64128: मघवा बहुलम् ================== **Padacheda:** मघवा | S | 1 | 1 | 6 बहुलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- तृ is diversely substituted for the final of मघवन्। Vasu English Translation ------------------------ तृ is diversely substituted for the final of मघवन्। As मघवान्, मघवन्तौ, मघवन्तः, मघवन्तम्, मघवन्तौ, मघवतः, मघवता, मघवती, माघवतम्, ॥ न च भवति, मघवा, मघवानौ, मघवानः, मघवानम्, मघवानौ, मघोनः, मघोना, मघवभ्याम्, मघवभिः, मघोनी, माघवनम् ॥ Bhashya ------- मघवा बहुलम् (3126) (त्रादेशाधिकरणम्) (सूत्रप्रत्याख्याने श्लोकवार्तिकम्) अर्वणस्तृ मघोनश्च न शिष्यश्छान्दसं हि तत् । अर्वणस्तृ मघोनश्च न शिष्यः । किं कारणम् ? छान्दसं हि तत् । दृष्टानुविधिछन्दसि भवतीति ॥ (प्रत्याख्याने श्लोकवार्तिकम्) मतुब्वन्योर्विधानाच्च मतुब्वनी खल्वपि छन्दसि विधीयेते ॥ (प्रत्याख्याने श्लोकवार्तिकम्) छन्दस्युभयदर्शनात् ॥ उभयं खल्वपि छन्दसि दृश्यते ॥ इमान्यर्वणः पदानि । अनर्वाणं वृषभं मन्द्रजिह्वम् ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य चतुर्थे पादे तृतीयमाह्निकम् ॥ Kashika ------- मघवन्नित्येतस्याङ्गस्य बहुलं तृ इत्ययमादेशो भवति। मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता। मघवती। माघवतम्। न च भवति — मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः। मघोना, मघवभ्याम्, मघवभिः। म॒घोनी॑ (ऋ० १.४८.८)। माघवनम्॥ Siddhanta Kaumudi ----------------- मघवन्शब्दस्य वा तृ इत्यन्तादेशः स्यात् । ऋ इत् ॥ Laghu Siddhanta Kaumudi ----------------------- मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥ Balamanorama ------------ **मघवा बहुलम्** - ॒आन्नुक्षन्पूषन्प्लीहनक्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघव॑न्नित्युणादिसूत्रेण निष्पन्ने तस्मिन्मघवन्शब्दे विशेषमाह — मघवा बहुलम् । 'अर्वणस्त्रासौ' इत्यतः 'तृ' इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् ।मघवे॑ति तु षष्ठर्थे प्रथमा । तदाह — मघवन्शब्देस्येत्यादिना । ऋ इदिति ।उपदेशेऽजनुनासिक इत् इति ऋकार इत्संज्ञक इत्यर्थः । 'ऋ' इत्यविभक्तिको निर्देशः प्रक्रियासमये न दुष्यति । अलोऽन्त्यस्येति नकारस्य तकारः । सर्वादेशस्तु न,नानुबन्धकृतमनेकाल्त्वमि॑ति वचनात् । मघवत् स् इति स्थिते- । Tattvabodhini ------------- **मघवा बहुलम्** - माधवेनोक्तमिति । इत्थं हि तदियो ग्रन्थः — ॒भसंज्ञायामल्लोपे उत्तरपदमनच्कं स्थानिवद्भावश्चाऽल्विधित्वान्ने॑ त्येकाजुत्तरपदत्वाऽभात्प्रातिपदिकान्तनुम्विभक्तिषु चे॑ति विकल्पो भवति — वृत्रघ्नो॒॑वृत्रघ्ण॑इति । तद्भाष्येतिष किंचअल्विधित्वान्ने॑त्यसङ्गतम् । अल्बिघ्यर्थमेबअचः परस्मि॑न्नित्यस्यारम्भात् । तस्याऽप्रवृत्तौ युक्तयन्तरस्यैव वाच्यत्वात् । ॑एकाजुत्तरे॒त्यस्याऽप्रवृत्तावपि ॑कुमति चे॒ति सूत्रस्य दुर्वारत्वाद्वैकल्पिकत्वं णत्वस्याऽसङ्गतमेव । न च त्रिपद्यामपि पूर्वं प्रत्युत्तरशास्त्रस्याऽसिद्धत्वात्एकाजुत्तरपदेः णः॑कुमति चे॑त्यस्याऽप्रवृत्त्याप्रातिपदिकान्ते॑ति वैकल्पिकमेव णत्वं भवतीति वाच्यं,न हि योगोऽसिद्धः किंतुपर्करणे प्रकरण॑मिति भाष्यादौ स्पष्टत्वादिति दिक् । अनिनस्मन्ग्रहणानीति । अन् — ॒राज्ञे॑त्यर्थवता,साम्ना॑इत्यनर्थकेन । इन् — ॒दण्डी॑त्यर्थवता,वाग्ग्मी॑त्यनर्थकेन । अस् -॒सुपया॑इत्यर्थकेन । इहस्त्रुरूभ्यां नुट् चे॑त्यसुनस्तुट् । मन् — ॒सुशर्मे॑त्यर्थवता,सुप्रथिमा॑इत्यमर्थकेन । एतच्चइणः षीध्व॑मिति सूत्रेऽङ्गग्रहणेनार्थवद्न्रहणपरिभाषाया अनित्यत्वज्ञापनात्सिद्धम् ।