64128: मघवा बहुलम्

Padacheda: मघवा | S | 1 | 1 | 6

बहुलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

तृ is diversely substituted for the final of मघवन्।

Vasu English Translation

तृ is diversely substituted for the final of मघवन्। As मघवान्, मघवन्तौ, मघवन्तः, मघवन्तम्, मघवन्तौ, मघवतः, मघवता, मघवती, माघवतम्, ॥ न च भवति, मघवा, मघवानौ, मघवानः, मघवानम्, मघवानौ, मघोनः, मघोना, मघवभ्याम्, मघवभिः, मघोनी, माघवनम् ॥

Bhashya

मघवा बहुलम् (3126) (त्रादेशाधिकरणम्) (सूत्रप्रत्याख्याने श्लोकवार्तिकम्) अर्वणस्तृ मघोनश्च न शिष्यश्छान्दसं हि तत् । अर्वणस्तृ मघोनश्च न शिष्यः । किं कारणम् ? छान्दसं हि तत् । दृष्टानुविधिछन्दसि भवतीति ॥ (प्रत्याख्याने श्लोकवार्तिकम्) मतुब्वन्योर्विधानाच्च मतुब्वनी खल्वपि छन्दसि विधीयेते ॥ (प्रत्याख्याने श्लोकवार्तिकम्) छन्दस्युभयदर्शनात् ॥ उभयं खल्वपि छन्दसि दृश्यते ॥ इमान्यर्वणः पदानि । अनर्वाणं वृषभं मन्द्रजिह्वम् ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे तृतीयमाह्निकम् ॥

Kashika

मघवन्नित्येतस्याङ्गस्य बहुलं तृ इत्ययमादेशो भवति। मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता। मघवती। माघवतम्। न च भवति — मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः। मघोना, मघवभ्याम्, मघवभिः। म॒घोनी॑ (ऋ० १.४८.८)। माघवनम्॥

Siddhanta Kaumudi

मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥

Laghu Siddhanta Kaumudi

मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥

Balamanorama

मघवा बहुलम् - ॒आन्नुक्षन्पूषन्प्लीहनक्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघव॑न्नित्युणादिसूत्रेण निष्पन्ने तस्मिन्मघवन्शब्दे विशेषमाह — मघवा बहुलम् । ‘अर्वणस्त्रासौ’ इत्यतः ‘तृ’ इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् ।मघवे॑ति तु षष्ठर्थे प्रथमा । तदाह — मघवन्शब्देस्येत्यादिना । ऋ इदिति ।उपदेशेऽजनुनासिक इत् इति ऋकार इत्संज्ञक इत्यर्थः । ‘ऋ’ इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति । अलोऽन्त्यस्येति नकारस्य तकारः । सर्वादेशस्तु न,नानुबन्धकृतमनेकाल्त्वमि॑ति वचनात् । मघवत् स् इति स्थिते- ।

Tattvabodhini

मघवा बहुलम् - माधवेनोक्तमिति । इत्थं हि तदियो ग्रन्थः — ॒भसंज्ञायामल्लोपे उत्तरपदमनच्कं स्थानिवद्भावश्चाऽल्विधित्वान्ने॑ त्येकाजुत्तरपदत्वाऽभात्प्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पो भवति — वृत्रघ्नो॒॑वृत्रघ्ण॑इति । तद्भाष्येतिष किंचअल्विधित्वान्ने॑त्यसङ्गतम् । अल्बिघ्यर्थमेबअचः परस्मि॑न्नित्यस्यारम्भात् । तस्याऽप्रवृत्तौ युक्तयन्तरस्यैव वाच्यत्वात् । ॑एकाजुत्तरे॒त्यस्याऽप्रवृत्तावपि ॑कुमति चे॒ति सूत्रस्य दुर्वारत्वाद्वैकल्पिकत्वं णत्वस्याऽसङ्गतमेव । न च त्रिपद्यामपि पूर्वं प्रत्युत्तरशास्त्रस्याऽसिद्धत्वात्एकाजुत्तरपदेः णः॑कुमति चे॑त्यस्याऽप्रवृत्त्याप्रातिपदिकान्ते॑ति वैकल्पिकमेव णत्वं भवतीति वाच्यं,न हि योगोऽसिद्धः किंतुपर्करणे प्रकरण॑मिति भाष्यादौ स्पष्टत्वादिति दिक् । अनिनस्मन्ग्रहणानीति । अन् — ॒राज्ञे॑त्यर्थवता,साम्ना॑इत्यनर्थकेन । इन् — ॒दण्डी॑त्यर्थवता,वाग्ग्मी॑त्यनर्थकेन । अस् -॒सुपया॑इत्यर्थकेन । इहस्त्रुरूभ्यां नुट् चे॑त्यसुनस्तुट् । मन् — ॒सुशर्मे॑त्यर्थवता,सुप्रथिमा॑इत्यमर्थकेन । एतच्चइणः षीध्व॑मिति सूत्रेऽङ्गग्रहणेनार्थवद्न्रहणपरिभाषाया अनित्यत्वज्ञापनात्सिद्धम् ।वेविषीध्व॑मित्यत्र षीध्वंशब्दस्य ग्रहणं माभूदिति हि तत्राऽङ्गग्रहणं कृतम् । तच्चाऽपार्थकम्, अनर्थकत्वादेव तद्न्रहणाऽसिद्धेः । अतो ज्ञायतेअर्थवद्न्रहणपरिभाषा अनित्ये॑ति । मघवा बहुलम् ।अर्वणस्त्रसा॑वित्यतस्तृ इत्यनुवर्तते, तदपक्षा चमघवे॑तिषष्ठर्थे प्रथमा, तदाह —

