64068: वाऽन्यस्य संयोगादेः

Padacheda: वा | S | 0 | 0 |

अन्यस्य | S | 6 | 1 |

संयोगादेः | S | 6 | 1 |

Sutrartha


Vasu English Summary

For the final आ of any other root than those mentioned in घुमास्थागापाजहातिसां हलि (6.4.66), ए may optionally be substituted in the Benedictive active, when the root begins with a conjunct consonant.

Vasu English Translation

For the final आ of any other root than those mentioned in घुमास्थागापाजहातिसां हलि (6.4.66), ए may optionally be substituted in the Benedictive active, when the root begins with a conjunct consonant. The स्था was the only root of (6.4.66), which could have been affected by this rule. It has been, however, specially exempted by the word अन्यस्य ॥ Thus ग्लेयात् or ग्लायात्, म्लेयात् or म्लायात्, but only स्थेयात् (6.4.66), and यायात् (not commencing with a double consonant). The phrase क्ङिति is understood here and therefore the rule applies to Parasmaipada affixes (3.4.104). Thus ग्लासिष्ट in Atmanepada. The root considered as an anga, should consist of a double consonant, therefore in निर्वायात् (from निर् + वा), र्व is not to be considered as a root having a double consonant, for र is no part of the anga, but of the preposition.

Kashika

घ्वादिभ्योऽन्यस्य संयोगादेराकारान्तस्य वैकारादेशो भवति लिङि परतः। ग्लेयात्,ग्लायात्। म्लेयात्,म्लायात्। अन्यस्येति किम् ? स्थेयात्। संयोगादेरिति किम् ? यायात्। क्ङितीत्येव — ग्लासीष्ट। अङ्गस्येत्येव — निर्वायात्॥

Siddhanta Kaumudi

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति ।{$ {!905 द्यै!} न्यक्करणे$} । न्यक्करणं तिरस्कारः ।{$ {!906 द्रै!} स्वप्ने$} ।{$ {!907 ध्रै!} तृप्तौ$} ।{$ {!908 ध्यै!} चिन्तायाम्$} ।{$ {!909 रै!} शब्दे$} ।{$ {!910 स्त्यै!} {!911 ष्ट्यै!} शब्दसंघातयोः$} । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति । अतिष्ट्यपदित्यत्रषत्वम् ।{$ {!912 खै!} खदने$} ।{$ {!913 क्षै!} {!914 जै!} {!915 षै!} क्षये$} । क्षायति । जजौ । ससौ । साता । घुमास्था (SK2462) इत्यत्र विभाषा घ्राधेट् - (SK2376) इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् ।{$ {!916 कै!} {!917 गै!} शब्दे$} । गैयात् । अगासीत् ।{$ {!918 शै!} {!919 श्रै!} पाके$} ।{$ {!920 पै!} {!921 ओवै!} शोषणे$} । पायात् । अपासीत् । घुमास्था - (SK2462) इतीत्वं तदपवाद एर्लिङि (SK2374) इत्येत्वं गातिस्था (SK2223) इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् ।{$ {!922 ष्टै!} वेष्टने$} । स्तायति ।{$ {!923 ष्णै!} वेष्टने$} । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति ।{$ {!924 दैप्!} शोधने$} । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् ।{$ {!925 पा!} पाने$} । पाघ्राध्मा - (SK2360) इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् ।{$ {!926 घ्रा!} गन्धोपादाने$} । जिघ्रति । घ्रायात् । घ्रेयात् । अघ्रासीत् । अघ्रात् ।{$ {!927 ध्मा!} शब्दाग्निसंयोगयोः$} । धमति ।{$ {!928 ष्ठा!} गतिनिवृत्तौ$} । तिष्ठति । स्थादिष्वभ्यासेन - (SK2277) इति षत्वम् । अधितष्ठौ । उपसर्गात् - (SK2270) इति षत्वम् । अधिष्ठाता । स्थेयात् ।{$ {!929 म्ना!} अभ्यासे$} । मनति ।{$ {!930 दाण्!} दाने$} । प्रणियच्छति । देयात् । अदात् ।{$ {!931 ह्वृ!} कौटिल्ये$} । ह्वरति ॥

