64126: न शसददवादिगुणानाम्¶
Padacheda: न | S | 0 | 0 |
श-सदद-वादि-गुणानाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
ए is not substituted for अ of शस् , दद् or of roots beginning with a व् or of such verbal अङ्ग (stems) in which the अ results through the substitution being कित् or ङित् follow, of the सेट् थल् of the लिट् (Perfect Tense) nor is the reduplicate elided.
Vasu English Translation¶
ए is not substituted for अ of शस् , दद् or of roots beginning with a व् or of such verbal अङ्ग (stems) in which the अ results through the substitution being कित् or ङित् follow, of the सेट् थल् of the लिट् (Perfect Tense) nor is the reduplicate elided. Thus विशशसतुः, विशशसुः, विशशसिथे, दददे, दददाते, दददिर, Of roots beginning with व् :-ववमतुः, ववमुः, ववमिथ, ॥ Of roots where अ is the result of Guna, विशशरतुः, विशशरुः, विशशरिथ, लुलविथ, पुपविथ ॥ गुणशब्दाभिनिर्वृत्तस्यार्शब्दस्यौकारस्य चायमकार इति एत्वं प्रतिषिध्यते ॥
The अ of Guna may result either from the guna of ऋ as कृ changed to कर् or of उ changed to ओ again changed to अव् as लु-लव ॥
Kashika¶
शस दद इत्येतयोर्वकारादीनां च धातूनां गुण इत्येवमभिनिर्वृत्तस्य च योऽकारस्तस्य स्थान एकारादेशो न भवति, अभ्यासलोपश्च। विशशसतुः, विशशसुः। विशशसिथ। दददे, दददाते, दददिरे। वादीनाम् — ववमतुः, ववमुः। ववमिथ। गुणस्य — विशशरतुः, विशशरुः। विशशरिथ। लुलविथ। पुपविथ। गुणशब्दाभिनिर्वृत्तस्यार्शब्दस्यौकारस्य चायमकार इत्येत्वं प्रतिषिध्यते॥
Siddhanta Kaumudi¶
शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे ।{$ {!18 ष्वद!} {!19 स्वर्द!} आस्वादने$} । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥
Laghu Siddhanta Kaumudi¶
शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥ {$ {! 20 त्रपूष् !} लज्जायाम् $} (धातुपाठे (01.0434))॥ त्रपते॥
Balamanorama¶
न शसददवादिगुणानाम् - न शसदद । शस दद वादि गुण — एषां द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विहितत्वाऽभावान्नायं निषेधः । पृधातोः पपरतुरिति तु गुणस्योदाहरणम्, गुणशब्देन विहितो योऽर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति । ददेर्लिटस्तादेशस्य एशि द्वित्वे ‘अत एकहल्मध्ये’ इति प्राप्तावेत्तवाभ्यासलोपौ न भवतः । ष्वद स्वर्देति । आस्वादनम् — अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा । तदाह — अयमिति । प्रत्येकाभिप्रायमेकवचनम् ।
Tattvabodhini¶
न शसददवादिगुणानाम् - न शसदद ।शसु हिंसायां॑ दन्त्यान्तः । सूत्रेऽवयवावयवभावः षष्ठर्थः । तथा च शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाद्भेदनिबन्धना षष्ठी न संभवतीत्याशङ्क्य तन्निर्वाहार्थं व्याचष्टे — गुणशब्देन भावितस्येति । भावितत्वं च साक्षात्पेरम्परासाधारणम् । तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः । लुलविथेत्यादौ तु गुणशब्देन क्रियमाणो य ओकारस्तत्स्थानिकस्याऽवादेशस्यावयवोऽकार इत्यर्थान्नास्त्यत्रानुपपत्तिः । दददे इति । शशसतुः । शशसुः । ववमतुः । ववमुरित्यादावपि निषेधो बोध्यः । ष्वद स्वर्द । अयमिति । प्रत्येकाभिप्रायेणोक्तमित्याहु । सकर्मक इति । स्वदस्व हव्यानि । अनुभवेत्यर्थः । अकर्मक इति ।अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा॑- इति श्रीहर्षः । न स्वदते । न रोचत इत्यर्थः ।
