64089: ऊदुपधाया गोहः

Padacheda: ऊत् | S | 1 | 1 |

उपधायाः | S | 6 | 1 |

गोहः | S | 6 | 1 |

Sutrartha

गुह्-धातोः अजादिप्रत्यये परे ‘गोह्’ इति रूपस्य प्रसक्तिः अस्ति चेत् तं बाधयितुमुपधायाः ऊकारादेशः भवति ।

‘गुहूँ’ (संवरणे) इति भ्वादिगणस्य धातुः । अस्य धातोः अजादिप्रत्यये परे यदि उपधावर्णस्य (उकारस्य) गुणादेशं कृत्वा ओकारस्य प्रसक्तिः जायते, तर्हि तस्य गुणादेशस्य निषेधं कर्तुमस्य सूत्रस्य प्रयोगः भवति । अनेन सूत्रेण उकारस्य स्थाने दीर्घ-ऊकारस्य विधानं कृत्वा गुणादेशः निषिध्यते । यथा, गुह्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - गुह् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → गुह् + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ‘झि’] → गुह् + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → गूह् + अ + झि [अजादिप्रत्यये परे पुगन्तलघूपधस्य च (7.3.86) इत्यनेन गुह्-इत्यस्य उकारस्य गुणे प्राप्ते ऊदुपधाया गोहः (6.4.89) इत्यनेन तस्य अपवादत्वेन उकारस्य ऊकारादेशः भवति] → गूह् + अ + अन्ति [झोऽन्तः (7.1.3) इति अन्तादेशः] → गूहन्ति [अतो गुणे (6.1.97) इति पररूपः अकारः] अस्मिन् सूत्रे ‘गोहः’ अस्य ग्रहणम् एतत् ज्ञापयति यत् अस्य सूत्रस्य प्रयोगः तदा एव भवेत् अदा अजादिप्रत्ययः गुणं कारयितुम् समर्थः अस्ति । एवमस्ति चेदेव तस्य गुणादेशस्य बाधकरूपेण अनेन सूत्रेण ऊकारादेशः विधीयते । यदि गुह्-इत्यस्य उकारस्य गुणादेशः एव न प्रसज्यते, तर्हि अस्य सूत्रस्यापि प्रयोगः न भवतीति ज्ञातव्यम् । यथा, गु्ह्-धातोः लिट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - गुह् + लिट् [परोक्षे लिट् (3.2.115) इति लिट्] → गुह् गुह् + ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → गु गुह् + ल् [हलादि शेषः (7.4.60) इति हकारलोपः] → जु गुह् + ल् [कुहोश्चुः (7.4.62) इति गकारस्य चवर्गादेशः जकारः] → जु गुह् + तस् [तिप्तस्.. (3.4.78) इति तस् ] → जु गुह् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तस्-इत्यस्य अतुस्-आदेशः] → जुगुहतुः [अत्र ‘अतुस्’-प्रत्ययस्य अकारः सार्वधातुकमपित् (1.2.4) इत्यनेन ङित्-अस्ति, अतः क्ङिति च (1.2.5) इत्यनेन सः गुणस्य निषेधं कारयति । अतः अत्र पुगन्तलघूपधस्य च (7.3.86) इत्यनेन गुणस्य प्रसक्तिः नास्ति । अतः अत्र ऊदुपधाया गोहः (6.4.89) इत्यनेन दीर्घादेशः अपि न भवति ।] ज्ञातव्यम् - ‘ऊत्’ इत्यत्र तकारः उच्चारणार्थः अस्ति ।

Sutrartha (English)

When the उपधा of verb root गुह् has a chance of undergoing a गुणादेश while followed by an अजादिप्रत्यय, the गुणादेश is blocked and the उपधा becomes दीर्घ instead.

Vasu English Summary

For the penultimate ओ of the गुण-ated अङ्ग (stem) गोह् (from गुह्) there is the substituted ऊ before an affix beginning with a vowel.

