64129: भस्य =========== **Padacheda:** भस्य | S | 6 | 1 | Sutrartha --------- **अधिकारसूत्रमिदम् । इतः आरभ्य आ-षष्ठाध्याय-परिसमाप्तेः यत्किमपि उच्यते तत् 'भ'संज्ञकस्य भवति ।** 'भ' इति व्याकरणविशिष्टा संज्ञा अस्ति । **यचि भम्** (1.4.18), **तसौ मत्वर्थे** (1.4.19) तथा **अयस्मयादीनि च्छन्दसि** (1.4.20) एतैः सूत्रैः अङ्गस्य भसंज्ञा विधीयते । एतादृशस्य भसंज्ञकस्य अङ्गस्य कार्यमस्मिन् अधिकारे उक्तमस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य समाप्तिपर्यन्तमस्ति । इत्युक्ते, षष्ठाध्यायस्य अन्तिमसूत्रं यावत् उक्तानि कार्याणि 'भ'संज्ञकस्य अङ्गस्य विषये एव विधीयन्ते । Sutrartha (English) ------------------- All the rules starting from this sutra, till the end of the sixth chapter are being told for a भसंज्ञक. Vasu English Summary -------------------- Whatever will be taught in the following up to the end of this अध्याय should be understood to apply to the nominal stems called भ -- यचि भम् (1.4.18), तसौ मत्वर्थे (1.4.19). Vasu English Translation ------------------------ Whatever will be taught in the following up to the end of this अध्याय should be understood to apply to the nominal stems called भ -- यचि भम् (1.4.18), तसौ मत्वर्थे (1.4.19). Thus *sutra* (6.4.130) says 'पद् is the substitute of पाद्' ॥ It means पद् is substituted for पाद् when the latter gets the designation of भ ॥ Thus द्विपदः पश्य, द्विपदा कृतम् but द्विपादौ, दिपादः where the affixes are those of *Sarvanamasthana*. Kashika ------- भस्येत्ययमधिकारः, आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामो भस्येत्येवं तद् वेदितव्यम्। वक्ष्यति — **पादःपत्** (६.४.१३०) — द्विपदः पश्य। द्विपदा कृतम्। भस्येति किम्? द्विपादौ, द्विपादः॥ Siddhanta Kaumudi ----------------- अधिकारोऽयम् ॥