64058: युप्लुवोर्दीर्घश्छन्दसि¶
Padacheda: यु-प्लुवोः | S | 6 | 2 |
दीर्घः | S | 1 | 1 |
छन्दसि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In यु and प्लु , long is substituted for उ in the छन्दस् (Vedas).
Vasu English Translation¶
In यु and प्लु , long is substituted for उ in the छन्दस् (Vedas). Thus दान्त्यनुपूर्वं वियूय; यत्रा यो दक्षिणा परिप्लूय ॥ Why do we say ‘in the Chhandas’? Observe संपुत्य, आप्लुत्य in the secular literature.
Kashika¶
यु प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति। दान्त्य॑नुपू॒र्वं वि॒यूय॑ (ऋ० १०.१३.१.२)। यत्रापो दक्षिणा परिप्लूय (काठ० सं० २५.३) छन्दसीति किम्? संयुत्य। आप्लुत्य॥
Siddhanta Kaumudi¶
ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् (SK2254) ॥
Nyaas¶
यु मिश्रणे (धातुपाठः-1033) [मिश्रणेऽमिश्रणे च -धातुपाठः-] प्लुङः गतौ (धातुपाठः-958) अनयोर्धात्वोस्तुकि प्राप्ते दीर्घाथं वचनम्॥
Prakriyasarvasvam¶
अनयोल्र्यपि दीर्घः स्यात् । अनुपूर्वं वियूय । आपो दक्षिणाः परिप्लूय ।