64099: तनिपत्योश्छन्दसि ======================= **Padacheda:** तनि-पत्योः | S | 6 | 2 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas) the root-vowel of तन् and पत् is elided before an affix beginning with a vowel, when it has an indicatory क् or ङ् । Vasu English Translation ------------------------ In the छन्दस् (Vedas) the root-vowel of तन् and पत् is elided before an affix beginning with a vowel, when it has an indicatory क् or ङ् । As वितत्निरे कवयः, शकुना इव पप्तिमः ॥ In secular language वितेनिरे, पेतिम् ॥ Kashika ------- तनि पति इत्येतयोश्छन्दसि विषय उपधाया लोपो भवत्यजादौ क्ङिति प्रत्यये परतः। वित॑त्निरे क॒वयः॑ (ऋ० १.१६४.५)। श॒कु॒ना इ॑व पप्तिम (ऋ० ९.१०७.२०)। छन्दसीति किम्? वितेनिरे। पेतिम॥ Siddhanta Kaumudi ----------------- एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ॥ Padamanjari ----------- वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ॥ Nyaas ----- `वितत्निरे` इति। अत्र यद्युपधालोपस्यासिद्धत्वम्? तथापि लोपविधानसामर्थ्यात्? `अत एकहल्मध्ये` (6.4.120) इत्यादिनैत्वाभ्यासलोपौ न भवतः। `पप्तिमा` इति। लिट्? क्रादिनियमादिट्॥ Prakriyasarvasvam ----------------- अनयारजादौ क्ङिति परे उपधालोपः स्यात् । वितत्निरे कवय ओ तवै शकुना इव पप्तिम ।