वेविषीध्व॑मित्यत्र षीध्वंशब्दस्य ग्रहणं माभूदिति हि तत्राऽङ्गग्रहणं कृतम् । तच्चाऽपार्थकम्, अनर्थकत्वादेव तद्न्रहणाऽसिद्धेः । अतो ज्ञायतेअर्थवद्न्रहणपरिभाषा अनित्ये॑ति । मघवा बहुलम् ।अर्वणस्त्रसा॑वित्यतस्तृ इत्यनुवर्तते, तदपक्षा चमघवे॑तिषष्ठर्थे प्रथमा, तदाह — Padamanjari ----------- मघवेति । षष्ठ।ल्र्थे प्रथमा । मघोन इति । श्वयुवमधोनाम् इति सम्प्रसारणं पूर्वत्वमाद्गुणः । ननु च मघमस्यास्तीति मघवान्, मघमिति धननाम्, च्छन्दसीवनिपौ वक्तव्यौ इति वनिप्, सम्प्रसारणे कृते पूर्वस्य भसंज्ञायां यस्येतिलोपप्रसङ्गः । व्याश्रयत्वादसिद्धत्वमपि नाशङ्कनीयम् शसि सम्प्रसारणे यस्येतिलोपः । य एवं तर्ह्यन्यदेवेदमव्युत्पन्नं भविष्यति, तथा चैतस्य भाषायां प्रयोग उपपद्यते । यथा तु भाष्यम्, तथा न केवलमस्यैव अर्वणोऽपि भाषायामसाधुः प्रयोगः । आह हि - अर्वणस्तृ मघोनश्च न शिष्यंछान्दसं हि तत् । मतुब्वन्योर्विधानाच्च च्छन्दस्युभयदर्शनात् ॥ ऋधातोर्वनिपि गुणे च कृते अर्वन्निति रुपम् । तस्माद्विचि मतुपि अर्वन्तावित्यादि सिद्धं भवति, वनिप्यर्वणामित्यादि, मघशब्दादपि प्रत्ययद्वये सिद्धं भवति, नार्थः सूत्रद्वयेनेत्यर्थः । मघोन इत्यादौ तु एयस्येतिलोपाभावश्छान्दसत्वादेव । माघवनमिति । अन् इति प्रकृतिभावः ॥ Nyaas ----- मधवेति सुव्व्यत्ययेन षष्ठ्याः स्थाने प्रथमा। `मधोनः` इति। `आयुवमधोनाम्` (6.4.133) इति समप्रसारणम्, परपूर्वत्वम्, **आद्गुणः** (6.1.87) । ननु च मघोऽस्यास्तीति मत्वर्थविवक्षायां `छन्दसीवनिपो वकतव्यौ` (वा।582) इति वनिप्रत्ययान्तोऽयं मघवन्शब्दः। तत्र वनिपः सम्प्रसारणे भसंज्ञायां सत्याम्, **यस्येति च** (6.4.148) इति लोपेन भवितव्यम्, ततश्च `मधुनः` इत्यनिष्टं रूपं स्यात्? नैतत्; अन्येव हीदमव्युत्पन्नं प्रातिपदिकम्, तथा हि भावायामपि तस्य प्रयोगो दृश्यते। अथापि वनिप्प्रत्ययान्तः स्यात्? एवमपि बहुलवचनात्? `यस्येति` (6.4.148) इति लोपो न भविष्यतीत्यदोषः। `मघोनी` इति। `ऋन्नेभ्यो ङीप्` (4.1.5) । `माघवनम्` इति। पूर्ववदण्। `अन्` (6.4.67) इति प्रकृतिवद्भावः॥ Praudhamanorama --------------- 'अर्वणस्त्रसावनञः' इति सूत्रात् तृ इत्यनुवर्तते। तदपेक्षया च मघवेति षष्ठ्यर्थे प्रथमा। तदाह— Prakriyasarvasvam ----------------- मघवन्नित्यङ्गस्य बहुलं तृ इत्यन्तादेशः स्यात् । ऋकार उगित्त्वार्थः । माघवतं माघवनम् । अत्र 'अन्' (६-४-१६७) इति प्रकृतिभावः ॥ इन्द्राविष्णू देवतास्येत्यण्— Sudha ----- मघवा बहुलमिति । **अर्वणस्त्रसावनञः**(6.4.127) इत्यतः तृ इत्यनुवर्तते । तच्च लुप्तप्रथमाकम् । मघवेति पष्ठ्यर्थे प्रथमा । तदाह - मघवन् शब्दस्येत्यादिना । ऋ इदिति । **उपदेशेऽजनुनासिक इत्**(1.3.2) इति ऋकार इत्संज्ञक इत्यर्थः । Sutra Prayogas -------------- * **माधवनीम्** (शिशुपालवधम्): `मघवा बहुलम्` इति विकल्पान्न आदेशः।