64125: फणां च सप्तानाम्

Padacheda: फणाम् | S | 6 | 3 |

च | S | 0 | 0 |

सप्तानाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

ए is optionally substituted for अ and आ of the seven roots 1. फण् 2. राज् 3. भ्राज् 4. भ्राश् 5. श्लाश् 6. स्याम् and 7. स्वन् and the reduplicate is elided thereby, before the affixes of the लिट् (Perfect Tense) having an indicatory क् (or ङ्) as well as before थल् of the लिट् (Perfect Tense) having the augment इट्।

Vasu English Translation

ए is optionally substituted for अ and आ of the seven roots 1. फण् 2. राज् 3. भ्राज् 4. भ्राश् 5. भ्लाश् 6. स्याम् and 7. स्वन् and the reduplicate is elided thereby, before the affixes of the लिट् (Perfect Tense) having an indicatory क् (or ङ्) as well as before थल् of the लिट् (Perfect Tense) having the augment इट्। Thus फेणतुः, फेणुः, फेणिथ or पफणतुः, पफणुः, पफणिथ; रेजतुः, रेजुः, रेजिथ, or रराजतुः, रराजुः, रराजिथ; भ्रेजे, भ्रेजाते, भ्रेजिरे, or बभ्राजे, बभ्राजाते, बभ्राजिरे, भ्रेशे, भ्रेशाते, भ्रेशिरे, or बभ्राशे, बभ्राशाते, बभ्राशिरे; भ्लेशे, भ्लेशाते, भ्लेशिरे, or बभ्लाशाते, बभ्लाशाते, बभ्लाशिरे; स्येमतुः, स्येमुः, स्येमिथ, or सस्यमतुः, सत्यमुः, सस्यमिथः; स्वेनतुः, स्वेनुः, स्वेनिथ, or सस्वनतुः, सस्वनुः, सस्वनिथ. Why of “seven”? Observe, दध्वनतुः, दध्वनुः, दध्वनिथ ॥ The Phanadi is a subdivision of Bhuadi (873-879)

Kashika

फणादीनां सप्तानां धातूनामवर्णस्य स्थाने वैकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। फेणतुः, फेणुः। फेणिथ। पफणतुः, पफणुः। पफणिथ। रेजतुः, रेजुः। रेजिथ। रराजतुः, रराजुः। रराजिथ। भ्रेजे, भ्रेजाते, भे्रजिरे। बभ्राजे, बभ्राजाते, बभ्राजिरे। भ्रेशे, भ्रेशाते, भ्रेशिरे। बभ्राशे, बभ्राशाते, बभ्राशिरे। भ्लेशे, भ्लेशाते, भ्लेशिरे। बभ्लाशे, बभ्लाशाते, बभ्लाशिरे। स्येमतुः, स्येमुः। स्येमिथ। सस्यमतुः, सस्यमुः। सस्यमिथ। स्वेनतुः, स्वेनुः। स्वेनिथ। सस्वनतुः, सस्वनुः। सस्वनिथ। सप्तानामिति किम्? दध्वनतुः, दध्वनुः। दध्वनिथ॥

Siddhanta Kaumudi

एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फयतीत्येव ।{$ {!822 राजृ!} दीप्तौ$} । स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् ।{$ {!823 टुभ्राजृ!} {!824 टुभ्राशृ!} {!825 टुभ्लाशृ!} दीप्तौ$} । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भ्रेजे । बभ्राजे । वा भ्राश -(SK2321) इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ ।{$ {!826 स्यमु!} {!827 स्वन!} {!828 ध्वन!} शब्दे$} । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः - (SK2274) इति षत्वम् । फणादयो गताः । दध्वनतुः ।{$ {!829 षम!} {!830 ष्टम!} अवैकल्ये$} । ससाम । तस्ताम ।{$ {!831 ज्वल!} दीप्तौ$} । अतो ल्रान्तस्य (SK2330) अज्वालीत् ।{$ {!832 चल!} कम्पने$} ।{$ {!833 जल!} घातने$} । घातनं तैक्ष्ण्यम् ।{$ {!834 टल!} {!835 ट्वल!} वैक्लव्ये$} ।{$ {!836 ष्ठल!} स्थाने$} ।{$ {!837 हल!} विलेखने$} ।{$ {!838 णल!} गन्धे$} । बन्धन इत्येके ।{$ {!839 पल!} गतौ$} । पलति ।{$ {!840 बल!} प्राणने धान्यवारोधने च$} । बलति । बेलतुः । बेलुः ।{$ {!841 पुल!} महत्त्वे$} । पोलति ।{$ {!842 कुल!} संस्त्याने बन्धुषु च $}। संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ।{$ {!843 शल!} {!844 हुल!} {!845 पत्लृ!} गतौ$} । शशाल । जुहोल । पपात । पेततुः । पतिता ॥