Vasu English Translation

For the penultimate ओ of the गुण-ated अङ्ग (stem) गोह् (from गुह्) there is the substituted ऊ before an affix beginning with a vowel. Thus निगूहति, निगूहकः, साधुनिगूहिन्, निगूहम्, निगूहन्ति, गूहो वर्तते ॥ Why do we say ‘penultimate’? So that the substitution should not apply any where else. The form गोह् is taken in the sutra to prohibit the application of the rule to cases where गुह् does not assume the form गोह् ॥ Therefore not here, निजुगुहतुः, निजुगुहुः ॥ This change will not take place before the affixes beginning with a consonant; as निगोढा, निगोढुम् ॥ Some say, the word is exhibited as गोह in order to prohibit the अय् substitution of णि before ल्यप् ॥ As निगाहि + ल्यप् = निगूह्य ((6.4.56) not applied), the ऊ substitution being considered as asiddha (6.4.22) would have brought in अय्, गूह् being considered as a word having a light vowel for its penultimate. According to Kasika the ऊ substitution, however, is not asiddha, as their places of operation are different.

Bhashya

ऊदुपधाया गोहः (3087) (उपधाकार्याधिकरणम्) (विकृतनिर्देशाक्षेपभाष्यम्) किमर्थं गुहेर्विकृतस्य ग्रहणं क्रियते, न गुह इत्येवोच्येत? (6572 विकृतनिर्देशप्रयोजनवार्तिकम्॥1॥) गोहिग्रहणं विषयार्थम्॥ गोहिग्रहणं क्रियते विषयार्थम्। विषयः प्रतिनिर्दिश्यते। यत्रास्यैतद्रूपं तत्र यथा स्यात्, इह मा भूत् - निजुगुहतुः, निजुगुहुरिति॥ (विकृतनिर्देशप्रयोजनभाष्यम्) अयादेशप्रतिषेधार्थं च विकृतग्रहणं क्रियते॥ (6573 प्रयोजनसमर्थकवार्तिकम्॥2॥) ह्रस्वादेशे ह्ययादेशप्रसङ्ग ऊत्वस्यासिद्धत्वात्॥ ह्रस्वादेशे हि सति अयादेशः प्रसज्येत। प्रगूह्य गतः, उपगूह्य गत इति। किं कारणम्? ऊत्वस्यासिद्धत्वात्। असिद्धमूत्वम्, तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् (6.4.56) इत्ययादेशः प्रसज्येत। (प्रथमप्रयोजनाक्षेपभाष्यम्) विषयार्थेन तावन्नार्थो गोहिग्रहणेन। प्रश्लिष्टनिर्देशात्सिद्धम्। प्रश्लिष्टनिर्देशोऽयम् - उ-ऊत्-ऊदिति। तत्र ह्रस्वस्यावकाशः - निजुगुहतुः, निजुगुहुः। गुणस्यावकाशः - निगोढा, निगोढुम्। इहोभयं प्राप्नोति - निगूहयति, निगूहति, निगूहकः, साधु निगूही। परत्वात् गुणे कृते आन्तर्यतो दीर्घो भवति। (द्वितीयप्रयोजनाक्षेपभाष्यम्) अयादेशप्रतिषेधेन चापि नार्थः। समानाश्रयवचनात्सिद्धम्। समानाश्रयमसिद्धं भवति। व्याश्रयं चैतत्। णावूत्वम्, णेर्ल्यप्ययादेशः॥

Kashika

गोहोऽङ्गस्योपधाया ऊ कारादेशो भवत्यजादौ प्रत्यये परतः। निगूहयति। निगूहकः। साधुनिगूही। निगूहंनिगूहम्। निगूहन्ति। गूहो वर्तते। उपाधाया इति किम् ? अलोऽन्त्यस्य (१.१.५२) मा भूत्। गोह इति विकृतग्रहणं विषयार्थम्। यत्रास्यैतद्रूपं तत्रैव यथा स्याद्, इह मा भूत् — निजुगुहतुः, निजुगुहुः। अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति। निगूह्य गत इत्यूत्त्वस्यासिद्धत्वाद् ल्यपि लघुपूर्वात् (६.४.५६) इति णेरयादेशः स्यात्। व्याश्रयत्वादेवासिद्धत्वमत्र नास्ति। णावूत्त्वम् ण्यन्तस्य च ल्यप्ययादेश इति। अचीत्येव — निगोढा। निगोढुम्॥

