानुबन्धकरणाल्लभ्यते, तस्य ह्यएतदेव प्रयोजनम् - इह सामान्यग्रहणं यथा स्यादिति उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात् ॥ Nyaas ----- प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) तदन्तस्य कार्यं विज्ञायत इत्याह -`वस्वन्तस्य, इत्यादि। `विदुषः` इति। **विदेः शतुर्वसुः** (7.1.36) । `पेचषः` इति। **क्वसुश्च** (3.2.107) इति लिटः क्वमुः, `अत एकहल्मध्ये` (6.4.120) इत्यादिनैत्तवाभ्यासलोपौ। `पपुषः` इति। **आतो लोप इटि च** (6.4.64) इत्याकारलोपः। ननु चाकारलोपे कर्तव्ये सम्प्रसारणमसिद्धम्, तत्? कुतोऽत्राकारलोपः? इत्याह -`आकारलोपे कर्तव्ये` इत्यादि। आकारलोपः सम्प्रसारणे, तत्तु विभक्ताविति वयाश्रयत्वम्, अतो नास्त्यसिद्धत्वम्। ननु च एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य` (व्या।प।52) इति, `तदनुबन्धकग्रहणे नातदनुबन्धकस्य` (व्या।प।54) इति वा न क्वसोरिह ग्रहणेन भवितव्यम्, तत्? कथं पपुषः, पेचुष इत्यत्र सम्प्रसारणं भवति? इत्याह -`वसुग्रहणे` इत्यादि। एतत्तु शत्रादेशस्य वसोरुकारानुबन्धकरणाद्वेदितव्यम्। उकारानुबन्धस्य ह्रेतदेव फलम् -इह सामान्येन ग्रहणं यथा स्यात्। ननु चोगत्त्वार्थं तत्? स्यात्? नैतत्; उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात्॥ Praudhamanorama --------------- **सेदिवानिति।** 'भाषायां सदवसश्रुवः' इति क्वसुः। **सेदुष इति।** ननु 'तदनुबन्धकग्रहणे नातदनुबन्धकस्य' इति परिभाषया 'विदेः शतुर्वसुः' इत्यस्यैव वसोः सम्प्रसारणं युक्तं न तु क्वसोः; सत्यम्। वसोरुकारानुबन्धग्रहणं क्वसोः सामान्यग्रहणार्थम्, उगित्त्वस्य स्थानिवद्भावेनापि सिद्धेः। इह गमिप्रभृतिभ्यः क्वसुर्नोदाहृतश्छान्दसत्वात्। कवयस्तु प्रयुञ्जते। 'श्रेयांसि सर्वाण्यधिजग्मुषस्ते' 'तं तस्थिवांसं नगरोपकण्ठे' इत्यादि, 'छान्दसा अपि क्वचिद्भाषायां भवन्ती'ति 'मासश्छन्दसि' इति सामान्यापेक्षज्ञापकमाश्रित्य कथंचित्समाधेयम्। Prakriyasarvasvam ----------------- भस्य वसोः सम्प्रसारणं स्यात् । आदेशसत्वात् षत्वम् । विदुष्मान् ग्रामः । मतौ बह्वच' (६-३-१११) इति नाम्नि दीर्घदिमरावती ॥ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ ३३६ ॥ भूमाथे गुणवान् राजा निन्दार्थे गन्धवाञ्छकः । प्रशंसायां रूपवती नित्यत्वे क्षीरवान् द्रुमः ॥ ३३७ ॥ विद्यावानित्यतिशये संसर्गे कुण्डली नरः । अस्तित्वे भूर्गन्धवती तत्सत्तैव विवक्ष्यते ॥ ३३८ ॥ न कर्मधारयान्मत्वर्थीयो बहुव्रीहेर्लाघवात्' । फुल्लपङ्कजा नदी भूमाद्यर्थव्यत्यये तु फुल्लपङ्कजवतीत्यपि स्यात् । अकृच्छ्रिणीति कर्मधारयादप्युक्तेः लाघवमनादृत्यमेवेति हरः । (वा०) । शुक्लो गुणोस्यास्तीति शुक्लः पटः ॥ Sudha ----- वसोः सम्प्रसारणमिति । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणम् । **भस्य**(6.4.129) इत्यधिकृतम् । तदाह - वस्वन्तस्येत्यादिना । विदुषः । विद्वस् + शस् अत्र **लशक्वतद्धिते**(1.3.8) इति शकारस्येत्संज्ञायां **तस्य लोपः**(1.3.9) इति लोपे **यचि भम्**(1.4.18) इति भसंज्ञायाम् **वसोः सम्प्रसारणम्**(6.4.131) इति वस्य स्थाने उकाररूपे सम्प्रसारणे कृते 'विद् उ अस् अस्' इति जाते **सम्प्रसारणाच्च**(6.1.108) इति पूर्वरूपैकादेशे विदुस्+अस् इति जाते **आदेशप्रत्यययोः**(8.3.59) इति प्रत्ययावयवत्त्वात् सस्य षत्वे संयोगे च कृते 'विदुषस्' इति भूते अन्त्यसकारस्य **ससजुषो रुः**(8.2.66) इति रुत्वे उकारस्येत्संज्ञायां लोपे च **खरवसानयोर्विसर्जनीयः**(8.3.15) इति रेफस्य विसर्गत्वे 'विदुषः' इति रूपम् । विद्वद्भयाम् । विद्वस्+भ्याम् अत्र **स्वादिष्वसर्वनामस्थाने**(1.4.17) इति पदसंज्ञायां **वसुस्रंसुध्वंस्वनडुहां दः**(8.2.72) इति सस्य दत्वे 'विद्वद्भ्याम्' इति । विद्वस्+सुप् इत्यत्र पकारस्येत्संज्ञायां लोपे च पदसंज्ञायां **वसुस्रंसुध्वंस्वनडुहां दः**(8.2.72) इति सस्य दत्वे तस्य **खरि च**(8.4.55) इत्यनेन चर्त्वे 'विद्वत्सु' इति ।