64099: तनिपत्योश्छन्दसि¶
Padacheda: तनि-पत्योः | S | 6 | 2 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) the root-vowel of तन् and पत् is elided before an affix beginning with a vowel, when it has an indicatory क् or ङ् ।
Vasu English Translation¶
In the छन्दस् (Vedas) the root-vowel of तन् and पत् is elided before an affix beginning with a vowel, when it has an indicatory क् or ङ् । As वितत्निरे कवयः, शकुना इव पप्तिमः ॥ In secular language वितेनिरे, पेतिम् ॥
Kashika¶
तनि पति इत्येतयोश्छन्दसि विषय उपधाया लोपो भवत्यजादौ क्ङिति प्रत्यये परतः। वित॑त्निरे क॒वयः॑ (ऋ० १.१६४.५)। श॒कु॒ना इ॑व पप्तिम (ऋ० ९.१०७.२०)। छन्दसीति किम्? वितेनिरे। पेतिम॥
Siddhanta Kaumudi¶
एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ॥
Padamanjari¶
वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ॥
Nyaas¶
वितत्निरे इति। अत्र यद्युपधालोपस्यासिद्धत्वम्? तथापि लोपविधानसामर्थ्यात्? अत एकहल्मध्ये (6.4.120) इत्यादिनैत्वाभ्यासलोपौ न भवतः। पप्तिमा इति। लिट्? क्रादिनियमादिट्॥
Prakriyasarvasvam¶
अनयारजादौ क्ङिति परे उपधालोपः स्यात् । वितत्निरे कवय ओ तवै शकुना इव पप्तिम ।