64074: न माङ्योगे

Padacheda: न | S | 0 | 0 |

माङ्योगे | S | 7 | 1 |

Sutrartha

माङ्-इत्यस्य उपस्थितौ लुङ्लकारे, लङ्लकारे, लृङ्लकारे च अङ्गस्य अडागमः / आडागमः न भवति ।

‘माङ्’ इति किञ्चन अव्ययम् । अस्य प्रयोगः निषेधं दर्शयितुम् भवति । माङ्-इत्यस्य उपस्थितौ माङि लुङ् इत्यनेन (3.3.75) इत्यनेन केवलं लुङ्-लकारस्यैव प्रयोगः भवितुमर्हति, अन्येषां लकाराणाम् न । तथा च, यदि माङ्-इत्येतेन सह ‘स्म’ इति अन्यत् अव्ययमपि प्रयुज्यते, तर्हि स्मोत्तरे लङ् च (3.3.176) इत्यनेन लङ्लकारस्य लुङ्लकारस्य वा एव प्रयोगः भवितुमर्हति, अन्येषाम् लकाराणाम् न । अस्मिन् प्रयोगे वर्तमानसूत्रेण अडागमः / आडागमः न क्रियते । यथा - ‘क्लैब्यं मा स्म गमः पार्थ’ (भगवद्गीता, 2.3) - अत्र ‘गम्’ धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् ‘गमः’ एतादृशम् सिद्ध्यति । गम् + लुङ् [लोट् च (3.3.162) इत्यनेन ‘विधिं’ दर्शयितुम् लोट्लकारे प्राप्ते स्मोत्तरे लङ् च (3.3.176) इत्यनेन अपवादत्वेन लुङ्-लकारः विधीयते ।] → गम् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → गम् + अ + ल् [3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु (3.1.55) इति च्लि-इत्यस्य अङ्-आदेशः ।] → गम् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इत्यनेन अडागमे प्राप्ते न माङ्योगे (6.4.74) इति अडागमनिषेधः] → गम् + अ + सि [तिप्तस्.. (3.4.78) इति सिप्] → गम् + अ + स् [इतश्च (3.4.100) इति इकारलोपः] → गमः [विसर्गनिर्माणम्] तथैव - मा भवान् कार्षीत् / मा भवान् करोत् - एतादृशाः प्रयोगाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - ‘मा’ इत्येपि अन्यत् एकमव्ययमस्ति, यस्यापि प्रयोगः ‘निषेधार्थे’ एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुमर्हति । तथा च, अस्य उपस्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः लुङ्/लङ्/लृङ्-लकाराणां विषये अडागमः / आडागमः भवत्येव । यथा, भर्तृहरिः वदति - ‘अरसिकेषु कवित्वनिवेदनम्, शिरसि मा लिख, मा लिख, मा लिख । अत्र ‘मा’ इत्यस्मात् परः लोट्लकारः प्रयुक्तः अस्ति ।

Sutrartha (English)

In presence of the अव्यय माङ्, the अडागमः / आडागमः does not happen even in case of लुङ्लकार, लङ्लकार, and लृङ्लकार

Vasu English Summary

In connection with the prohibitive particle मा the augment अट् or आट् is not added in the Aorist, Imperfect and the Conditional.

Vasu English Translation

In connection with the prohibitive particle मा the augment अट् or आट् is not added in the Aorist, Imperfect and the Conditional. Thus मा भवान् कार्षीत्, मा भवान् हार्षीत्, मा स्म करोत्, मा स्म हरत्, मा भवानीहिष्टमा, भवानीक्षिष्ट, मा स्म भवानीहत, मा स्म भवानीक्षत ॥