Laghu Siddhanta Kaumudi

घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। ग्लेयात्, ग्लायात्॥

Balamanorama

वाऽन्यस्य संयोगादेः - आशीर्लिङि आत्त्वे कृते ग्ला-यात्-इति स्थिते — वाऽन्यस्य । आर्धधातुक इत्यधिकृतम् ।एर्लिङी॑त्यनुवर्तते ।ए॑रिति प्रथमान्तम् ।आतो लोप इटि चे॑त्यत ‘आत’ इत्यनुवर्तते । कस्मादन्यस्येत्यपेक्षायां घुमास्थागापाजहातिसां हली॑ति प्रकृतत्वात्तेभ्योऽन्यस्येति लभ्यते । तदाह — घुमास्थादेरित्यादिना । कतीति ।दीङो युडचि क्ङिती॑त्यतस्तदनुवृत्तेरिति भावः । ङितीति तु नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभवात् । अग्लासीदिति ।यमरमे॑त्यादन्तत्वात्सगिटौ । अग्लासिष्टामग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति । ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करणे ।यकारमध्योऽयम् । इत आरभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । ‘रै शब्दे’ इत्यादीनां त्वसंयोगादीनामाशीर्लिङिवाऽन्यस्य संयोगादे॑रित्येत्त्वं न भवति, [तेन] रायादित्यादि रूपमिति विशेषः । स्त्यै ष्टऐ इति । षोपदेशेषु स्त्यादातोः पर्युदासाद्यो न षोपदेशः । द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसंपन्नटकारनिर्देशः । सत्वे कृते इति ।धात्वादे॑रिति षस्य सकारे सति निमित्ताऽपायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्टआसतीति । ष्टऐधातोः कृतसत्वात्सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि सपिसन्यङो॑रिति द्वित्वे ‘शर्पूर्वाः खयः’ इति सकारयकारनिवृत्तौ ‘तास्त्यासति’ इति स्थिते अभ्यासह्रस्वे ‘सन्यतः’ इति इत्वे सकारस्य इणः परत्वादादेशसकारत्वाच्च षत्वेतिष्टआसती॑ति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादित्वाऽभावात्षत्वं न स्यादिति भावः । अतिष्टपदिति । ष्टऐधातोः कृतसत्वाण्णौ आत्त्वे॒अतिह्यी॑ ति पुकि स्त्यापि इति ण्यन्ताल्लुङि अडागमे तिपि ‘इतश्च’ इति इकारलोपेणिश्रिद्रुरुआउभ्यः॑ इति च्लेश्चङिणेरनिटी॑ति णिलोपे ‘णौ चङ्युपधायाः’ इति ह्रस्वे ‘चङि’ इति स्त्यबित्यस्य द्वित्वेशपूर्वा इति सकारयकारपकाराणां निवृत्तौ सत्यां ‘सन्यतः’ इति इत्वे, इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे, तस्य ष्टुत्वे अतिष्ठपदितिरूपम् । स्वाभाविकसकारत्वेत्वादेशसकारत्वाऽभावात्षत्वं न स्यादिति भावः । जजौ ससाविति । जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः । ननुएर्लिङी॑त्यत्रघुमास्थागापाजहातिसा॑मित्यनुवृत्त्या सैधातोराशीर्लिङिसाया॑दित्यत्र एत्त्वं स्यत् । तथा लुङि सगिटोः — असासात् असासिष्टामित्येव इष्यते । तत्रविभाषा घ्राधेट्शाच्छासः॑ इति स#इचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह — घुमास्थेत्यत्रेत्यादि । स्यतेरिति । ‘षो अन्तकर्मणि’ इति श्यन्विकरणस्येत्यर्थः । अत्र व्याख्यानमेव शरणम् ।विभाषा घ्राधेडि॑त्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । पै ओ वै । पायति । वायति ।