64114: इद्दरिद्रस्य =================== **Padacheda:** इत् | S | 1 | 1 | दरिद्रस्य | S | 6 | 1 | Sutrartha --------- **दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे ह्रस्व-इकारादेशः भवति ।** एतत् सूत्रम् दरिद्रा (दुर्गतौ) इति अदादिगणस्य धातोः विषये अस्ति । अस्य धातोः **जक्षित्यादयः षट्** (6.1.6) इत्यनेन अभ्यस्तसंज्ञा भवति, अतः हलादि-सार्वधातुके कित्/ङित्-प्रत्यये परे अस्य आकारस्य **ई हल्यघोः** (6.4.113) इत्यनेन ईकारादेशः विधीयते । तं बाधित्वा वर्तमानसूत्रेण अस्य ह्रस्व-इकारादेशः उच्यते । यथा, दरिद्रा-धातोः लट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपस्य प्रक्रिया इयम् - दरिद्रा + लोट् [**वर्तमाने लट्** (3.2.123) इति लट् ] → दरिद्रा + तस् [**तिप्तस्झि..** (3.4.78) इति परस्मैपदस्य प्रथमपुरुषद्विवचनस्य विवक्षायाम् 'तस्' प्रत्ययः । **सार्वधातुकमपित्** (1.2.4) इति अस्य ङित्-वत् भावः] → दरिद्रा + शप् +तस् [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + तस् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → दरिद्रि + तस् [**इद्दरिद्रस्य** (6.4.114) इत्यनेन दरिद्रा-धातोः आकारस्य हलादि-सार्वधातुके ङिति प्रत्यये परे इकारः] → दरिद्रितः [विसर्गनिर्माणम्] तथैव दरिद्रिथः, दरिद्रिवः, दरिद्रिमः - आदीनि रूपाणि सिद्ध्यन्ति । अस्य सूत्रस्य विषये वार्तिकद्वयम् ज्ञातव्यम् - 1. / । इत्युक्ते, दरिद्रा-धातोः आर्धधातुके प्रत्यये विवक्षिते आकारलोपः भवति । यथा - दरिद्रा → (आर्धधातुकप्रत्ययविवक्षायामाकारलोपः) दरिद्र् + अच् [ **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) इत्यनेन पचादिगणे विद्यमानस्य दरिद्रा-धातोः अच्-प्रत्ययः] → दरिद्र । अत्र प्रत्ययविवक्षायामेव लोपं कृत्वा ततः एव यथायोग्यं प्रत्ययः विधीयते । एवं न क्रियते चेत् प्रारम्भे अच्-प्रत्ययस्य प्रसक्तिरेव न स्यात् ; अपितु **श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च** (3.1.141) इत्यनेन ण-प्रत्ययं कृत्वा अनिष्टं रूपं सिद्ध्येत । एवमेव 'तव्य' प्रत्ययविवक्षायामाकारलोपं कृत्वा दरिद्रितव्य - इति सिद्ध्यति । 'अनीयर्' प्रत्ययविवक्षायामाकारलोपं कृत्वा 'दरिद्रनीय' इति सिद्ध्यति । भावकर्मणोः 'यक्' प्रत्ययविवक्षायामाकारलोपं कृत्वा 'दरिद्र् + यक् + ते → दरिद्र्यते' इति सिद्ध्यति । भाष्ये अस्मिन् विषये उक्तमस्ति - 'न दरिद्रायके लोपो दरिद्राणे च नेष्यते' । इत्युक्ते, 'ण्वुल्' प्रत्ययस्य विषये, तथा च 'ल्युट्' प्रत्ययस्य विषये च अयं लोपः न भवति । यथा - अ) दरिद्रा + ण्वुल् → दरिद्रायक । अत्र **आतो युक् चिण्कृतोः** (7.3.33) इत्यनेन युक्-आगमः भवति । आ) दरिद्रा + ल्युट् → दरिद्राण । 2. । 