Bhashya

न माङ्योगे (3072) (अडाट्प्रतिषेधाधिकरणम्) (प्रतिषेधप्रतियोगिजिज्ञासाभाष्यम्) कस्यां प्रतिषेधः ? आटः प्राप्नोति ॥ अटोऽपि त्विष्यते । तत्तर्ह्यटो ग्रहणं कर्तव्यम् ॥ (अट्साधकभाष्यम्) न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति ॥ (अडनुवर्तनाक्षेपभाष्यम्) यदि तदनुवर्तते, आडजादीनाम् (72) अट् चेत्यडपि प्राप्नोति ॥ (समाधानभाष्यम्) अस्तु, अटि कृते पुनराट् भविष्यति ॥ (प्रत्याक्षेपभाष्यम्) इहापि अटि कृते पुनराट् प्राप्नोति - अकार्षीत्, अहार्षीत् ॥ (प्रत्याक्षेपसमाधानभाष्यम्) अड्वचनान्न भविष्यति ॥ (पुनः प्रत्याक्षेपभाष्यम्) इहापि तर्हि अड्वचनान्न स्यात् - ऐहिष्ट, ऐक्षिष्ट ॥ (समाधानभाष्यम्) आड्वचनाद्भविष्यति ॥ (आक्षेपभाष्यम्) इहापि तर्हि आड्वचनात् प्राप्नोति - अकार्षीत्, अहार्षीत् ॥ (समाधानभाष्यम्) अकृतेऽटि योऽजादिरित्येवमेतद्विज्ञास्यते । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? अड्वचनसार्मथ्यात् । यदि हि कृतेऽटि योऽजादिस्तत्र स्यात्, अड्वचनमनर्थकं स्यात् ॥ (प्रकारान्तरेण समाधानभाष्यम्) अथवा - उपदेश इति वर्तते । अथवा - आर्धधातुक इति वर्तते । अथवा - लुङ्लङिति द्विलकारको निर्देशः । लुङादिषु लकारादिषु योऽजादिरिति ॥ (समाधानाक्षेपभाष्यम्) सर्वथा - ऐज्यत - औप्यत इति न सिध्यति । एवं तर्हि - (समाधाने श्लोकवार्तिकम्) अजादीनामटा सिद्धमजादीनामटैव सिद्धं नार्थ आटा ॥ (वार्तिकाक्षेपभाष्यम्) एवं तर्हि वृद्ध्यर्थमाट् वक्तव्यः ॥ (समाधाने श्लोकवार्तिकम्) वृद्ध्यर्थमिति चेदटः । अटो वृद्धिं वक्ष्यामि ॥ (वार्तिकावतरणभाष्यम्) यदि तर्ह्यटो वृद्धिरित्युच्यते - (समाधानाक्षेपे श्लोकवार्तिकम्) अस्वपो हसतीत्यत्र अस्वपो हसतीत्यत्रापि रोरुत्वे कृते वृद्धिः प्राप्नोति ॥ (समाधाने श्लोकवार्तिकम्) धातौ वृद्धिमटः स्मरेत् ॥ धातावटो वृद्धिं वक्ष्यामि ॥ तत्तर्हि धातुग्रहणं कर्तव्यम् । न कर्तव्यम् । योगविभागः करिष्यते - अटः, अचि वृद्धिर्भवति । ततः - उपसर्गादृति - वृद्धिर्भवति । ततः - धातौ इत्युभयोः शेषः ॥ (वार्तिकावतरणभाष्यम्) इह तर्हि - आटीत्, आशीत् - अतो गुणे (6.1.97) इति पररूपं प्राप्नोति ॥ (समाधाने श्लोकवार्तिकम्) पररूपं गुणे नाटः आटो नेति वक्ष्यामि । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् ॥ (प्रकारान्तरेण समाधानश्लोकवार्तिकम् ॥) ओमाङोरुसि तत्समम् । यद्यप्येतदुच्यते, अथ वै तर्हि उस्योमङ्क्ष्वाटः प्रतिषेधश्चोदितः, स न वक्तव्यो भवति ॥ (आक्षेपभाष्यम्) छन्दोऽर्थं तर्ह्याट् वक्तव्यः - आरैगु कृष्णा, त्रित एवमायुनक्, ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ॥ (समाधाने श्लोकवार्तिकम्) छन्दोऽर्थं बहुलं दीर्घः छन्दसि दीर्घो बहुलं दृश्यते । तद्यथा - पूरुषः, नारक इति ॥ (आक्षेपभाष्यम्) एवं तर्हि - आयन्, आसन् - इणस्त्योर्यण्लोपयोः कृतयोरनजादित्वाद्वृद्धिर्न प्राप्नोति ॥ (समाधाने श्लोकवार्तिकम्) इणस्त्योरन्तरङ्गतः ॥ अन्तरङ्गत्वात् वृद्धिर्भविष्यति । तस्मान्नार्थ आट्ग्रहणेन ॥ (संग्रहः) अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । अस्वपो हसतीत्यत्र धातौ वृद्धिमटः स्मरेत् ॥ 1 ॥ पररूपं गुणे नाट ओमाङोरुसि तत्समम् । छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ॥ 2 ॥