Tattvabodhini

फणां च सप्तानाम् - फण गतौ । फणति । लुङि । अफाणीत् । अफणीत् । णौ तुचिण्णमुलो॑रिति वा दीर्घः । अफणि । अफाणि । फणंफणम् । फाणंफाणम् । असंभवादिति । मित्त्वप्राप्त विना निषेधाऽसंभवादिहने॑त्येतन्न संबध्यते किंतु मित्संज्ञैव । तदेतदाह — फणयति । (ग) वृत् । वृत् । सामर्थ्यादिति । फणादिषु पाठसामर्थ्यादित्यर्थः । तत्र हीति । षत्वविधौ हीत्यर्थः । तथा च विभ्राट् । विभ्राड्भ्याम् । पूर्वं पठितस्य तु विभ्राक् विभ्राग्भ्यामित्यादि सिध्यतीति भावः । अस्यमीदिति । मान्तत्वान्न वृद्धिः । अथ ज्वलादिः । अज्वालीदिति ।अतो ल्रान्तस्ये॑ति वृद्धिः । वैक्लव्य इति । वैक्लव्यं — भयादिजनितोद्विग्नता । तद्वयापार इति । बन्धुतानुकूलो व्यापारः ।

Padamanjari

बहुवचनिर्देशादाद्यर्थो गम्यत इत्याह - फणादीनामिति । फण गतौ, राजृ दीप्तौ, टुअभ्राशृ टुअभ्राजृ टुअभलाशृ दीप्तौ, स्यमुस्वनध्वन शब्दे, अन्त्यवर्जं फणादयः सप्त । अत्र राजप्रभृतीनामप्येत्वमवर्णस्य भवति । उक्तोऽत्र न्यायः राधो हिंसायाम् इत्यत्र ॥

Nyaas

बहुवचननिर्देशादाद्यर्थो गम्यते। अत आह -फणादीनाम् इत्यादि। फण गतौ (धातुपाठः-821) राजृ दीप्तौ (धातुपाठः-822) टु भ्राजृ टु भ्राशृ टु भ्लाशृ दीप्तौ (धातुपाठः-823-825)। स्यमु स्वन ध्वन शब्दे (धातुपाठः-826-828) इत्येते ध्वनवर्जिताः फणादयः सप्त। तत्राद्यस्य नित्ये प्राप्ते विकल्पार्थं वचनम्, इतरेषामप्राप्ते। तत्र राजृप्रभृतीनां चतुर्णामवर्णस्यैत्त्वस्य प्रतिप्रत्तये राधो हिंसायाम् (6.4.123) इत्यत्र अत इत्येतदिहोपस्थितम् इत्यादिना यदुक्तं तद्यथासम्भवं वेदितव्यम्॥

Prakriyasarvasvam

<karika>‘फणराजिभ्राजीनां भ्राशिभ्लाशिष्यमिस्वनां चैषाम् । किति लिटि च सेटि थल्यपि वा स्यादभ्यासलोप एत्वं च ।। ६९३ ।।</karika> फेणतुः, पफणतुः । फेणिथ, पफणिथ । फेणिव, पफणिव । कर्मणि फेणे, पफणे । आशीरादौ वजिवत् । चमु अदने । प्रायेणाङ्पूर्वः ।

Sutra Prayogas

  • रेचतुः (रघुवंशम्): फणां च सप्तानाम् इति वैकल्पिकावेत्वाभ्यासलोपौ।

  • रेजाते (शिशुपालवधम्): फणां च सप्तानाम् इति एत्त्व-अभ्यासलोपौ।

  • रराजिरे (शिशुपालवधम्): फणां च सप्तानाम् इति विकल्पादेत्वाभ्यासलोपाभावः।

  • रेजे (शिशुपालवधम्): फणां च सप्तानाम् इति विकल्पादेत्वाभ्यासलोपौ।

  • भ्रेजिरे (शिशुपालवधम्): फणां च सप्तानाम् इति विकल्पादेत्वाभ्यासलोपौ।

  • रेजुस्ताम्रोत्पलान्याकुल (भट्टिकाव्यम्): राजेर्लिटि फणां च सप्तानाम् इति एत्वाभ्यासलोपौ।

  • रेजु (भट्टिकाव्यम्): फणां च सप्तानाम् इत्येत्वाभ्यासलोपौ।

  • दध्वनुर्हताः (भट्टिकाव्यम्): फणां च सप्तानाम् इति लिटि एत्वविधानस्य विकल्पितत्वात् नैत्वम् ।

  • विजघटे (भट्टिकाव्यम्): फणां च सप्तानाम् इत्येत्वपक्षे रूपम्।

  • भ्रेजिरे (भट्टिकाव्यम्): फणां च सप्तानाम् इत्येत्वपक्षे रूपम्।