64075: बहुलं छन्दस्यमाङ्योगेऽपि

Padacheda: बहुलम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

अमाङ्योगे | S | 7 | 1 |

अपि | S | 0 | 0 |

Sutrartha

वेदेषु - माङ्-योगे अपि अङ्गस्य अट् आट् बहुलम् भवतः ।

माङ्-अव्ययस्य उपस्थितौ न माङ्योगे (6.4.74) इत्यनेन अङ्गस्य अट्/आट्-आगमस्य निषेधः क्रियते । परन्तु वेदेषु माङ्योगेऽपि एतौ आगमौ कृतौ दृश्येते, तथा माङ्-विना अपि एतयोः निषेधः कृतः दृश्यते । यथा - 1. ‘जनिष्ठा उग्रः सहसे तुराय’ (तैत्तिरीयब्राह्मणम् - 2.8.3.18) । अत्र ‘जनिष्ठाः’ इति जन्-धातोः लुङ्-लकारस्य मध्यमपुरुषैकवचनमस्ति । अत्र यद्यपि माङ्-ग्रहणम् नास्ति, तथापि अडागमः न दृश्यते । 2. ‘मा वः क्षेत्रे परबीजानि अवाप्सुः’ (आपस्तम्बधर्मसूत्राणि) - अत्र ‘अवाप्सुः’ इति वप्-धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनमस्ति । अत्र यद्यपि माङ्-ग्रहणमस्ति , तथापि अडागमः दृश्यते ।

Sutrartha (English)

In वेदाः, the अडागम आडागम may or may not be seen done in presence of माङ्.

Vasu English Summary

There is diversity in the छन्दस् (Vedas) : the augment अट् or आट् is added even with मा and sometimes not added even there is no मा।

Vasu English Translation

There is diversity in the छन्दस् (Vedas) : the augment अट् or आट् is added even with मा and sometimes not added even there is no मा। Thus in जनिष्ठा उग्रः (Rig X. 73.1), काममूनयीत् (Rig I.53.3) and काममर्दयीत्; the augment is not added though there is no मा ॥ In मा वः क्षेत्रे परबीजान्यवाप्सुः, मा अभित्थाः, मा आवः, the augment is not elided, though the particle मा is added.

Kashika

छन्दसि विषये माङ्योगेऽपि बहुलमडाटौ भवतः, अमाङ्योगेऽपि न भवतः। अमाङ्योगे तावत् — जनि॑ष्ठा उ॒ग्रः (ऋ० १०.७३.१)। काम॑मूनयीः(ऋ० १.५३.३)। काममर्दयीत्। माङ्योगेऽपि भवतः। मा वः क्षेत्रे परबीजान्यवाप्सुः (आप०ध० २.६.१३.६)। मा अभित्थाः। मा आवः॥

Siddhanta Kaumudi

अडाटो न स्तो माङ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय (जनि(स्वा)ष्ठा उ॒ग्रः सह॑से तु॒राय॑) । मा वः क्षेत्रे परबीजान्यवाप्सुः (मा वः॒ क्षेत्रे॑ परबी॒जान्यवा॑प्सुः) ॥

Padamanjari

मा वः क्षेत्र इति । वः युष्माकं क्षेत्रे भार्यायां परबीजानि परेषां वीर्याणि मा वाप्सुः, उप्तानि मा भूवन् । वपेः कर्मणि लुङ्, व्यत्ययेन परस्मैपदम्, झेर्जुस्, सिच्, वदव्रज इति वृद्धिः । क्वचितु माङ्योगेऽपि भवतीति प्रकम्य अवाप्सुरिति पठ।ल्ते, तथाध्ययनं तु न क्वचिद्दृष्टमभित्था इति । भिदेस्थास्, झलो झलि इति सिचो लोपः । आवरिति । पूर्वसूत्रे वृतावेव व्युत्पादितम् ॥

Prakriyasarvasvam

अमाङ्योगे माङ्योगेऽपि बहुलमडाटौ स्तः । जनिष्ठा उग्रः । काममूनयीः । आ दस्मादन्यो अजनिष्ट । औक्ष¹त् घृतैः । माङ्योगेऽपि बहुलं क्वचित् स्यात् । मा वः क्षेत्रे परबीजान्यवाप्सुः ।