Kashika

माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्त ं तन्न भवति। मा भवान् कार्षीत्। मा भवान् हार्षीत्। मा स्म करोत्। मा स्म हरत् । मा भवानीहिष्ट। मा भवानीक्षिष्ट। मा स्म भवानीहत। मा स्म भवानीक्षत ॥

Siddhanta Kaumudi

अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥

Laghu Siddhanta Kaumudi

अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥

Padamanjari

यद्ययमनन्तरस्याट एव प्रतिषेधः स्यात्, तत्संयुक्तमेव प्रतिषेधं कुर्यात् - आडजादीनाममाङ्योगे इति, असंयुच्य तु प्रतिषेधात्सर्वस्य प्राकरणिकस्य प्रतिषेधा विज्ञायत इत्याह - लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवतीति । तत्र लुङ् उदाहरणं न प्रदर्शितम् माङ्योगे तदासम्भवत् । ङिद्विशिष्टस्योपादानम् - असम्दादेशो यो माशब्दः त्वोमौ द्वितीयायः इति तद्योगे प्रतिषेधो मा भूत् - सुखिनं मा अकार्षीदिति । अथ कथम् - मा बालिपथमन्वगाः ॥ स्वच्छन्दमनुवर्तन्ते न शास्त्रमृषयः किल ॥

