64094: खचि ह्रस्वः

Padacheda: खचि | S | 7 | 1 |

ह्रस्वः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The penultimate of the Causative अङ्ग (stem) is shortened before the affix खच्।

Vasu English Translation

The penultimate of the Causative अङ्ग (stem) is shortened before the affix खच्। Thus द्विषन्तपः, परंतपः, पुरंदरः ॥ See (3.2.29) and (3.2.41).

Kashika

खच्परे णौ परतो ह्रस्वो भवत्यङ्गस्योपधायाः। द्विषंतपः। परंतपः पुरंदरः॥

Siddhanta Kaumudi

खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥

Balamanorama

खचि ह्रस्वः - खचि ह्रस्वः । ‘दोषो णौ’ इत्यतो णाविति, ‘उदुपधायाः’ इत्यत ‘उपधाया’ इति चानुवर्तते । तदाह — खच्परे णाविति । खशि प्रकृते खचो विधिरिह ह्रस्वार्थोऽणिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात् । न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं चगमेः सुपी॑ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः ।

Nyaas

द्विषन्तपः, परन्तपः इति। द्विषत्परयोस्तापे (3.2.39) इति खच्, अरुर्द्विषदजन्तस्य मुम् (6.3.67) इति मुम्। पुरन्दरः इति। पूःसर्वयोर्दारिसहोः (3.2.41) इति खच्, वाचंमपुरन्दरौ च (6.3.68) इति निपातनान्मुमागमः। ह्रस्वग्रहणं विस्पष्टार्थम्, शक्यते मितां ह्रस्वः (6.4.92) इत्यतो मण्डूकप्लुतिन्यायेन ह्रस्वग्रहणमनुवर्तयितुम्॥

Prakriyasarvasvam

खच्परे णिचि परेऽङ्गस्योपधाया ह्रस्वः स्यात् । णिलोपः । द्विषतो मुमि कृतेऽन्त्यलोपः । द्विषन्तपः । परन्तपः ।

Sutra Prayogas

  • परंतपः (रघुवंशम्): खचि ह्रस्वः इति ह्रस्वः।

  • परंतपः (रघुवंशम्): खचि ह्रस्वः इति ह्रस्वः।

  • वसुंधरा (रघुवंशम्): खचि ह्रस्वः इति ह्रस्वः।

  • वसुंधरा (किरातार्जुनीयम्): खचि ह्रस्वः इति ह्रस्वः।

  • पुरन्दरस्य (शिशुपालवधम्): खचि ह्रस्वः इत्युपधाह्रस्वः।

  • परं-तपः (भट्टिकाव्यम्): खचि ह्रस्वः इति ह्रस्वः ।