'अद्यतनी' इति प्राचीन-वैयाकरणैः लुङ्लकारस्य दत्तम् एकमभिधानम् । अतः अनेन वार्तिकेन एतत् उच्यते यत् लुङ्लकारस्य विषये पूर्ववार्तिकेन दत्तः आकारलोपः विकल्पेन भवति । लोपाभावे अभावे **ई हल्यघोः** (6.4.113) इत्यनेन ईकारादेशः अपि विधीयते । यथा, दरिद्रा-धातोः लुङ्-लकारस्य रूपद्वयं सिद्ध्यति - (लोपपक्षे) अदरिद्रासीत्, तथा (ईकारादेशस्य पक्षे) अदरिद्रीत् । ज्ञातव्यम् - अस्मिन् सूत्रे 'दरिद्रा' शब्दस्य षष्ठी-एकवचनम् 'दरिद्रस्य' इति कृतमस्ति । अत्र 'दरिद्र' इति ह्रस्वकरणम् कृत्वा ततः षष्ठी-एकवचनस्य प्रत्ययः युज्यते । अस्य ह्रस्वकरणस्य किमपि सूत्रम् नास्ति, अतः अयं छान्दसः (आर्षः) प्रयोगः मन्तव्यः । Sutrartha (English) ------------------- The आकार of the verb root 'दरिद्रा' is converted to ह्रस्व-इकार when followed by हलादि-सार्वधातुक कित्/ङित्-प्रत्यय. Vasu English Summary -------------------- इ is substituted for the आ of दरिद्रा before a सार्वधातुक कित् or ङित् affix beginning with a consonant. Vasu English Translation ------------------------ इ is substituted for the आ of दरिद्रा before a सार्वधातुक कित् or ङित् affix beginning with a consonant. *Karika* न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥ Thus दरिद्रितः, दरिद्रिथः, दरिद्रिवः, दरिद्रिमः ॥ But दरिद्रति before a vowel affix (6.4.112) and दरिद्राति before a non-ङित् affix. Vart:- The final of दरिद्रा is elided before an *Ardhadhatuka* affix. Vart:- And this elision should be considered as *siddha*, in applying rules relating to affixes. Thus दरिद्रा by loosing आ becomes दरिद्र, and we should apply those affixes which would come after a form like '*daridr*', and not what would have come after a form like '*daridra*'. Thus ण comes after roots ending in long आ (3.1.141): but this affix would not be applied here, but the general affix अच् (3.1.134). Thus दरिद्राति = दरिद्रः ॥ Karika:- The elision does not take place in the forms दरिद्रायक and दरिद्राण, and the Desiderative may be either दिदरिद्रासति or दिदरिद्विषति ॥ *Siddhanta* *Kaumudi* gives the following rule: "आ of दरिद्रा should be considered as elided when applying an *ardhadhatuka* affix, but optionally so before लुङ् (Aorist), and not at all before सम् (Desiderative), ण्वुल् and ल्युट्" ॥ Vart:- Optionally so in the Aorist (*adyatana*-past) as, अदरिद्रीत् or अदरिद्रासीत् ॥ The latter form is evolved by (7.2.73) and elision of सिच् ॥ The form दरिद्रस्य in the *sutra* is Vedic, the root being shortened from दरिद्रा to दरिद्र ॥ Bhashya ------- इद्दरिद्रस्य (3111) (6585 उपसंख्यानवार्तिकम् ॥ 1 ॥) - दरिद्रातेरार्धधातुके लोपः - दरिद्रातेरार्धधातुके लोपो वक्तव्यः ॥ (6586 सिद्धत्वोपसंख्यानवार्तिकम् ॥ 