ओदितश्चे॑ति निष्ठानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्रघुमास्थागापाजहातिसां हली॑ति ईत्त्वं स्यात् । तथा आशीर्लिङि पायादित्यत्रएर्लिङी॑त्येत्वं स्यात्, तत्रापिघुमास्थागापाजहातिसा॑मित्यनुवृत्तेः, तथा लुङिअपासी॑दित्यत्रगातिस्थे॑ति सिचो लुकियमरमे॑ति इटोऽभावात्तत्संनियोगशिष्टः सगपि न स्यादित्यत आह — — घुमास्थेतीत्त्वमित्यादिना । पारूपस्येति । उदाहृतसूत्रत्रये लक्षणप्रतिपदोक्तपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोग्र्रहणं, नतु पैधातोः कृतात्वस्येति भावः । एवं च प्रकृते पैधातोराशीर्लिङि पायादित्येव रूपम् । लुङि सगिटोः अपासीत्, अपासिष्टामित्येव रूपम् । ष्ट इति । षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह — स्तायतीति । ष्णैधातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः । तदाह — स्नायतीति । दैप् । अघुत्वादिति । घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तेरिति भावः । पा पाने । पिबादेश इति । ‘शिद्विषय’ इति शेषः । तस्येति । पिबादेशस्य अदन्तत्वान्न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ पपतुः पपुः । भारद्वाजनियमात्थलि वेट् — पपिथ-पपाथ पपथुः पप । पपौ पपिव पपिम । क्रादिनियमादिट् । पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । आशीर्लिङि ‘एर्लिङ’ इत्येत्त्वमभिप्रेत्याह — पेयादिति ।गातिस्थे॑ति सिचो लुगित्यभिप्रेत्याह — आपादिति । अपातामपुः । अपाः अपातमपात । अपामपाव अपाम । अपास्यत् । घ्रा ।पाघ्राध्मे॑ति शिद्विषये जिघ्रादेशः । तदाह — जिघ्रतीति । अनिडयम् । जघ्रौ जघ्रतुः जघ्रुः । भारद्वाजनियमात्थलि वेट् — जघ्रिथ जघ्राथ जघ्रथुः जघ्र । जघ्रौ जघ्रिव जघ्रिम । क्रादिनियमादिट् । घ्राता घ्रास्यति । जिघ्रतु । अजिघ्रत् । जिघ्रेत् । आशीर्लङिवाऽन्यस्य संयोगादे॑ रित्येत्त्वविकल्पं मत्वा आह - घ्रायात् घ्रेयादिति ।विभाषा घ्राधे॑डिति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ । तदाह — अघ्रात् अघ्रासीदिति । ध्माधातुरनिट् ।पाघ्राध्मे॑ति शिद्विषये धमादेशः । तदाह — धमतीति । दध्मौ दध्मतुः दध्मुः । दध्मिथ — दध्माथ, दध्मथुः दध्म । दध्मौ दध्मिव दध्मिम । ध्माता.ध्मास्यति । धमतु । अधमत् । धमेत् । ध्मायात् — ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्ठाधातुः षोपदेशः कृतष्टुत्वनिर्देशः । शिद्विषयेपाग्रे॑ति तिष्ठादेशः । तदाह — तिष्ठतीति । तस्थौ । अधितष्ठावित्यत्र इण्कवर्गाभ्यां परत्वाऽभावेऽपि षत्वमाह — स्थादिष्विति । तस्थतुः तस्थुः । तस्थिथ — तस्थाथ, तस्थथुः तस्थ । तस्थौ तस्थिव तस्थिम । स्थाता । अधिष्ठातेत्यत्रसात्पदाद्यो॑रिति षत्वनिषेधमाशङ्क्याह — उपसर्गादिति षत्वमिति । स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । आशीर्लिङि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाऽभावादेत्त्वविकल्पो न, किंतुएर्लिङी॑ति नित्यमेव एत्त्वम् । तदाह — स्थेयादिति ।गातिस्थे॑ति सिचो लुक् । अस्थात् । अस्थास्यत् । म्ना इति । अयमप्यनिट् ।पाध्रे॑ति शिद्विषये मनादेशः । तदाह — मनतीति । मम्नौ मम्नतुः मम्नुः । मम्निथ — मम्नाथ मम्नथुः मम्न.मम्नौ मम्निव मम्निम । म्नाता । म्नास्यति । मनतु । अमनत् । मनेत् । म्नायात् — म्नेयात् । अम्नासीत् । अम्नास्यत् । दाण् दाने । अयमप्यनिट् । ‘पाघ्रे’ ति शिद्विषयेय यच्छादेशः । प्रणियच्छतीति ।नेर्गदे॑ति णत्वम् । ददौ ददतुः ददुः । ददिथ-ददाथ ददथुः दद । ददौ ददिव ददिम । दाता । दास्यति । यच्छतु । अयच्छत् । यच्छेत् । आशीर्लिङिएर्लिङी॑त्येत्त्वं मत्वा आह — देयादिति ।गातिस्थे॑ति सिचो लुकं मत्वा आह — अदादिति । ह्व्ट कौटिल्ये । अयमप्यनिट् । ह्वरतीति । शपि गुणे रपरत्वम् ।