Siddhanta Kaumudi

गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥

Balamanorama

ऊदुपधाया गोहः - ऊदुपधायाः ।गोह॑इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । अचिश्नुधात्वित्यतोऽनुवृत्तस्य अचीत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषमत्वात्तदादिविधिः । तदाह — गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः । गुणापवादः । जुगूह । गुणहेताविति किम् । जुगुहतुः जुगुहुः । जुगुहे जुगुहाते जुगुहिरे । जुगूहिथ । जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे — जुघुक्षे । ढत्वभष्भावकत्वषत्वानि । जुगुहाथे जुगुहिध्वे — जुगुढ्वे । जुगूह । जुगुहिव-जुगुह्व जुगुहिम — जुगुहृ । जुगुहे । जुगुवहिहे — जुगुह्वहे । जुगुहिमहे-जुगुहृहे । इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह — गूहितेति । इडभावे अजादप्रत्ययाऽभावादूत्त्वाऽभावे गुणे ढत्वधत्वष्टुत्वलोपेषु रूपमाह — गोढेति । लृटि स्ये इट्पक्षे ऊत्त्वे रूपमाह — गूहिष्यतीति । इडभावे तु गुणढत्वभष्भावकत्वषत्वेषु रूपमाह — घोक्ष्यतीति । गूहिष्यते, घोक्ष्यते इत्यप्युदाहार्यम् । गूहतु । गूहताम् । अगूहत् । अगूह । गूहेदिति ।गूहेते॑त्यपि ज्ञेयम् । गुह्रादिति । आशीर्लिङि अजादिप्रत्ययाऽभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्षे सिज्लोपे ऊत्त्वे रूपमाह — अगूहीदिति । अगूहिष्टामगूहिषुरित्यादि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः । अघुक्षदिति । ढत्वभष्भावकत्वषत्वानि । अधुक्षतामघुक्षन्नित्यादि ।

