64069: न ल्यपि

Padacheda: न | S | 0 | 0 |

ल्यपि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The ई substitution for आ under sūtra घुमास्थागापाजहातिसां हलि (6.4.66) does not apply when the absolutive affix ल्यप् follows 1. मा 2. स्था 3. गा 4. पा 5. हा (जुहाति) 6. सा and 7. घु।

Vasu English Translation

The ई substitution for आ under sūtra घुमास्थागापाजहातिसां हलि (6.4.66) does not apply when the absolutive affix ल्यप् follows 1. मा 2. स्था 3. गा 4. पा 5. हा (जुहाति) 6. सा and 7. घु। Thus प्रदाय, प्रधाय, प्रमाय, प्रस्थाय, प्रगाय, प्रपाय, प्रहाय and अवसाय ॥ The affix ल्यप् as the substitute of क्त्वा, is a कित् affix by (1.1.56).

Kashika

ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्त ं तद् न भवति। प्रदाय। प्रधाय। प्रमाय। प्रस्थाय। प्रगाय। प्रपाय। प्रहाय। अवसाय॥

Siddhanta Kaumudi

ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनो-(SK2508) इत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः (SK2509) । विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥

Tattvabodhini

न ल्यपि - न ल्यपि । कथं तर्हिनिपीय यस्ये॑ति श्रीहर्षप्रयोग इति चेदत्राहुः- पीङ् पाने इति दिवादिगणस्थात् ल्यपि न दोष इति । इह प्रशाय प्रच्छायेत्यत्रशाच्छोरन्यतरस्या॑मिति प्राप्तस्येत्वस्याप्यभावो बोध्यः ।

Padamanjari

यदुक्तमिति । ईत्वम्, न त्वनन्तरमेत्वम्, प्राप्त्यभावात् ॥ मयतेरिदन्यतरस्याम् ॥ अपमित्येति । उदीचां माङे व्यतीहारे इति तवाप्रत्ययः, इत्वे कृते तुक् ॥

Nyaas

वेति निवृत्तम्; उत्तरसूत्रे पुनरन्यतस्यांग्रहणात्। यदुक्तम् इति। ईत्त्वम्, न पुनरनन्तरमेत्त्वम्; तस्य ल्यपि प्राप्त्यभावात्। प्रतिषेधस्य च प्राप्तिपूर्वकत्वात्॥

Prakriyasarvasvam

ल्यपि परे घुमादेरीत्वं न । प्रधाय । प्रदाय । प्रमाय । प्रस्थाय । उपगाय । निपाय । निपीयेति तु ‘पीङ् पान’ इत्यस्मात् । विहाय । अवसाय ॥ <karika>अदेः क्त्वायां जग्धिसिद्धौ पुनर्ल्यपि तदुक्तितः । न क्त्वाकार्याणि सर्वाणि ल्यपि सन्तीति बोध्यते ॥ १७० ॥ तेन द्यतिस्यतीत्यादिपञ्चसूत्रीगतं च न । तस्मात् प्रदाय प्रस्थाय विहायेत्याद्युदाहृतम् ॥ १७१ ॥ दीर्घोऽनुनासिकान्तानां जगादेरात्वसूठ् च न । प्रक्रम्याखन्य सन्दीव्य हलि चेतीह दीर्घता ॥ १७२ ॥</karika>