64129: भस्य

Padacheda: भस्य | S | 6 | 1 |

Sutrartha

अधिकारसूत्रमिदम् । इतः आरभ्य आ-षष्ठाध्याय-परिसमाप्तेः यत्किमपि उच्यते तत् ‘भ’संज्ञकस्य भवति ।

‘भ’ इति व्याकरणविशिष्टा संज्ञा अस्ति । यचि भम् (1.4.18), तसौ मत्वर्थे (1.4.19) तथा अयस्मयादीनि च्छन्दसि (1.4.20) एतैः सूत्रैः अङ्गस्य भसंज्ञा विधीयते । एतादृशस्य भसंज्ञकस्य अङ्गस्य कार्यमस्मिन् अधिकारे उक्तमस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य समाप्तिपर्यन्तमस्ति । इत्युक्ते, षष्ठाध्यायस्य अन्तिमसूत्रं यावत् उक्तानि कार्याणि ‘भ’संज्ञकस्य अङ्गस्य विषये एव विधीयन्ते ।

Sutrartha (English)

All the rules starting from this sutra, till the end of the sixth chapter are being told for a भसंज्ञक.

Vasu English Summary

Whatever will be taught in the following up to the end of this अध्याय should be understood to apply to the nominal stems called भ – यचि भम् (1.4.18), तसौ मत्वर्थे (1.4.19).

Vasu English Translation

Whatever will be taught in the following up to the end of this अध्याय should be understood to apply to the nominal stems called भ – यचि भम् (1.4.18), तसौ मत्वर्थे (1.4.19). Thus sutra (6.4.130) says ‘पद् is the substitute of पाद्’ ॥ It means पद् is substituted for पाद् when the latter gets the designation of भ ॥ Thus द्विपदः पश्य, द्विपदा कृतम् but द्विपादौ, दिपादः where the affixes are those of Sarvanamasthana.

Kashika

भस्येत्ययमधिकारः, आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामो भस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — पादःपत् (६.४.१३०) — द्विपदः पश्य। द्विपदा कृतम्। भस्येति किम्? द्विपादौ, द्विपादः॥

Siddhanta Kaumudi

अधिकारोऽयम् ॥