64090: दोषो णौ

Padacheda: दोषः | S | 6 | 1 |

णौ | S | 7 | 1 |

Sutrartha

दुष्-धातोः उपधावर्णस्य णिच्-प्रत्यये परे ऊकारादेशः भवति ।

‘दुष्’ (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः भवति । यथा, दुष्-धातोः णिच्-प्रत्यये परे - दुष् + णिच् [हेतुमति च (3.1.26) इति णिच्] → दूष् + इ [पुगन्तलघूपधस्य च (7.3.86) इत्यनेन उकारस्य गुणे प्राप्ते अपवादत्वेन दोषो णौ (6.4.90) इति उपधायाः ऊकारः] → दूषि [सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा ] अस्यैव अग्रे दूषयति, दूषयतः - आदीनि रूपाणि भवन्ति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘दोषः’ इति दुष्-इत्यस्य षष्ठी-एकवचनमस्ति । वस्तुतः अत्र ‘दुषः’ इति भवेत्, परन्तु अत्र ‘दोषः’ इति निर्दिष्टमस्ति । अस्य किमपि प्रयोजनम् न विद्यते । अतएव कौमुद्याम् दीक्षितः वदति - ‘दुषः इति सुवचम् । 2. ‘ऊत्’ इत्यत्र तकारः उच्चारणार्थः अस्ति ।

Sutrartha (English)

The उपधा letter of the verb root दुष् is converted to ऊकार when followed by the णिच् प्रत्यय.

Vasu English Summary

The ओ of दोष् is replaced by ऊ before the causative णि।

Vasu English Translation

The ओ of दोष् is replaced by ऊ before the causative णि। Thus दूषयति, दूषयतः, दूषयन्ति ॥ Similar reasons as in गोह, may be given for the root दुष being exhibited as दोष in the sutra. When not followed by णि, we have दोषो वर्त्तते ॥

Bhashya

दोषो णौ (3088) (विकृतनिर्देशाक्षेपभाष्यम्) किमर्थं दुषेर्विकृतस्य ग्रहणं क्रियते, न दुष इत्येवोच्येत ? (6574 विकृतनिर्देशप्रयोजनवार्तिकम् ॥ 1 ॥) - दोषिग्रहणे च - किम् ? अयादेशप्रतिषेधार्थं विकृतग्रहणं क्रियते । ह्रस्वादेशे ह्ययादेशप्रसङ्गः, ऊत्वस्यासिद्धत्वात् । ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रदूष्य गतः । उपदूष्य गतः । किं कारणम् ? ऊत्वस्यासिद्धत्वात् । असिद्धमूत्वं तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशः प्रसज्येत ॥ (प्रयोजनाक्षेपभाष्यम्) समानाश्रयवचनात्सिद्धमित्येव । समानाश्रयमसिद्धम् । व्याश्रयं चैतत् । णावूत्वम्, णेर्ल्यप्ययादेश इति ॥

Kashika

दोष उपधाया ऊकार आदेशो भवति णौ परतः। दूषयति, दूषयतः, दूषयन्ति। विकृतग्रहणं प्रक्रमाभेदार्थम्। पूर्वत्र हि गोह इत्युक्त म्। णाविति किम् ? दोषो वर्तते।

Siddhanta Kaumudi

दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥

Balamanorama

दोषो णौ - दोषो णौ । ‘ऊदुपधाया’ इत्यनुवर्तते । ‘दुष वैकृत्ये’ इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् ।

Tattvabodhini

दोषो णौ - दोषो णौ । दुष वैकृत्ये । दिवादिः । णौ किम् । दोषः ।

Padamanjari

किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दतोतरत्वात् । उक्तोतरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ॥

Nyaas

दीषयति इति। दुष वैकृत्ये (धातुपाठः-1185)। अथ किमर्थम्? दोषः इति विकृतस्य ग्रहणम्, न दुषः इत्येवोच्येत, विषयावधारणार्थमिति चेत्? न; णाविति साक्षाद्विषयस्य निर्देशादित्यत आह - विकृतग्रहणम् इत्यादि पूर्वसूत्रे हि गोङः इत्युक्तम्, अत्र यदि दूषः इत्येवोच्येत, प्रक्रमस्यारम्भस्य भेदः स्यात्, अभेदश्चेष्यते। अतदस्तदर्थं विकृतस्य ग्रहणम्। किमर्थं पुनः प्रक्रमस्याभेद इत्यते? अत्यल्पमिदं पृच्छ्यते, वैचित्त्र्यस्यापि नाम प्रयोजनं प्रष्टव्यम्। वैचित्त्र्यस्य ह्रयं प्रकारः - प्रक्रमाभेद इति, किं तदर्थेन प्रश्नपरिश्रमेण!॥

Prakriyasarvasvam

दुषेर्णावुपधाया ऊत् स्यात् । दूषयति ।