64076: इरयो रे ============== **Padacheda:** इरयोः | S | 6 | 2 | रे | S | | | 1 Sutrartha --------- **** Vasu English Summary -------------------- रे is diversely substituted for इरे in the छन्दस् (Vedas). Vasu English Translation ------------------------ रे is diversely substituted for इरे in the छन्दस् (Vedas). Thus कं स्विद्गर्भं प्रथमं दध्रे आपः (*Rig* X. 82.5) या स्य परिदध्रे ॥ In दध्रे, the आ of धा is elided before the affix इरे by (6.4.64), the रे substitution being considered as *asiddha* (6.4.22) for the purposes of the elision of आ ॥ Sometimes the substitution does not take place, as परमाया धियोग्निर्म्माणि चक्रिरे ॥ Here इट् augment is first added to रे after the सेट् roots and the affix thus becomes इरे, then रे is substituted again for this इरे by this *sutra*, thus the affix is brought back to its original condition. To show this repetition — रे — इरे — रे the *sutra* has exhibited the word इरयोः in the dual number. Kashika ------- इर इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति। गभ॑ ᐀्ं प्रथ॒मं द॑ध्॒र आपः॒ (ऋ० १०.८२.५)। या॑श्च॒ परि॒द॑दृ॒श्रे (मै०सं० ४.४.१)। धाञो रेभावस्यासिद्धत्वादातो लोपः (६.४.६४) भवति। न च भवति — परमाया धियोऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटां धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थं च इरयोरित्ययं द्विवचननिर्देशः॥ Siddhanta Kaumudi ----------------- प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥ Padamanjari ----------- दघ्र इति । ननु चात्र परत्वाद्रेभावे कृते अनजादित्वादाल्लोपो न प्राप्नोति अत आह - घञो रेभावस्यासिद्धत्वादिति । नन्वेवमपि रेभावे कृते तस्यैवेडागमः प्राप्नोति, न च रेभावस्य वैयर्थ्यम् कृसृभृप्रभृतिष्वनिट्सु चरितार्थत्वात् इत्यत आह - अत्रेति । कथं पुनर्लाक्षणिकस्य तस्य थैरेशब्दस्य रेभावो भवति कथं वा स्वप्रवृत्तिमपेक्ष्य तस्मिन्निडागमे कृते पुनः स्वयं प्रवर्तमानस्यात्माश्रयदोषो न भवति तत्राह - तदर्थे चेति । द्विवचननिर्देशाद् दोषद्वयं न भवतीत्यर्थः ॥ Nyaas ----- `दध्रे` इति। दधातेर्लिट्, `लिटस्थझयोरेशिरेच्` (3.4.81) इतोरेच्। तस्यानेन रयादेशः **अतो लोपः** (6.4.48) इत्याकारलोपः। `परिददृश्रे` इति। दृशः परिपूर्याल्लिडादिरातोलोपदर्ज विधेयः। अथ `दध्रे इत्यत्र कथमातो लोपः? यावता `दवा+हरे` इति स्थित आकारलोपः प्राप्नोति? रेभावश्च, तत्र परत्वाद्रेभावः; तस्मिन्? कृतेऽनजादित्वादाकारलोपो न प्राप्नोति? अत आह -`धाञो रेभावस्यासिद्धत्वात्` इत्यादि असिद्धत्वन्तु `सिद्धवदत्रा भात्` (6.4.22) इत्यनेन। `चक्रिरे` इति। कृञो रूपम्। ननु च रेभावे कृते दृशिप्रभृतयो ये लिटि सेटो धातवः, क्रादिमियमात्? तेभ्यो र इत्यस्येटि कृते ददृश्रे इति रूपं न सिद्धयेत्? ददृशिर इत्यादिना रूपेण भवितव्यम्, न च शक्यते वक्तुम् -रेभावविधानसामर्थ्यादिङ् न भविष्यति; रेभावस्थ क्रादिषु चारितार्थत्वात्? तेब्यो हि परस्य लिटः `कृसृ` (7.2.13) इत्यादिनेट्प्रतिषेधः? इत्यत आह -`अत्र` इत्यादि। कथं पुना रेभावो लभ्यते? इत्याह -`तदर्थञ्च` इत्यादि। इटि कृते पुना रेभावो यता स्यादित्येवमर्थमिरेश्च इरेश्चेत्येकशेषं कृत्वेरयोरिति द्विवचनेन निर्देशः। तेन यश्च झस्थान इरेच्? शब्दः क्रियते, यश्चेरे इत्यस्येटि कृते सत्युत्तरकालमिरेशब्दः सम्पद्यते, तयोरपि रेभावः सिद्धो भवति॥ Prakriyasarvasvam ----------------- इरे शब्दस्य बहुलं रे स्यात् । ददृशिरे इति प्राप्ते नक्तं ददृश्रे । मदे सोमस्य रण्यानि चक्रिरे । सेटां रेत्वे कृते पश्चादिटि स्यादिर इत्यदः । पुनस्तस्यापि रेत्वार्थं द्वित्वोक्तिरिरयोरिति ।। ८८३ ।।