Nyaas

निगूहयति इति। गुहू संवरणे (धातुपाठः-896), हेतुमाण्णिच्। निगूहकः इति। ण्वुल्। साधुनिगूहि इति। सुप्यजातौ णिनिस्ताच्छील्ये (3.2.78) इति णिनिः। निगूहं निगूहम् इति। आभीक्ष्ण्ये णमुल्? च (3.4.22) इति णमुल्, आभीक्ष्ण्ये द्वे भवतः (वा।887) इति द्विर्वचनम्। निगूहः इति। भावे घञ्। अलोऽन्यस्य मा भूत् इति। उत्तरत्र इत्यभिप्रायः। इह त्वोरित्यनुवत्र्य विनाप्युपधाग्रहणेन शक्यत एवायमर्थः प्रतिपादयितुमित्येतदेव मनसि कृत्वा परं पृष्टवान् - उपधाग्रहणं किं? इति; इत्तरार्थञ्चोपधाग्रहणं क्रियमाणमत्राप्यलोऽन्त्यस्य विधिं निवर्तयति। तेन प्रयोजनाभावात्? ओरित्येतन्नानुवर्तते। अथ किमर्थम्? `गोहः इति विकृतनिर्देशः क्रियते, न गुहः इत्येवोच्येत, लघु ह्रेवं सूत्रं भवति? इत्याह - गोह इति विकृतग्रहणम् इत्यादि। ऊत्त्वस्य विशिष्टविषयो यथा स्यादित्येवमर्थम्। गोह इति विकृतस्य कृतोकारस्थ ग्रहणमित्यर्थः। एतदेव व्यक्तीकर्त्तुमाह - यत्र इत्यादि। अस्य कश्चिदमुमर्थमाचष्टे। एतदुक्तं भवति - गुणे कृते ऊत्त्वेन भवितव्यमिति लक्ष्यते; एतच्चायुक्तम्; एवं हि व्याख्यायमाने अयादेशप्रतिषेधार्थं `निगूह्र गतः इति केचिदिच्छन्ति इत्युक्त्वा यद्वक्ष्यति - उत्त्वस्यासिद्धत्वात्? `ल्यपि लघूपूर्वात् (6.4.56) इति णेरयादेशः स्यात्` इति, तन्नोपपद्यते। यदि गूणं कृत्वोकारस्योत्त्वं विधीयते, ततश्च सत्यूकारस्यासिद्धत्वेनैव लघुपूर्वत्वमुपपद्यते, ओकारपूर्वत्वात्; तत्? कुत ऊकारस्यासिद्धत्वेऽयादेशप्रसङ्गः? तस्मादयमत्रार्थः - यस्मिन्? विषये गुहेर्गोह इत्येतद्रूपं सम्भाव्यते तत्र यथा स्यात्। यत्र प्रत्यये गुणः सम्भवति तस्मिन्? कृतेऽकृत एव गुणे यथा स्यात्, अन्यत्र मा भूदिति। तस्माद्विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्? गुणविषये सम्मुखीभूत एवाकृत एव गुण ऊत्वेन भवितव्यम्। एवञ्च सति ऊत्तवस्यासिद्धत्वात् इत्यादिकः प्रसङ्गग्रन्थो युज्यते, नान्यथा। ननु च गुणनिमित्ते प्रत्यय उत्पन्ने परत्वाद्? गुणेनैव भवितव्यम्, तत्कथमकृत एव गुण ऊत्त्वं भवेत्? कृताकृतप्रसङ्गित्वात्। तद्धि कृते गुणे प्राप्नोत्यकृतेऽपि, विकृतनिर्देशस्य विशिष्टविषयोपलक्षणार्थत्वात्। न तूत्त्वे कृते गुणः प्राप्नोति, अलघूपधत्वात्। तस्माद्? गुणात्? पूर्वमूत्त्वेन नित्यत्वाद्भवितव्यम्। अत एव दीर्घोच्चारणमर्थवद्भवति, नान्यथा। यदि गुणे कृते सत्ययमादेशः स्यात्, दीर्घोच्चारणमनर्थकं स्यात्। आन्तरतम्यादेव दीर्घस्य दीर्घो भविष्यति। ज्ञापितं हि दिव उत् (6.1.131) इति तपकरमेन - भाव्यमानोऽप्युकारः सवर्णान्? गृह्णति (चान्द्र।प।44) इति। यदन्यत्? प्राप्नोति तन्निवृत्त्यर्थं दीर्घोच्चारणमिति चेत्? स्यादेतत् - अजुगूहत् इत्यत्र णौ चङ्यपधायाः (7.4.1) इति ह्रस्वो मा भूदित्येवमर्थं दीर्घोच्चारणमिति। कुतः पुनरेष नियमोऽत्र ह्रस्वत्वेन न भवितव्यमिति? न हीह कात्यायनस्य भाव्यकारस्य वा वचनमस्ति, नापि शिष्टप्रयोगः, यत एष निश्चयः स्यात्। यथालक्षणमप्रयुक्तेषु इति चोच्यत। तस्मात्? अजूगुहत् इत्येवं भवितव्यम्। यदि गुणे कृतेऽयमादेशः क्रियेत, ततः किमनिष्टं स्यात्? दीर्घोच्चारणमनर्थकं स्यात्। अत्रापि दीर्घोच्चारणं वैचित्त्र्यार्थं प्रकल्प्येत? एवमपि प्रक्रियागौरवं स्यात्। तस्माद्दीर्घोच्चारणसामर्थ्यादकृत एव गुण ऊत्त्वेन भवितव्यम्। निगूह्र गतः इति। ण्यन्तात्? कत्वा, प्रादिसमासः। समासोऽनञ्पूर्व (7.1.37) इत्यादिना क्त्वो ल्यप्। तत्र व्याश्रयत्वात् इत्यादि। एतेनायादेशप्रतिषेधार्थतां विकृतिनिर्देशस्य प्रत्याचष्टे। कथं पुनव्र्याश्रयत्वम्? इत्याह - णावूत्त्वम् इत्यादि। निगोढा इति। तृच्। हो ढः (8.2.31) , झषस्तथोर्धोऽधः (8.2.40) इति धत्वम्, ष्टुना ष्टुः (8.4.41) इति ष्टुत्त्वम्, ढो ढे लोपः (8.3.13) ॥

Prakriyasarvasvam

सगुणस्य गुहेरचि परे उपधाया ऊत् स्यात् । गूहिता । अनिट्यजभावादूत्वं न । ढत्वादौ कृते गोढा ।

Sutra Prayogas

  • गूहमानः (भट्टिकाव्यम्): ऊदुपधाया गोहः इत्यूत्वम्।

  • चोपजुगूहैनं (भट्टिकाव्यम्): ऊदुपधा- या गोहः इत्यूत्वम्।