64094: खचि ह्रस्वः ================== **Padacheda:** खचि | S | 7 | 1 | ह्रस्वः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The penultimate of the Causative अङ्ग (stem) is shortened before the affix खच्। Vasu English Translation ------------------------ The penultimate of the Causative अङ्ग (stem) is shortened before the affix खच्। Thus द्विषन्तपः, परंतपः, पुरंदरः ॥ See (3.2.29) and (3.2.41). Kashika ------- खच्परे णौ परतो ह्रस्वो भवत्यङ्गस्योपधायाः। द्विषंतपः। परंतपः पुरंदरः॥ Siddhanta Kaumudi ----------------- खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥ Balamanorama ------------ **खचि ह्रस्वः** - खचि ह्रस्वः । 'दोषो णौ' इत्यतो णाविति, 'उदुपधायाः' इत्यत 'उपधाया' इति चानुवर्तते । तदाह — खच्परे णाविति । खशि प्रकृते खचो विधिरिह ह्रस्वार्थोऽणिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात् । न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं चगमेः सुपी॑ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः । Nyaas ----- `द्विषन्तपः, परन्तपः` इति। `द्विषत्परयोस्तापे` (3.2.39) इति खच्, **अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति मुम्। `पुरन्दरः` इति। **पूःसर्वयोर्दारिसहोः** (3.2.41) इति खच्, `वाचंमपुरन्दरौ च` (6.3.68) इति निपातनान्मुमागमः। ह्रस्वग्रहणं विस्पष्टार्थम्, शक्यते `मितां ह्रस्वः` (6.4.92) इत्यतो मण्डूकप्लुतिन्यायेन ह्रस्वग्रहणमनुवर्तयितुम्॥ Prakriyasarvasvam ----------------- खच्परे णिचि परेऽङ्गस्योपधाया ह्रस्वः स्यात् । णिलोपः । द्विषतो मुमि कृतेऽन्त्यलोपः । द्विषन्तपः । परन्तपः । Sutra Prayogas -------------- * **परंतपः** (रघुवंशम्): `खचि ह्रस्वः` इति ह्रस्वः। * **परंतपः** (रघुवंशम्): `खचि ह्रस्वः` इति ह्रस्वः। * **वसुंधरा** (रघुवंशम्): `खचि ह्रस्वः` इति ह्रस्वः। * **वसुंधरा** (किरातार्जुनीयम्): `खचि ह्रस्वः` इति ह्रस्वः। * **पुरन्दरस्य** (शिशुपालवधम्): `खचि ह्रस्वः` इत्युपधाह्रस्वः। * **परं-तपः** (भट्टिकाव्यम्): `खचि ह्रस्वः` इति ह्रस्वः ।