64090: दोषो णौ ============== **Padacheda:** दोषः | S | 6 | 1 | णौ | S | 7 | 1 | Sutrartha --------- **दुष्-धातोः उपधावर्णस्य णिच्-प्रत्यये परे ऊकारादेशः भवति ।** 'दुष्' (वैकृत्ये) अयम् दिवादिगणस्य धातुः । अस्य धातोः णिच्-प्रत्यये परे उपधावर्णस्य दीर्घ-ऊकारादेशः भवति । यथा, दुष्-धातोः णिच्-प्रत्यये परे - दुष् + णिच् [**हेतुमति च** (3.1.26) इति णिच्] → दूष् + इ [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन उकारस्य गुणे प्राप्ते अपवादत्वेन **दोषो णौ** (6.4.90) इति उपधायाः ऊकारः] → दूषि [**सनाद्यन्ताः धातवः** (3.1.32) इति धातुसंज्ञा ] अस्यैव अग्रे दूषयति, दूषयतः - आदीनि रूपाणि भवन्ति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'दोषः' इति दुष्-इत्यस्य षष्ठी-एकवचनमस्ति । वस्तुतः अत्र 'दुषः' इति भवेत्, परन्तु अत्र 'दोषः' इति निर्दिष्टमस्ति । अस्य किमपि प्रयोजनम् न विद्यते । अतएव कौमुद्याम् दीक्षितः वदति - 'दुषः इति सुवचम् । 2. 'ऊत्' इत्यत्र तकारः उच्चारणार्थः अस्ति । Sutrartha (English) ------------------- The उपधा letter of the verb root दुष् is converted to ऊकार when followed by the णिच् प्रत्यय. Vasu English Summary -------------------- The ओ of दोष् is replaced by ऊ before the causative णि। Vasu English Translation ------------------------ The ओ of दोष् is replaced by ऊ before the causative णि। Thus दूषयति, दूषयतः, दूषयन्ति ॥ Similar reasons as in गोह, may be given for the root दुष being exhibited as दोष in the *sutra*. When not followed by णि, we have दोषो वर्त्तते ॥ Bhashya ------- दोषो णौ (3088) (विकृतनिर्देशाक्षेपभाष्यम्) किमर्थं दुषेर्विकृतस्य ग्रहणं क्रियते, न दुष इत्येवोच्येत ? (6574 विकृतनिर्देशप्रयोजनवार्तिकम् ॥ 1 ॥) - दोषिग्रहणे च - किम् ? अयादेशप्रतिषेधार्थं विकृतग्रहणं क्रियते । ह्रस्वादेशे ह्ययादेशप्रसङ्गः, ऊत्वस्यासिद्धत्वात् । ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रदूष्य गतः । उपदूष्य गतः । किं कारणम् ? ऊत्वस्यासिद्धत्वात् । असिद्धमूत्वं तस्यासिद्धत्वात् ल्यपि लघुपूर्वात् इत्ययादेशः प्रसज्येत ॥ (प्रयोजनाक्षेपभाष्यम्) समानाश्रयवचनात्सिद्धमित्येव । समानाश्रयमसिद्धम् । व्याश्रयं चैतत् । णावूत्वम्, णेर्ल्यप्ययादेश इति ॥ Kashika ------- दोष उपधाया ऊकार आदेशो भवति णौ परतः। दूषयति, दूषयतः, दूषयन्ति। विकृतग्रहणं प्रक्रमाभेदार्थम्। पूर्वत्र हि गोह इत्युक्त म्। णाविति किम् ? दोषो वर्तते। Siddhanta Kaumudi ----------------- दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्याण्णौ । दूषयति ॥ Balamanorama ------------ **दोषो णौ** - दोषो णौ । 'ऊदुपधाया' इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति ।णा॑विति शेषः । दूषयतीति । लघूपधगुणापवाद ऊत् ।दुषो णा॑वित्येव सुवचम् । Tattvabodhini ------------- **दोषो णौ** - दोषो णौ । दुष वैकृत्ये । दिवादिः । णौ किम् । दोषः । Padamanjari ----------- किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दतोतरत्वात् । उक्तोतरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ॥ Nyaas ----- `दीषयति` इति। `दुष वैकृत्ये` (धातुपाठः-1185)। अथ किमर्थम्? `दोषः` इति विकृतस्य ग्रहणम्, न `दुषः` इत्येवोच्येत, विषयावधारणार्थमिति चेत्? न; णाविति साक्षाद्विषयस्य निर्देशादित्यत आह - `विकृतग्रहणम्` इत्यादि पूर्वसूत्रे हि `गोङः` इत्युक्तम्, अत्र यदि `दूषः` इत्येवोच्येत, प्रक्रमस्यारम्भस्य भेदः स्यात्, अभेदश्चेष्यते। अतदस्तदर्थं विकृतस्य ग्रहणम्। किमर्थं पुनः प्रक्रमस्याभेद इत्यते? अत्यल्पमिदं पृच्छ्यते, वैचित्त्र्यस्यापि नाम प्रयोजनं प्रष्टव्यम्। वैचित्त्र्यस्य ह्रयं प्रकारः - प्रक्रमाभेद इति, किं तदर्थेन प्रश्नपरिश्रमेण!॥ Prakriyasarvasvam ----------------- दुषेर्णावुपधाया ऊत् स्यात् । दूषयति ।