64095: ह्लादो निष्ठायाम्

Padacheda: ह्लादः | S | 6 | 1 |

निष्ठायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The penultimate of the Causative of ह्लद् (ह्लादि) is shortened before the Participle affixes क्त and क्तवतु।

Vasu English Translation

The penultimate of the Causative of ह्लद् (ह्लादि) is shortened before the Participle affixes क्त and क्तवतु। Thus प्रह्लन्नः, प्रह्लन्नवान्, but प्रह्लादयति before non-nishtha. The rule applies also when क्तिन् follows as प्रह्लत्तिः ॥ This is done by splitting up the aphorism into two (1) ह्लादः (2) निष्ठायाम् ॥

Kashika

ह्लादोऽङ्गस्योपधाया ह्रस्वो भवति निष्ठायां परतः। प्रह्लन्नः। प्रह्लन्नवान्। निष्ठायामिति किम्? प्रह्लादयति। ह्लाद इति योगविभागः क्रियते, क्ति न्यपि यथा स्यात् प्र्रह्लत्तिरिति॥

Siddhanta Kaumudi

ह्रस्वः स्यात् । प्रह्लन्नः ॥

Balamanorama

ह्लादो निष्ठायाम् - ह्लादो निष्ठायाम् । ह्रस्वः स्यादिति । सेषपूरणमिदम् । ‘खचि ह्रस्वः’ इत्यतस्तदनुवृत्तेरिति भावः । प्रह्लन्न इति ।ह्लादी सुखे॑ । क्तः । ‘श्वीदितः’ इति नेट् ।रदाभ्यांट मिति नत्वम् ।

Tattvabodhini

ह्लादो निष्ठायाम् - प्रह्लन्न इति । ह्लादी सुखे । ईदित्त्वादिडभावेरदाभ्या॑मिति नत्वम् ।

Padamanjari

ह्लादी सुखे च, ईदित्वान्निष्ठायामनिट् । क्वचित्पठ।ल्तेह्लाद इति योगविभागः क्रियते, क्तिन्यपि यथा स्यात् प्रल्हतिरिति । माष्ये तु नैतद्दृष्टम् ॥

Nyaas

प्रह्लन्नः इति। ह्लादी सुखे च (धातुपाठः-27) रदाभ्याम् (8.2.42) इत्यादिना नत्त्वम्। प्रह्लादयति इति हेतुमण्णिच्॥

Prakriyasarvasvam

ह्रस्वः स्यात् । नत्वम् आह्लन्नः । ‘घुमास्थ-’ (६-४-६६) इतीत्वम् ! घेट्, धीतम् । गीतम् । पीतम् । पानावसानार्थयोः पासाधात्वोर्ग्रहः । तेन शोषे त्राणे च पातम् । क्षये सातम् ॥