Tattvabodhini

वाऽन्यस्य संयोगादेः - वान्यस्य । अन्यस्य किम् । स्थेयात् । द्यै न्यक्करणे । द्यायति । दद्यौ । अद्यासीत् । घुमास्थेत्यत्रेति । व्याख्यानात्तन्त्रान्तरे जहातिस्यतीनामिति श्यना निर्देशाच्चेति भावः । विभाषा घ्रेति । कश्यन्विकरणाभ्यां शाच्छाभ्यां साहचर्यादिति भावः । एवं शाच्चासेति युग्विधावपि स्येतेरेव ग्रहणमिति बोध्यम् । तेनाऽस्य धातोःअर्तिह्यी॑ति पुगेव । सापयति । पै ओवै । पायति । वायति । शुष्यतीत्यर्थः ।ओदितश्चे॑ति निष्ठानत्वम् । वानम् ।शुष्के वानमुबे त्रिषु॑ इत्यमरः । अदन्तत्वादिति । केचित्तु अङ्गवृत्तपरिभाषयापि गुणाऽभावं समर्थयन्ति । घ्रा गन्धोपादाने । गन्धोपादानं — गन्धग्रहणम् । नन्वेवं कर्मणो धात्वर्थेनोपसङ्गहाकर्मकत्वेनजिघ्रति कुसुम॑मित्यादि प्रयोगो न सिद्ध्येदिति चेदत्राहुः — यद्धात्वर्थेन कर्तृनिष्ठकर्मण उपसङ्ग्रहस्तस्यैव धातरकर्मकत्वं नान्यस्य । भवति हि जीवति नृत्यतीत्यादेरकर्मकत्वम् । तदर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वात् । घ्राधातोः कर्मणस्त्वतथात्वान्नाऽकर्मकतेति । ध्मा शब्दाग्निसंयोगयोः । शब्दशब्देन तदनुकूलो वायुरिह गृह्रते । तेन शङ्खं धमतीतिवन्मृदङ्गं धमतीति प्रयोगो नेत्याहुः । अग्निसंयोगे — सुवर्णं धमति । अग्निना संयुक्तीत्यर्थः । स्थेयादिति ।एर्लङी॑ति नित्यमेत्वम् । लुङि — अस्थात् । म्ना अभ्यासे । मनति विद्याम् । अभ्यस्यतीत्यर्थः । मम्नौ । अम्नासीत् । अदादिति ।गातिस्थे॑ति सिचो लुक् ।

Padamanjari

स्थेयादिति । अन्यस्य ग्रहणेऽक्रियमाणे पूर्वयोगोऽन्येषु सावकाशः, अयमपि ग्लायादित्यादिषु स्थेयादित्यत्रोभयप्रसङ्गे परत्वादयमेव विधिः स्यादित्यन्यस्य ग्रहणम् ॥

Nyaas

अन्यस्येति किं? `स्थेयात् इति। यद्यन्यस्येति न क्रियेत, तदा पूर्वयागोऽन्येषु ध्वादिषु सावकाशः, अयमपि ग्लायादित्यादिषु; स्थेयादित्यत्रोभयप्राप्तौ परत्वादनेन विकल्पः स्यादित्यन्यग्रहणम्। यदि पूर्वयोगस्तिष्ठत्यर्थोऽप्यारभ्येत तदा तदर्थस्य तस्यारम्भसामर्थ्यात्? पूर्वेण नित्यमेत्त्वं भविष्यति, अन्यथां तदर्थस्य तस्यारम्भो निष्फलः स्यादिति शक्यमन्यग्रहणमकर्तुम्। तत्? क्रियते विस्पष्टार्थम्॥

Prakriyasarvasvam

घुमादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यात् । (आर्धधातुके क्ङिति लिङि) ख्येयात्, ख्यायात्, एवं क्शाञोऽपि द्वेधा । कर्मणि ख्यायिषीष्टेत्यादि । ख्याता, क्शाता, ख्यास्यते, ख्यास्यति इत्यादि । ‘चक्षिङो वर्जने ख्याञ् नेति वाच्यम्’ (वा०) । यकि सञ्चक्ष्यते । लुङि समचक्षिष्ट । समचक्षिषाताम् । लिङादौ सञ्चचक्षे । सञ्चक्षिषीष्ट । सञ्चक्षिता । सञ्चक्षिष्यते । ण्यन्ति सञ्चक्ष्याः खलाः । ईक्ष ऐश्वर्ये । झलि ‘—झशां षः’ ईष्टे । ईशाते । ईशते ।