2 ॥) - सिद्धश्च प्रत्ययविधौ - स च सिद्धः प्रत्ययविधौ । किं प्रयोजनम् ? दरिद्राति - इति दरिद्रः आकारान्तलक्षणः प्रत्ययविधिर्मा भूदिति ॥ न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रियतीति वा ॥ (6587 उपसंख्यानवार्तिकम् ॥ 3 ॥) - अद्यतन्यां वा - अद्यतन्यां वेति वक्तव्यम् । अदरिद्रीत्, अदरिद्रासीत् ॥ Kashika ------- दरिद्रातेर्हलादौ सार्वधातुके क्ङिति परत इकारादेशो भवति। दरिद्रितः। दरिद्रिथः। दरिद्रिवः। दरिद्रिमः। हलीत्येव — दरिद्रति। क्ङितीत्येव — दरिद्राति॥ दरिद्रातेरार्धधातुके लोपो वक्त व्यः॥ सिद्धश्च प्रत्ययविधौ भवतीति वक्त व्यम्॥ दरिद्रातीति दरिद्रः। आकारान्तलक्षणो णप्रत्ययः (३.१.१४१) न भवति, पचादित्वादज् (३.१.१३४) एव भवति। न दरिद्रायके लोपो दरिद्राणे च नेष्यते। दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा॥ ॥ अद्यतन्यां वेति वक्त व्यम्॥ अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्येति निर्देशे छान्दसं ह्रस्वत्वं द्रष्टव्यम्॥ Siddhanta Kaumudi ----------------- दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥ Balamanorama ------------ **इद्दरिद्रस्य** - इद्दरिद्रस्य । सौत्रो ह्रस्वः ।गमहने॑त्यतः क्ङितीत्यनुवर्तते ।ई हल्यघो॑रित्ते हलीति,अत उदि॑त्यतः सार्वधातुके इति । तदाह — दरिद्रातेरिति ।श्नाभ्यस्तयो॑रित्याल्लोपाऽपवादः । अलोऽन्त्यस्ये॑त्यन्त्यस्य इकारः । दरिद्रित इति ।सार्वधातकमपि॑दितितसो ङित्त्वादाकारस्य इकारः । Tattvabodhini ------------- **इद्दरिद्रस्य** - इद्दरिद्रस्य ।इद्दरिद्र॑ इतिवक्तुमुचितम् । Padamanjari ----------- इदमपि सार्वधातुक एव अन्यत्र लोपविधानात् । सिद्धस्चति । यथा प्रत्ययविधौ प्रत्ययविधानकाल थएव सिद्धो भवति, तथा लोपः कर्तव्यः, आर्धधातुके तैति वष्यसप्तम्याश्रयणीयेति भावः । आकारान्तलक्षण इति । आर्धधातुके इति परसप्तम्यां तस्योत्पर्ति प्रतौक्ष्य लोपः कर्तव्यः, ततश्च स्याव्द्यय त्याकारान्तिलक्षणो णप्रत्ययः स्यात्, तत्र कृतेऽनेन लोपश्च प्राप्नोति युक्च, तत्र लोपस्य शब्दान्तरप्राप्त्याऽनित्यत्वम् , युकस्तु लोपे कृतेऽप्राप्तिः, ततश्च उभयोरप्यनित्ययोः परत्वाद्यौक् स्यात् । अथापि एलोपः स्यात्, एवमपि अदरिद्र तैत्यत्र अच्कावशक्तौ इत्येव स्वरो न स्यात् । ईषद्दरिद्रमित्यत्र च आचो युच् इति युच् स्यात् । दरिद्रायक् इति । ण्वुलि, युक् । दरिद्राण इति । ल्युट् । दिदरिद्रासतीति । तनिपतिदरिद्राणामुपसंख्यानम् इति व्यवस्थितविभाषा, तेन लोपपक्षे इट् । अन्यत्रेडभावः । अद्यतन्यामिति । लुङ् एषा पूर्वाचार्यसंज्ञा । अदरिद्रासीदिति । यमरमनमातां सक्चेति । एकाचः इति तत्रानुवर्तत इत्येकीयं मतम् । चिणि - अदरितिद्रि, तादरिद्रायि । णलि - ददरिद्रौ । छान्दस ह्रस्वत्वमिति । अन्यथा आतो धातोः इति लोपे दरिद्र इति निर्द्देशः स्यात ॥ Nyaas ----- `दरिद्रति` इति। **जक्षित्यादयः षट्** (6.1.6) इत्यभ्यस्तसंज्ञा, तेनाभ्यस्तलक्षण आकारलोपो भवति। