64076: इरयो रे

Padacheda: इरयोः | S | 6 | 2 |

रे | S | | | 1

Sutrartha


Vasu English Summary

रे is diversely substituted for इरे in the छन्दस् (Vedas).

Vasu English Translation

रे is diversely substituted for इरे in the छन्दस् (Vedas). Thus कं स्विद्गर्भं प्रथमं दध्रे आपः (Rig X. 82.5) या स्य परिदध्रे ॥ In दध्रे, the आ of धा is elided before the affix इरे by (6.4.64), the रे substitution being considered as asiddha (6.4.22) for the purposes of the elision of आ ॥ Sometimes the substitution does not take place, as परमाया धियोग्निर्म्माणि चक्रिरे ॥ Here इट् augment is first added to रे after the सेट् roots and the affix thus becomes इरे, then रे is substituted again for this इरे by this sutra, thus the affix is brought back to its original condition. To show this repetition — रे — इरे — रे the sutra has exhibited the word इरयोः in the dual number.

Kashika

इर इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति। गभ॑ ᐀्ं प्रथ॒मं द॑ध्॒र आपः॒ (ऋ० १०.८२.५)। या॑श्च॒ परि॒द॑दृ॒श्रे (मै०सं० ४.४.१)। धाञो रेभावस्यासिद्धत्वादातो लोपः (६.४.६४) भवति। न च भवति — परमाया धियोऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटां धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थं च इरयोरित्ययं द्विवचननिर्देशः॥

Siddhanta Kaumudi

प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥

Padamanjari

दघ्र इति । ननु चात्र परत्वाद्रेभावे कृते अनजादित्वादाल्लोपो न प्राप्नोति अत आह - घञो रेभावस्यासिद्धत्वादिति । नन्वेवमपि रेभावे कृते तस्यैवेडागमः प्राप्नोति, न च रेभावस्य वैयर्थ्यम् कृसृभृप्रभृतिष्वनिट्सु चरितार्थत्वात् इत्यत आह - अत्रेति । कथं पुनर्लाक्षणिकस्य तस्य थैरेशब्दस्य रेभावो भवति कथं वा स्वप्रवृत्तिमपेक्ष्य तस्मिन्निडागमे कृते पुनः स्वयं प्रवर्तमानस्यात्माश्रयदोषो न भवति तत्राह - तदर्थे चेति । द्विवचननिर्देशाद् दोषद्वयं न भवतीत्यर्थः ॥

Nyaas

दध्रे इति। दधातेर्लिट्, लिटस्थझयोरेशिरेच् (3.4.81) इतोरेच्। तस्यानेन रयादेशः अतो लोपः (6.4.48) इत्याकारलोपः। परिददृश्रे इति। दृशः परिपूर्याल्लिडादिरातोलोपदर्ज विधेयः। अथ दध्रे इत्यत्र कथमातो लोपः? यावता `दवा+हरे इति स्थित आकारलोपः प्राप्नोति? रेभावश्च, तत्र परत्वाद्रेभावः; तस्मिन्? कृतेऽनजादित्वादाकारलोपो न प्राप्नोति? अत आह -धाञो रेभावस्यासिद्धत्वात् इत्यादि असिद्धत्वन्तु सिद्धवदत्रा भात् (6.4.22) इत्यनेन। चक्रिरे इति। कृञो रूपम्। ननु च रेभावे कृते दृशिप्रभृतयो ये लिटि सेटो धातवः, क्रादिमियमात्? तेभ्यो र इत्यस्येटि कृते ददृश्रे इति रूपं न सिद्धयेत्? ददृशिर इत्यादिना रूपेण भवितव्यम्, न च शक्यते वक्तुम् -रेभावविधानसामर्थ्यादिङ् न भविष्यति; रेभावस्थ क्रादिषु चारितार्थत्वात्? तेब्यो हि परस्य लिटः कृसृ (7.2.13) इत्यादिनेट्प्रतिषेधः? इत्यत आह -अत्र इत्यादि। कथं पुना रेभावो लभ्यते? इत्याह -तदर्थञ्च इत्यादि। इटि कृते पुना रेभावो यता स्यादित्येवमर्थमिरेश्च इरेश्चेत्येकशेषं कृत्वेरयोरिति द्विवचनेन निर्देशः। तेन यश्च झस्थान इरेच्? शब्दः क्रियते, यश्चेरे इत्यस्येटि कृते सत्युत्तरकालमिरेशब्दः सम्पद्यते, तयोरपि रेभावः सिद्धो भवति॥

Prakriyasarvasvam

इरे शब्दस्य बहुलं रे स्यात् । ददृशिरे इति प्राप्ते नक्तं ददृश्रे । मदे सोमस्य रण्यानि चक्रिरे । <karika>सेटां रेत्वे कृते पश्चादिटि स्यादिर इत्यदः । पुनस्तस्यापि रेत्वार्थं द्वित्वोक्तिरिरयोरिति ।। ८८३ ।।</karika>