64124: वा जॄभ्रमुत्रसाम्¶
Padacheda: वा | S | 0 | 0 |
जॄ-भ्रमु-त्रसाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
ए is optionally substituted for अ of the अङ्ग (stems) 1. जर् (जॄ) 2. भ्रम and 3. त्रस् and the reduplicate is thereby elided before the affixes of the लिट् (Perfect Tense) having an indicatory क् (or ङ्)
Vasu English Translation¶
ए is optionally substituted for अ of the अङ्ग (stems) 1. जर् (जॄ) 2. भ्रम and 3. त्रस् and the reduplicate is thereby elided before the affixes of the लिट् (Perfect Tense) having an indicatory क् (or ङ्) Thus जेरतुः, जेरुः, जेरिथ, or जजरतुः, अजरुः, जजरिथ, भ्रेमतुः, भ्रेमुः, भ्रेमिथ, or बभ्रमतुः, बभ्रमुः, बभ्रमिथ, त्रेसतुः, त्रेसुः, त्रेसिथ, or तत्रसतुः, तत्रसुः, तत्रसिथ ॥
Kashika¶
जृ भ्रमु त्रस इत्येतेषामङ्गानामतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। जेरतुः, जेरुः। जेरिथ। जजरतुः, जजरुः। जजरिथ। भ्रेमतुः, भ्रेमुः। भ्रेमिथ। बभ्रमतुः, बभ्रमुः। बभ्रमिथ। त्रेसतुः, त्रेसुः। त्रेसिथ। तत्रसतुः, तत्रसुः। तत्रसिथ॥
Siddhanta Kaumudi¶
एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः । बभ्रमतुः । अभ्रमीत् ।{$ {!851 क्षर!} संचलने$} । अक्षारीत् ॥ अथ द्वावनुदात्तेतौ ।{$ {!852 षह!} मर्षणे$} । परिनिविभ्यः - (SK2275) इति षत्वम् । परिषहते । सेहे । सहिता । तीषसह - (SK2340) इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥
Laghu Siddhanta Kaumudi¶
एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा। त्रेसतुः, तत्रसतुः। त्रेसिथ, तत्रसिथ। त्रसिता॥ {$ {! 5 शो !} तनूकरणे $} (धातुपाठे (04.0040)) ॥
Balamanorama¶
वा जॄभ्रमुत्रसाम् - वा जृभ्रसु । ‘अत एकहल्मध्ये’ इत्यतो लिटीति,थलि च सेटी॑ति चानुवर्तते । ‘ध्वसोरेद्धौ’ इत्यत एदिति,गमहने॑त्यतः कितीति च । तदाह — एषामिति । अभ्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । अक्षारीदिति ।अतो ल्रान्तस्ये॑ति वृद्धिः । षह । अपराधे सत्यपि कोपाऽनाविष्करणं मर्षमम् । इडभावे इति । सह् — ता इति स्थिते ‘हो ढः’ इति ढत्वं,झषस्तथो॑रिति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढः । ‘ढो ढे लोपः’ इति पूर्वस्य ढस्य लोप इत्यर्थः । स ढा इति स्थितम् ।
Tattvabodhini¶
वा जॄभ्रमुत्रसाम् - वाजृभ्रमुत्रसाम् । अप्राप्तविभाषेयम् । अंभ्रमीदिति । मान्तत्वान्न वृद्धिः । अक्षारीदिति । हलन्तलक्षणाया वृद्धेःनेटी॑ति निषेधेऽपिअतो ल्रान्तस्ये॑ति वृद्धिः । षह । अपराधे सत्यपि कोपाऽनाविष्करणं मर्षणम् ।
Nyaas¶
जृ? वयोहानौ (धातुपाठः-1494) [जृ -मु।पाठः] इत्यस्य गुणार्थं वचनम्। भ्रमेरादेशार्थम्, अनेकहल्मध्यार्थञ्च त्रसेश्चानेकहल्मध्यर्थम्। `जजरतुः इति। पूर्ववद्गुणः॥
Sutra Prayogas¶
तत्रसुः (किरातार्जुनीयम्): वा जृभ्रमुत्रसाम् इति विकल्पादेत्वाभ्यासलोपाभावः।
भ्रेमुः (शिशुपालवधम्): वा जॄभ्रमुत्रसाम् इति विकल्पादेत्वाभ्यासलोपौ।
बभ्रुमुः (शिशुपालवधम्): वा जॄभ्रमुत्रसाम् इति विकल्पादेत्वाभ्यासलोपाभावः।
नेशुश्चित्रा (भट्टिकाव्यम्): वा जृ-भ्रमु-नसाम् इत्येत्वम्।