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् -**श्नसोरल्लोपः** (6.4.111) इत्यतो मण्डूकल्पुतिन्यायेन लोपग्रहणमनुवर्त्त्य सार्वधातुके, हलि, क्ङितत्येतान्? विशेषान्? निवर्त्त्य दरिद्रातेः सामान्येनेत्त्वलोपौ विधातव्यौ। न चैवं सति तौ सङ्करेम प्रसजतः, यस्माद्वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतम्। सा च व्यवस्थितविभाषा। तेन यत्रैवेष्यते यत्? तत्? तत्रैव भविष्यति, नान्यत्रेति। `सिद्धश्च प्रत्ययविधौ` इति। तथासौ कर्तव्यौ यथा प्रत्ययविधौ=प्रत्ययविधानकाले, सिद्धः=निष्पन्नो भवति। एतदुक्तं भवति -आर्धधातुके प्रत्यये विषयभूतेऽनुत्पन्ने एव लोपः कर्तव्य इति। एवं ह्रसौ प्रत्ययविधौ सिद्धो भवति, नान्यथा। `सिद्धश्च प्रत्ययविधौ` इत्यस्योपादाने यत्? फलं तद्? `आकारान्तलक्षणः` इत्यादिना दर्शयति। यद्यार्धधातुक उत्पन्ने सति लोपः क्रियते, तदा `श्याद्व्यधारुआउ` (3.1.141) इति सूत्रेण णप्रत्ययः स्यात्; दरिद्रातेराकारान्तत्वात्। ततश्च `आतो युक्? चिम्कृतोः` (7.3.33) इति युकि कृते, `दरिद्राय` इत्यनिष्टं रूपं स्यात्। `सिद्धश्च प्रत्ययविधौ` इत्युच्यमाने तु प्रागेव प्रत्ययोत्पत्तेर्लोपः, तस्मिन्? स्यनाकारान्तत्वात्? पचाद्यजेव भवति। तेन `दरिद्रः` इतीष्टं सिद्धं भवति। `न दरिद्रायके लोपः` इत्यादिना श्लोकेन यत्रार्धधातुके लोपो नेष्यते यत्र विकल्पेन चेष्यते कैश्चित्, तद्दर्शयति। `दरिद्रायके` इत्यत्र ण्वुलन्ते शब्दे सिसाधयिषिते लोपो नेष्यते। दरिद्रातीति दरिद्रायाक इति। पूर्ववद्युक्। `दरिद्राणे` इति। अत्रापि ल्युङते लोपो नेष्यते। `दिदरिद्रासतीत्येके` इति। सनि कृते द्विर्वचनम्, अभ्यासकार्यम्। `दिदरिद्रिषतीति वा` इति। `सनीवन्तर्ध` (7.2.49) इत्यत्र `तनिपतिदरिद्राणाम्` इत्युपसंख्यानाद्विकल्पेनेट्। `अद्यतन्याम्` इति। लुङीत्यर्थः `लुङोऽद्यतनि` इति पूर्वाचार्यसंज्ञा। `अदरिद्रासौत्` इति। `यमरमनमातां सक्? च` (7.2.73) इति सगिटौ, `अस्ति सिचोऽपृक्ते` (7.3.96) इतीट्, `इट ईटि` (8.2.28) इति सिचो लोपः। ननु च **आतो धातोः** (6.4.140) इत्याकारालोपे कृते दरिद्र इति निर्देशेन भवितव्यम्, तत्? कथं दरिद्रस्येति निर्देश इत्याह -`दरिद्रस्येति निर्देशः` इत्यादि। `छन्दोवत्सूत्राणि भवन्ति` इत्यतः **ङ्यापोः संज्ञाछन्दसोर्बहुलम्** (6.3.63) इति बहुलवचनाच्छान्दसमिह ह्रस्वत्वम्। तपकरणं विस्पष्टार्थम्। भाव्यमानतया सवर्णाग्रहणादेव दीर्घो न भविष्यति॥ Prakriyasarvasvam ----------------- हलादौ क्ङिति सार्वधातुके परे दरिद्रातेरात इत् स्यात् । दरिद्रितः । अजादौ 'श्नाभ्यस्तयोरातः' इत्याल्लोपः । 'जक्षित्यादयः षट्' इत्यभ्यस्तत्वम् । Vartika ------- दरिद्रातेरार्धधातुके विवक्षिते आलोपो वाच्यः । लुङि वा सनि ण्वुलि ल्युटि च न । Sutra Prayogas -------------- * **दरिद्रितः** (भट्टिकाव्यम्): `इद्दरिद्रस्य` इति हलादौ क्ङिति सार्वधातुके इत्।