Padamanjari

मघवेति । षष्ठ।ल्र्थे प्रथमा । मघोन इति । श्वयुवमधोनाम् इति सम्प्रसारणं पूर्वत्वमाद्गुणः । ननु च मघमस्यास्तीति मघवान्, मघमिति धननाम्, च्छन्दसीवनिपौ वक्तव्यौ इति वनिप्, सम्प्रसारणे कृते पूर्वस्य भसंज्ञायां यस्येतिलोपप्रसङ्गः । व्याश्रयत्वादसिद्धत्वमपि नाशङ्कनीयम् शसि सम्प्रसारणे यस्येतिलोपः । य एवं तर्ह्यन्यदेवेदमव्युत्पन्नं भविष्यति, तथा चैतस्य भाषायां प्रयोग उपपद्यते । यथा तु भाष्यम्, तथा न केवलमस्यैव अर्वणोऽपि भाषायामसाधुः प्रयोगः । आह हि - अर्वणस्तृ मघोनश्च न शिष्यंछान्दसं हि तत् । मतुब्वन्योर्विधानाच्च च्छन्दस्युभयदर्शनात् ॥ ऋधातोर्वनिपि गुणे च कृते अर्वन्निति रुपम् । तस्माद्विचि मतुपि अर्वन्तावित्यादि सिद्धं भवति, वनिप्यर्वणामित्यादि, मघशब्दादपि प्रत्ययद्वये सिद्धं भवति, नार्थः सूत्रद्वयेनेत्यर्थः । मघोन इत्यादौ तु एयस्येतिलोपाभावश्छान्दसत्वादेव । माघवनमिति । अन् इति प्रकृतिभावः ॥

Nyaas

मधवेति सुव्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। मधोनः इति। आयुवमधोनाम् (6.4.133) इति समप्रसारणम्, परपूर्वत्वम्, आद्गुणः (6.1.87) । ननु च मघोऽस्यास्तीति मत्वर्थविवक्षायां छन्दसीवनिपो वकतव्यौ (वा।582) इति वनिप्रत्ययान्तोऽयं मघवन्शब्दः। तत्र वनिपः सम्प्रसारणे भसंज्ञायां सत्याम्, यस्येति च (6.4.148) इति लोपेन भवितव्यम्, ततश्च मधुनः इत्यनिष्टं रूपं स्यात्? नैतत्; अन्येव हीदमव्युत्पन्नं प्रातिपदिकम्, तथा हि भावायामपि तस्य प्रयोगो दृश्यते। अथापि वनिप्प्रत्ययान्तः स्यात्? एवमपि बहुलवचनात्? यस्येति (6.4.148) इति लोपो न भविष्यतीत्यदोषः। मघोनी इति। ऋन्नेभ्यो ङीप् (4.1.5) । माघवनम् इति। पूर्ववदण्। अन् (6.4.67) इति प्रकृतिवद्भावः॥

Praudhamanorama

‘अर्वणस्त्रसावनञः’ इति सूत्रात् तृ इत्यनुवर्तते। तदपेक्षया च मघवेति षष्ठ्यर्थे प्रथमा। तदाह—

Prakriyasarvasvam

मघवन्नित्यङ्गस्य बहुलं तृ इत्यन्तादेशः स्यात् । ऋकार उगित्त्वार्थः । माघवतं माघवनम् । अत्र ‘अन्’ (६-४-१६७) इति प्रकृतिभावः ॥ इन्द्राविष्णू देवतास्येत्यण्—

Sudha

मघवा बहुलमिति । **अर्वणस्त्रसावनञः**(6.4.127) इत्यतः तृ इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् । मघवेति पष्ठ्यर्थे प्रथमा । तदाह - मघवन् शब्दस्येत्यादिना । ऋ इदिति । **उपदेशेऽजनुनासिक इत्**(1.3.2) इति ऋकार इत्संज्ञक इत्यर्थः ।

Sutra Prayogas

  • माधवनीम् (शिशुपालवधम्): मघवा बहुलम् इति विकल्पान्न आदेशः।