Padamanjari¶
अत्र वस्तुतो यो गुणसंज्ञकोऽकारस्तत्रैव यदि प्रितषेधस्तर्हि विधिप्रतिषेधयोरेकविषयत्वाद्विकल्पः स्यात्, ततश्च वा जभ्रमुत्रः, साम् इति यद्वाग्रहणं तदेवादितः पाठ।ल्ं स्यात्, तस्माद् गुणग्रहणेन तच्छब्दरुषितस्य तद्भावि तस्य ग्रहणमित्याह - गुण इत्येवममिनिर्वृतस्य चेति । तस्य सम्बन्धी योऽकार इत्यर्थः । सम्बन्धित्वमपि तस्य तत्स्थानिकत्वातदवयवत्वाच्च यथायोगं वेदितव्यम् । शशसतुरिति । शसु हिंसायाम्, दद दाने, अनुदातेत्, टुअवमुद्गिरणे । विशशरतुरिति । शृ हिंसायाम्, ऋच्छत्यृताम् इति गुणः । यदुक्तम् - गुण इत्येवमभिनिर्वृतस्य इति, तदुदाहरणं दर्शयति - गुणशब्दाभिनिर्वृतस्येति । उरण् रपरः इत्यत्र सिद्धं तु प्रसङ्गे रपरत्वात् इति वचनाद्गुणो भवन्नेव रेफशिरस्कोऽभिनिर्वर्तते, एवमभिनिर्वृतस्यार्शब्दस्यावयवोऽकारः । लुलविथेत्यत्र तु अभिनिर्वृतस्योकारस्य स्थानेऽवादेशास्तदवयवोऽकारः । क्वचित्पठ।ल्ते - गुणशब्देनात्र शसादीनां ग्रहणसामर्थ्यातद्भावितस्य ग्रहणमिति । अकारमात्रस्य हि ग्रहणे शशिदद्योर्वकारादीनां च ग्रहणमनर्थकं स्यादिति किल तस्यार्थः ॥
Nyaas¶
अत्र यदि गुण इत्येनेन यस्यैत्त्वं विहितं स एत्राकार उच्यते, ततोऽयमर्थः -अकारस्य गुणस्य न भवतीति। तथा चैत्त्वविधिरनवकाश एव स्यादित्येतद्बुद्धौ कृत्वा नात्र गुणेनाकार एवोच्यते, अपि तु गुणशब्दभिनिर्वृत्त इति दर्शयन्नाह -गुण इत्येवमभिनिर्वृत्तस्य च इत्यादि। गुणशब्दमुच्चार्य योऽभिनिर्वृत्तः शब्दस्तस्य सम्बन्धी योऽकारस्तस्य स्थान एत्त्वं न भवतीत्यर्थः। तत्सम्बन्धित्वं पुनस्तस्य तत्स्थानिकत्वात्? तदवयवत्वाच्च यद्यायोगं वेदितव्यम्। तदेवं गुणशब्दाभिनिर्वृत्तस्य सम्बन्ध्यकारः प्रतिषेधस्य निमित्तम्, इतरस्तु विधेरित्येव विधिप्रतिषेधयोर्विषयविभागः। विशशसतुः इति। शसु हिंसायाम् (धातुपाठः-727)। दददे इति। दद दाने धातुपाठः-17)। ववमतुः इति। टु वम उद्गिरणे (धातुपाठः-849) विशशरतुः इति। शृ हिंसायाम् (धातुपाठः-1488)। गुणशब्दभिनिर्वृत्तस्य इत्यादिना यदुक्तं तस्यार्थमुदाहरणे दर्शयति। विशशरतुः इत्यत्रारित्ययं शब्दो गुणशब्दाभिनिर्वृत्तः। तत्सम्बन्ध्यकारस्य तदेकदेशात्वात्। लुलविथ इति। अत्राप्योकारो गुणशब्दाभिनिर्वृत्तः तत्सम्बन्ध्यकारस्य तत्स्थानिकत्वात्। ननु विशशरतुः इत्यत्राकारमात्रं ग#उणशब्देनाभिनिर्वृत्तम्, नाऽर्शब्दः! नैतदस्ति; रेफस्य गुणभक्तत्वात्। तथा च भाष्यम् -अर्भवति गुणो भवति, आर्भवति वृद्धिर्भवति -रेफसहितो गुणवृद्धिसंज्ञो भवति इति॥
Prakriyasarvasvam¶
शसेर्ददेर्वकारादिधातूनां गुणजातस्य चाकारस्य एत्वाभ्यासलोपौ न स्तः । ववजतुः । ववजिथ । ववजिव । वज्यात् वजिता इत्यादि । कर्मणि ववजे । वजिषीष्ट इत्यादि । एवं शसेर्हिंसार्थस्य शशासतुः । ददिस्तङ्वान् । दददे । ‘शशददे’ति कौमुदीपाठः । शश प्लुतगतौ । शशशतुः । वादित्वेऽपि वमेरेत्वाभ्यासलोपौ वेति कौमुदी । ववमतुः, वेमतुः । ववमिथ, वेमिथ ।। फण गतौ । फणति । लुङि ‘अतो हलादेः’ इति वा वृद्धिः । अफाणीत्, अफणीत् । कर्मणि वजिवत् । लिटि पफाण ।
Sutra Prayogas¶
ववले (शिशुपालवधम्): न शसददवादिगुणानाम् इति वकारादित्वादेत्वाभ्यासलोपयोः प्रतिषेधः।