Nyaas

अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा (व्या।प।19) इत्याट एवायं प्रतिषेध इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह -माङ्योगे लुङलङलृङक्षु परतो यदुक्तं तन्न भवति इति। एतोनोभयोरप्यडाटोः प्रतिषेध इति दर्शयति। उभावपि तौ लृङ्लङ्लृङ्क्षूक्तौ। कथं पुनद्र्वयोरपि प्रतिषेधो लभ्यते? आटाप्यत्रानुवृत्तेः। न च तस्मिन्ननुवर्तमाने सत्यजादीनामष्यट्? प्राप्नोतीत्येष दोषः प्रसज्यते; मण्डूकपलुतिन्यायेनात्राटोऽनुवृत्तेः। योगविभागाद्वा, अयमटोऽपि प्रतिषेध इत्यवसीयते; यदि ह्राट एव प्रतिषेधोऽभिमतः स्यात्? तदा आडजादीनां न माङ्योगे इत्येकमेव योगं कुर्यात। अथ वा -लुङ्लङ्लृङ्क्षु (6.4.71) इत्येतावन्मात्रमनुवर्तते, तेन लुडादिषु यदुक्तं तस्य सर्वस्य प्रतिषेधो न विज्ञायते। न चैवमतिप्रसङ्ग; यतः प्रत्यागन्तेरस्मिन्नेव लुङलङ्लृङ्प्रकरणे यत्? कार्यं विहितं तस्यैव प्रतिषेधो लभ्यते, न सर्वस्य प्रकरणान्तरविहितस्य। अत्र तु प्रकरणेऽडाटावेव विहितौ, अतस्तयोरेव प्रतिषेधः। मा भवान्? कार्षीत् इति। माङि लुङ, (3.3.175) इति लुङः। मा स्म करोत् इति। स्मोत्तरे लङः च (3.3.176) इति लङः। माङ् इति ङ्कारानुबन्धवत उपादानम् -अस्मादादेशी यो माशब्दस्तस्य ग्रहणं मा भूदित्येवमर्थम्; अन्यथा भवान्? सुखिनं मात्राकार्षींत् इत्यत्रापि प्रतिषेधः स्यादिति केचित्। लाक्षणिकत्वादेवास्मदादेशस्याग्रहणमित्ययुक्तमेतत्। निपात एव त्वनयोऽङिन्माशब्दोऽस्ति -मा बालिपथमन्वगाःमा भवतु तस्य पापम् इति तु यस्य प्रयोगस्तद्योगे प्रतिषेधो मा भूदित्येवमर्थं ङिद्विशिष्टस्य ग्रहणम्। योगग्रहणन्तु -योगमात्रे प्रतिषेधो यथा स्यादिति, तेन व्यवहितेऽपि भवति॥अमाङ्योगेऽपि न भवतः इत्यादिना माङ्योगेऽपीत्यस्यार्थमाचष्टे। अत्र च वाक्यद्वयेऽपि बहुलं छन्दसि इत्येतत्सम्बध्यते। बहुलं छन्दसि इत्येतावतैव सिद्धेऽमाङ्योगेऽपीति वचनं विस्पष्टार्थम्। अनुच्यमाने ह्रेस्मिन्? माङ्योगसय प्रकृतत्वात्? तत्रैव छन्दसि बहुलमडाटौ न भवत इत्याशंक्येत। जनिष्ठाः इति। जनेर्लुङ्, थास, इट्, षत्वम्? ष्टुत्वञ्च। ऊनयीत्, अर्दयीत् इति। ऊन परिहाणे (धातुपाठः-1888) अद्र्द हिंसायाम् (धातुपाठः-1828) चुरादी। ह्रन्तक्षण (7.2.5) इत्यादिना वृद्धिप्रतिषेधः। इट ईटि (8.2.28) इति सिचो लोपः, गुणायादेशौ। अवाप्सुः इति। आप्लु व्याप्तौ (धातुपाठः-1260) अवपूर्वः। सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुसादेशः। मा अभित्थाः इति। भिदेस्थास्, झलो झलि (8.2.26) इति सिचो लोपः। माऽऽवः इति। पूर्वमेव व्युत्पादितम्॥

Prakriyasarvasvam

अडाटौ माङ्योगे न स्तः । मा भवान् भूत् । मास्म भूत् । मास्म भवत् । माङ्येव लुङुक्तर्मा भवत्वित्यादौ माशब्दो ज्ञेयः । लुङ् ॥ ‘परोक्षे लिट्’ इति भूतानद्यतनपरोक्षे लिट् । तस्य तिबादि ।

Sutra Prayogas

  • मा निधाः (रघुवंशम्): न माङ्योगे इत्यडागमप्रतिषेधः।

  • व्यथिष्ठा (रघुवंशम्): न माङ्योगे इत्यडागमप्रतिषेधः।

  • मा गमन् (किरातार्जुनीयम्): न माङयोगे इत्यडागमप्रतिषेधः।

  • कारि (शिशुपालवधम्): न माङ्योगे इत्यट्प्रतिषेधः।

  • मा कृथा (शिशुपालवधम्): न माङ्योगे इत्यडागमप्रतिषेधः।

  • यासिर् (शिशुपालवधम्): न माङयोगे इत्यदप्रतिषेधः।

  • मावगाः (शिशुपालवधम्): न माङ्योगे इत्यट्प्रतिषेधः।

  • मा स्म भज्यथाः (शिशुपालवधम्): न माङ्योगे इत्यडभावः।